| YouTube Channel

नाट्यं (nATyaM)

 
Apte 1890
English
नाट्यं [नटस्येदं कृत्यं ष्यञ्] 1 Dancing.
2 Dramatic representation, gesticulation, acting
नाट्ये दक्षा वयं Ratn. 1. 6
नूनं नाट्ये भवति चिरं नोर्वशी गर्वशीला Vikr. 18. 29.
3 The science or art of dancing or acting, scenic art
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनं M. 1. 4.
4 The costume of an actor.
ट्यः An actor.
Comp.
आचार्यः a dancing preceptor.
उक्तिः f. dramatic phraseology.
धर्मिका,
धर्मी the rules of dramatic representation.
प्रियः an epithet of Śiva.
शाला {1} a dancing-hall. {2} a theatre.
शास्त्रं {1} the dramatic science, dramaturgy. {2} a work on dramatic representation.
शब्दकल्पद्रुमः
Sanskrit
नाट्यं,
क्ली,
(नटानां कार्य्यम् नट + “छन्दोगौक्-थिकयाज्ञिकबह्वृचनटात् ञ्यः ।” १२९ ।इति ञ्यः ।) नृत्यगीतवाद्यम् तत्पर्य्यायः ।तौर्य्यत्रिकम् इत्यमरः १०
(यथा, देवीभागवते ३० ।“नाट्यं तनोषि सगुणा विविधप्रकारंनो वेत्ति कोऽपि तव कृत्यविधानयोगम्
”)नटानां समूहः इति व्याकरणम्
नाट्या-रम्भनक्षत्राणि यथा अनुराधा १७ धनिष्ठा२३ पुष्यः हस्ता १३ चित्रा १४ स्वाती १५ज्येष्ठा १८ शतभिषा २४ रेवती २७
इतिज्योतिषम्
*
नाट्यफलं यथा, --“देवर्षिक्षितिपालपूर्व्वचरितान्यालोक्य धर्म्मादय-स्तत्स्तावाश्रितभूमिकाभिनयने स्यादर्थसिद्धिःपरा ।संगीतायुतचित्तवृत्तिभरणा वश्या भवन्त्यङ्गनाज्ञानं शङ्करसेवयेति कथितं नाट्यं चतुर्व्वर्ग-दम्
यो यस्य दयितो भावः तं नाट्ये निरीक्षते ।अतः सर्व्वमनोहारि नाट्यं कस्य रञ्जकम्
”नाट्योत्पत्तिर्यथा, --“इहानुश्रूयते ब्रह्मा शक्रेणाभ्यर्थितः पुरा ।चकाराकृष्य वेदेभ्यो नाट्यवेदन्तु पञ्चमम्
उपवेदोऽथ वेदाश्च चत्वारः कथिताः स्मृतौ ।तत्रोपवेदो गान्धर्व्वः शिवेनोक्तः स्वयम्भुवे
तेनापि भरतायोक्तस्तेन मर्त्ये प्रचारितः ।शिवाब्जयोनिभरतास्तस्मादस्य प्रयोजकाः
”इति सङ्गीतदामोदरः