| YouTube Channel

नाटकलक्षण (nATakalakSaNa)

 
Monier Williams Cologne
English
नाटक—लक्षण
n.
N.
of wk.
Apte Hindi
Hindi
नाटकलक्षणम्
नपुं*
नाटकम्-लक्षणम् -
नाट्यरचना विषयक विविध नियम
Aufrecht Catalogus Catalogorum
English
नाटकलक्षण by Puṇḍarīka. SB. 308.
नाटकलक्षण ibid.
वाचस्पत्यम्
Sanskrit
नाटकलक्षण
न०
नाटकस्य दशविधरूपकस्य लक्षणम् ।सा० द० उक्ते षट्त्रिंशन्मिते नाटकस्य लक्षणे यथा“षटत्रिंशल्लक्षणान्यत्र नाट्यालङ्कृतयस्तथा ३६ त्रय-स्त्रिंशत् प्रयोज्यानि वीथ्यङ्गानि त्रयोदश लास्याङ्गानिदश यथालाभं रसव्यपेक्षया” इत्युद्दिश्य “भूषणाक्षरसं-हातौ शोभोदाहरणं तथा हेतुसंशयदृष्टान्तास्तुल्यतर्कःपदोच्चयः निदर्शनाभिप्रायौ प्राप्तिर्विचार एव ।दिष्ठोपदिष्टे गुणातिपातातिशयौ तथा विशेषण-निरुक्ती सिद्धिर्भ्रंशविपर्य्ययौ दाक्षिण्यानुनयौमालाऽर्थापत्तिगर्हणे तथा पृच्छा प्रसिद्धिः सारूप्यंसंक्षेपो गुणकीर्त्तनम् लेशो मनोरथोऽनुक्तसिद्धिः प्रिय-वचस्तथा लक्षणानि” इति बिभज्य क्रमेणलक्षितानि यथा“गुणैः सालङ्कारैर्य्योगस्तु भूषणम् वर्णनाऽक्षर-संहात श्चित्रार्थैरक्षरैर्मितैः सिद्धैरर्थैः समं यत्र प्रसि-द्धोऽर्थः प्रकाशते श्लिष्टलक्षणचित्रार्था सा शोभेत्यभि-धीयते यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् ।साध्यतेऽभिमतश्चार्थस्तदुदाहरणं मतम् हेतु र्वाक्यंसमासोक्तमिष्टकृद्धेतुदर्शनात् संशयो ज्ञाततत्त्वस्यवाक्ये स्याद्यदनिश्चयः दृष्टान्तो यस्तु पक्षार्थसाध-नाय निदर्शनम् तुल्यतर्को यदर्थेन तर्कः प्रकृतगा-मिना सञ्चयोऽर्थानुरूपो यः पदानां पदोच्चयः ।यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्त्तनम् परपक्ष-व्युदासार्थं तन्निदर्शन १० मुच्यते अभिप्राय ११ स्तु सादृ-श्यादद्भुतार्थस्य कल्पना प्राप्तिः १२ केनचिदंशेन किञ्चि-द्यत्रानुमीयते विचारो १३ युक्तवाक्यैर्यदप्रत्यक्षा-र्थसाधनम् देशकालस्वरूपेण वर्णना दिष्ट १४ मुच्यते ।उपदिष्टं १५ मनोहारि वाक्यं शास्त्रानुसारतः ।गुणातिपातः १६ कार्य्यं यद्विपरीतं गुणान् प्रति ।यः सामान्यगुणोद्रेकः गुणातिशयो १७ मतः अ-र्थान् सिद्धान् बहूनुक्त्वा विशेषोक्तिर्विशेषणम् १८ पूर्व-सिद्धार्थकथनं निरुक्ति १९ रिति कीर्त्तितम् बहूनांकीर्त्तनं सिद्धि २० रभिप्रेतार्थसिद्धये दृप्तादीनां भवेद्-भ्रंशो २१ वाच्यादन्यतरद्वचः विचारस्यान्यथाभावःसन्देहात्तु विपर्य्ययः २२ दाक्षिण्यं २३ चेष्टया वाचापरचित्तानुवर्त्तनम् वाक्यैः स्निग्धैरनुनयो २४ भवे-दर्थस्य साधनम् माला २५ स्याद्यदभीष्टार्थं नैकार्थप्र-तिपादनम् अर्थापत्ति २६ र्यदन्यार्थोऽर्थान्तरोक्तेः प्रती-यते दूषणोद्घोषणायां तु भर्त्सना गर्हणं २७ तु तत् ।अभ्यर्थनापरैर्वाक्यैः पृच्छा २८ ऽर्थान्वेषणं २९ मतम् ।प्रसिद्धि ३० र्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम् सारूप्य ३१मभिभूतस्य सारूप्यात् क्षोभवर्त्तनम् संक्षेपो ३२ यत्तुसंक्षेपादात्मन्यर्थे प्रयुज्यते गुणानां कीर्त्तनं यत्तु तदेवगुणकीर्त्तनम् ३२ लेशो ३३ भण्यते वाक्यं यत् सादृश्यपुरःसरम् मनोरथ ३४ स्त्वभिप्रांयस्योक्तिर्भङ्ग्यन्तरेणयत् विशेषार्थोऽतिप्रस्तावेऽनुक्तसिद्धि ३५ रुदीर्थ्यते ।स्यात्प्रमाणयितुं पूज्यं प्रियोक्ति ३६ र्हर्षभाषणम्”