नाचिकेतः (nAciketaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishनाचिकेतः [nācikētḥ], 1 Fire
ततो मया नाचिकेतश्चितो$ग्निरनित्यैर्द्रव्यैः Kaṭha 1.2.1. -तम् of an उपाख्यान
नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् । उक्त्वा श्रुत्वा च मेधावी ब्रह्मलोके महीयते ॥ Kaṭh.1.3.16.
Apte Hindi
Hindiनाचिकेतः
- नाचिकेता + अण्
अग्नि
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritनाचिकेतः, नचिकताः । अग्निः । यथा, --“स त्वमग्निꣳ स्वर्ग्यमध्येषि मृत्योप्रब्रूहि तꣳ श्रद्दधानाय मह्यम् ।स्वर्गलोका अमृतत्वं भजन्तएतद्द्वितीयेन वृणे वरेण ॥
प्र ते ब्रवीमि तदु मे निबोधस्वर्ग्यमग्निं नचिकेतः प्रजानन् ।अनन्तलोकाप्तिमथो प्रतिष्ठांविद्धि त्वमेनं निहितं गुहायाम् ॥
लोकादिमग्निं तमुवाच तस्मैया इष्टका यावतीर्व्वा यथा वा ।स चापि तत्प्रत्यवदद्यथोक्त-मथास्य मृत्युः पुनराह तुष्टः ।तमब्रवीत् प्रीयमाणो महात्मावरं तवेहाद्य ददामि भूयः ।तवैव नाम्ना भवितायमग्निःसृङ्कां चेमामनेकरूपां गृहाण ॥
त्रिणाचिकेतस्त्रिभिरेत्य सन्धिंत्रिकर्म्मकृत्तरति जन्ममृत्यू ।ब्रह्मयज्ञं देवमीड्यं विदित्वानिचाय्येमाꣳ शान्तिमत्यन्तमेति ॥
त्रिणाचिकेतस्त्रयमेतद्विदित्वाय एवं विद्वाꣳश्चिनुते नाचिकेतम् ।स मृत्युपाशान् पुरतः प्रणोद्यशोकातिगो मोदते स्वर्गलोके ॥
”इति कठोपनिषदि प्रथमा वल्ली । १३-१८ ॥
(ऋषिविशेषः । अस्य विवरणं यथा, महा-भारते । १३ । ७१ । २ -- २१ ।“अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।ऋषेरुद्दालकेर्व्वाक्यं नाचिकेतस्य चोभयोः ॥
ऋषिरुद्दालकिर्धीमानुपगम्य ततः सुतम् ।त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥
समाप्ते नियमे तस्मिन् महर्षिः पुत्त्रमब्रवीत् ।उपस्पर्शनशक्तस्य स्वाध्यायाभिरतस्य च ॥
इध्मा दर्भाः सुमनसः कलसश्चातिभोजनम् ।विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥
गत्वानवाप्य तत् सर्व्वं नदीवेगसमाप्लुतम् ।न पश्यामि तदित्येव पितरं सोऽब्रवीन्मुनिः ॥
क्षुत्पिपासाश्रमाविष्ट ऋषिरुद्दालकिस्तदा ।यमं पश्येति तं पुत्त्रमशपत् स महातपाः ॥
तथा स पित्राभिहितो वाग्वज्रेण कृताञ्जलिः ।प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्च्छितः ।किं मया कृतमित्युक्त्वा निपतात महीतले ॥
तस्य दुःखपरीतस्य स्वं पुत्त्रमनुशोचतः ।व्यतीतं तदहःशेषं सा चोग्रा तत्र शर्व्वरी ॥
पित्रेनाश्रुप्रपातेन नाचिकेतः कुरूद्बह ।प्रास्पन्दच्छयने कौश्ये वृष्ट्या शस्यमिवाप्लुतम् ॥
स पर्य्यपृच्छत्तं पुत्त्रं क्षीणं पर्य्यागतं पुनः ।दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥
अपि पुत्त्र जिता लोकाः शुभास्ते स्वेन कर्म्मणा ।दिष्ट्या चासि पुनः प्राप्तो नहि ते मानुषंवपुः ॥
प्रत्यक्षदर्शी सर्व्वस्य पित्रा पृष्टो महात्मना ।स तां वार्त्तां पितुर्म्मध्ये महर्षीणां न्यवेदयत् ॥
कुर्व्वन् भवच्छासनमाशु यातोह्यहं विशालां रुचिरप्रभावाम् ।वैवस्वतीं प्राप्य सभामपश्यंसहस्रशो योजनहेमभासम् ॥
दृष्ट्वै व मामभिमुखमापतन्तंदेहीति स ह्यासनमादिदेश ।वैवस्वतोऽर्ध्यादिभिरर्हणैश्चभवत्कृते पूजयामास मां सः ॥
ततस्त्वहं तं शनकैरवोचंवृतः सदस्यैरभिपूज्यमानः ।प्राप्तोऽस्मि ते विषयं धर्म्मराज !लोकानर्हेयानहं तान् विधत्स्व ॥
यमोऽब्रवीन्मां न मतोऽसि सौम्ययमं पश्येत्याह स त्वान्तपस्वी ।पिता प्रदीप्ताग्निसमानतेजान तच्छक्यमनृतं विप्रकर्त्तुम् ॥
दृष्टस्तेऽहं प्रतिगच्छस्व तातशोचत्यसौ तव देहस्य कर्त्ता ।ददानि किञ्चापि मनःप्रणीतंप्रिथातिथेस्तव कामान् वृणीष्व ॥
तेनैवमुक्तस्तमहं प्रत्यवोचंप्राप्तोऽस्मि ते विषयं दुर्निवर्त्त्यम् ।इच्छाम्यहं पुण्यकृतां समृद्धान्लोकान् द्रष्टुं यदि तेऽहं वरार्हः ॥
यानं समारोप्य तु मां स देवोवाहैर्युक्तं सुप्रभं भानुमत्तत् ।सन्दर्शयामास तदात्मलोकान्सर्व्वांस्तथा पुण्यकृतां द्विजेन्द्र ! ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
