| YouTube Channel

नागलक्षण (nAgalakSaNa)

 
वाचस्पत्यम्
Sanskrit
नागलक्षण त० नागानां भेदादिज्ञापके चिह्नभेदे अहि-शब्दे ५८१ पृ० तल्लक्षणादिकं सुश्रुतोक्तं दर्शितम् ।अग्निपुराणोक्तं शेषवासुकितक्षकलक्षणादिकमत्र प्रद-र्श्यते तच्च तत्र २९३ अ० उक्तं यथा“अग्निरुवाच नागादयोऽथ भावादि दंशस्थानानि कर्मच सूतकं दष्टचेष्टेति सप्तलक्षणमुच्यते शेषवासुकि-तक्षाख्याः कर्कर्टोऽब्जो महाम्बुजः शङ्खपालश्च कलिकइत्यष्टौ नागवर्यकाः दशाष्टपञ्चत्रिगुणशतमूर्द्ध्वान्वितौक्रसात् विप्रौ नृपौ विशौ शूद्रौ द्वौ द्वौ नागेषु की-र्त्तितौ तदन्वयाः पञ्चशतं तेभ्यो जाता असंख्यकाः ।मणिमण्डलिराजीलवातपित्तकफात्मकाः व्यन्तरा दो-षमिश्रास्ते सर्पा दर्वीकराः स्मृताः रथाङ्गलाङ्गलच्छ-त्रस्वस्तिकाङ्कुशधारिणः गोनसा मन्दगा दीर्घा म-ण्डलैर्विविधैश्चिताः राजिलाश्चित्रिताः स्निग्धास्तिर्य-गूर्द्धञ्च राजिभिः व्यन्तरा मिश्रचिह्नाश्च भूवर्षाग्नेयवायवः चतुर्विघास्ते षड्विंशभेदाः षोडश गोनसाः ।त्रयोदश राजीला व्यन्तरा एकविंशतिः येऽनुक्त-काले जायन्ते सर्पास्ते व्यन्तराः स्मृताः आपाढादि-त्रिमासैः स्याद्गर्भो मासचतुष्टये अण्डकानां शते द्वे चचत्व्यारिंशत् प्रसूयते सर्पा ग्रसन्ति सूतौ तान् विनास्त्रीपुन्नपुंसकान् उन्मीलतेऽक्षि सप्ताहात् कुक्षे-र्मासाद्गवेद्बहिः द्वादशाहात् सुरोषः स्यात् दन्ताःस्युः सूर्यदर्शनात् द्वात्रिंशत्, दिनविंशत्या चतस्रस्तेषु दं-ष्ट्रिकाः कराली मकरी कालरात्री यमदूतिका ।एतास्ताः सविषा दंष्ट्रा वामदक्षिणपार्श्वगाः षण्मासा-न्मुच्यते कृत्त्या जीवेत् षष्टिसमाद्वयम् १२० नागाः सूर्य्या-दिवारेशाः सप्त उक्ता टिवा निशि खेषां षट् प्रति-वारेषु कुलिकः सर्वसन्धिषु शङ्खेन वा महाब्जेनसह तस्योदयोऽथ वा द्वयोर्वा नाडिकामन्त्रमन्त्रकंकुलिकोदयः दुष्टः कालः सर्वत्र सर्पदंशे विशेषतः ।कृत्तिका भरणी स्वाती मूलं पूर्वत्रयाश्विनी विशाखार्द्रामघाश्लेषा चित्रा श्रवणरोहिणी हस्ता मन्दकुजौवारौ पञ्चमी चाष्टमी तिथिः षष्ठी रिक्ता शिवानिन्द्या पञ्चदशी चतुर्दशी सन्ध्याचतुष्टयं दुष्टं दग्ध-योगाश्च राशयः एकद्विबहवो दंशा दष्टविद्धञ्च खण्डि-तम् अदंशमवगुप्तं स्याद्दंशमेवं चतुर्विधम् त्रयोद्व्येकक्षता दंशा वेदना रुधिरोल्वणा नक्तन्त्वेका-ङ्घ्रिकूर्माभा दंशाश्च यमचोदिताः दाही पिपीलिका-स्पर्शीकण्टशोथरुजान्वितः सतोदो ग्रन्थिती दंशःमविषो न्यस्तनिर्विषः देवालये शून्यगृहे वल्मीकोद्या-नकोटरे रथ्यासन्धौ श्मशाने नद्याञ्च सिन्धुसङ्गमे ।द्वीपे चतुष्पथे सौधे गृहेऽब्जे पर्वताग्रतः बिलद्वारेजीर्णकूपे जीर्णवेश्मनि कुड्यके शिग्रुश्लेष्मातकाक्षेषुजम्बूडुम्बरकेषु वटे जीर्णप्राकारे स्वास्यहृत्-कक्षजत्रुणि तालौ शङ्खे गले मूर्घ्नि चिवुके नाभि-पादयोः दंशोऽशुभः शुभो दूतः पुष्पहस्तः सुवाक्सुधीः लिङ्गवर्णसमानश्च शुक्लवस्त्रोऽमलः शुचिः ।अपद्वारगतः शस्त्री प्रमादी भूगतेक्षणः विवर्णवासाःपाशादिहस्तो गद्गदवर्णभाक् शुष्ककाष्ठाश्रितः खिन्न-स्तिलाक्तककरांशुकः आर्द्रवासाः कृष्णरक्तपुष्पयुक्त-शिरोरुहः कुचमर्दी नखच्छेदी गुदस्पृक् पादलेखकः ।केशलुञ्ची तृणच्छेदो दुष्टा दूतास्तथैकशः इडान्यावा वहेद्द्वेधा यदि दूतस्य चात्मनः आभ्यां द्वाभ्यांपुष्टयाम्यान् विद्यात्स्त्रीपुन्नपुंसकान् दूतः स्पृशतियद्गात्रं तस्मिन् दशमुदाहरेत् दूताङ्घ्रिचलनं दुष्ट-मुत्थितिर्निश्चला शुभा जीवपार्श्वे शुभो दूतो दुष्टोऽ-न्यत्र समागतः जीवो गतागतैर्दुष्टः शुभो दूतनिवेदने ।दूतस्य वाक प्रदुष्ठा सा पूर्वामजार्द्धनिन्दिता विमक्त्वै-स्तस्य वाक्यान्तैर्विषनिर्विषकालता आद्यैः स्वरैश्चकाद्यैश्च वर्गैर्भिन्नलिपिर्द्विधा स्वरजो बसुमान्वर्गी इतिज्ञेया मातृका वाताग्नीन्द्रजलात्मानो वर्गेषु चचतुष्टयम् नपुंसकाः पञ्चमाः स्युः स्वराः शक्राम्बुयोनयः दुष्टौ दूतस्य वाक्पादौ वाताग्नी मध्यमो हरिः ।प्रशस्ता वारुणा वर्णा अतिदुष्टा नपुंसकाः प्रस्थानेमङ्गलं वाक्यं गर्जितं मेघहस्तिनोः प्रदक्षिणं फलेवृक्षे वामस्य रुतं जितम् शुभा गीतादिशब्दाःस्युरीदृशं स्यादसिद्धये अनर्थगीरथाक्रन्दो दक्षिणे वि-रुतं क्षुतम् वेश्या क्षुतो नृपः कन्या गौर्दन्ती मुर-जध्वजौ क्षीराज्यदधिशङ्खाम्बु छत्रं भेरी फलंसुराः तण्डुला हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी ।सकाष्ठः सानलः कारुर्मलिनाम्बरभावभृत् गलस्थटङ्कोगोमायुगृध्रोलूककपर्दिकाः तैलं कपालकार्पासा निषेधाभस्म नष्टये विषरोगाश्च सप्त स्युर्धातोर्धात्वन्तराप्तितः ।बिषदंशो ललाटं यात्यतोनेत्रं ततो मुखम् आस्याच्चचरणौ नाड्यौ धातून् प्राप्नोति हि क्रमात्”