| YouTube Channel

नागराद्यचूर्ण (nAgarAdyacUrNa)

 
वाचस्पत्यम्
Sanskrit
नागराद्यचूर्ण
न०
चक्रोदत्तोक्ते चूर्णभेदे “श्रीफलशका-टुकल्को नागरचूर्णेन मिश्रितः सगुडः ग्रहणीगद-मत्युग्रं तकभुजाशीलितो जयति जम्बूदाडिमशृ-ङ्गाटपाठाकञ्चटपल्ववैः पक्वं पर्युसितं बालविल्वंसगुडनागरम् हन्ति सर्वानतीसारान् ग्रहणिमति-दुस्तराम् नागरातिविषामुस्तक्वाथः स्यादामपाचनः ।चूर्णं हिङ्ग्वष्टकं वातग्रहण्यान्तु वृतानि नाग-रातिविषामुस्तं धातकीं सरसाञ्जनम् वत्सकत्वक्फलंविल्वं पाठां कटुकरोहिणीम् पिबेत् समांशं तच्चूर्णंसक्षौद्रं तण्डुलाम्बुना पैत्तिक्रे ग्रहणीदोषे रक्तंयश्चोपावेश्यते अर्शांस्यथ गुदे शूलं जयेच्चैव प्रवाहि-काम् नागराद्यमिदं चूर्णं कृष्णात्रेयेण भाषितम् ।शीतकषायमानेन तण्डुलोदककल्पना केऽप्यष्टगुणतोयेन प्राहुस्तण्डुलभावनाम्”