| YouTube Channel

नागपुरं (nAgapuraM)

 
शब्दकल्पद्रुमः
Sanskrit
नागपुरं,
क्ली,
(नागनामकं पुरम् शाकपार्थि-वादिवत् समासः ।) देशविशेषः तद्विवरणंयथा, --“जटाजूटात् पपातोर्द्ध्वे मेरोस्तस्मात्ततोऽगमत् ।देवैः परिवृता गङ्गा हेमकूटञ्च पर्व्वतम्
मन्दरञ्चैव कैलासं हिमवन्तञ्च पर्व्वतम् ।तामायान्तीन्तु रोधाय स्वलीलो नाम दानवः
पार्व्वतं रूपमास्थाय वर्षाणान्तु शतैर्द्बिजाः ।ततो भगीरथो राजाराधयामास कौशिकम्
तुष्टः प्रददौ नागं वाहनं तं भगीरथः ।समारुह्यागमत्तत्र यत्र रुद्धा भगीरथी
तेन नागेन तं दैत्यं संविदार्य्य सङ्गतः ।शतधा तं समाधाय मूर्द्धन्यैरावतो गजः
महीतलं समापेदे यावन्नागसाह्वयम्
तस्मात् व्याघटनाद्बिप्रा अभून्नागपुरं वरम्
”इति वह्निपुराणे गङ्गावतरणनामाध्यायः