| YouTube Channel

नागं (nAgaM)

 
शब्दकल्पद्रुमः
Sanskrit
नागं,
क्ली,
(नगे पर्व्वते भवम् नग + अण् ।)रङ्गम् सीसकम् (अस्य पर्य्यायो यथा, --“नागं महाबलं चीनं पिष्टं योगेष्टसीसकम्
”इति वैद्यकरत्नमालायाम्
)करणविशेषः इति मेदिनी गे,
नाग-करणजातफलम् तथा, --“नागोद्भवो नागधनाभिलाषीवक्रोक्तिजालो नितरां कुशीलः ।क्रोधाग्निसन्तापितबन्धुवर्गोभर्गोपमः स्यात् किल रङ्गभूमौ
”इति कोष्ठीप्रदीपः
रङ्गसीसकार्थे क्वचित् पुंलिङ्गोऽपि दृश्यते पाक-हीनयोस्तयोर्दोषो यथा, --“पाकहीनौ नागवङ्गौ कुष्ठगुल्मरुजाकरौ ।मेहपाण्डुकरौ वातकफमृत्युकरौ पुनः
”तयोर्मारणं यथा, --“अश्वत्थचिञ्चात्वक्चूर्णं चतुर्थांशेन निःक्षिपेत् ।मृत्पात्रे विद्रुते नागे लौहदर्व्या चालयेत्
यामैकेन भवेद्भस्म तत्तुल्याञ्च मनःशिलाम् ।काञ्जिकेन द्वयं पिष्ट्वा पचेद्दृढपुटेन
स्वाङ्गशीतं पुनः पृष्ट्वा शिलया काञ्जिके
पुनः पुटेच्छरावाभ्यामेवं षड्भिः पुटैर्मृतिः
”नागः सिन्दूरवर्णाभो म्रियते सर्व्वकार्य्यकृत् ।सतिक्तमधुरो नागो मृतो भवति भस्मसात्
आयुःकीर्त्तिं वीर्य्यवृद्धिं करोति सेवनात् सदा ।रोगान् हन्ति मृतो नागो वङ्गवद्गुणकारकः
”इति सुखबोधः