| YouTube Channel

नाक्षत्रं (nAkSatraM)

 
शब्दकल्पद्रुमः
Sanskrit
नाक्षत्रं, क्ली (नक्षत्रस्येदमिति नक्षत्र + “तस्ये-दम् ।” १२० इति अण् ।) नक्षत्र-सम्बन्धि (यथा, सूर्य्यसिद्धान्ते १४ १५ ।“भचक्रभ्रमणं नित्यं नाक्षत्रं दिनमुच्यते ।नक्षत्रनाम्ना मासास्तु ज्ञेयाः पर्व्वान्तयोगतः
”)मासविशेषे, पुं द्विविधः सप्तविंशति-नक्षत्रात्मक एकः यथा, विष्णुधर्म्मोत्तरे ।“नक्षत्रसत्राण्ययनानि चेन्दो-र्मानेन कुर्य्याद्भगणात्मकेन ।”सप्तविंशतिनक्षत्रात्मकेन ।“सर्व्वर्क्षपरिवर्त्तैश्च नाक्षत्र इह चोच्यते ।”सप्तविंशतिनक्षत्रावच्छिन्नो नाक्षत्रः अस्यप्रयोजनं नक्षत्रसत्रादौ जन्मनक्षत्रे शनिभौम-वारयोगे मनोदुःखदाने यथा, दीपि-कायाम् ।“जन्मन्यर्क्षे यदि स्यातां वारौ भौमशनैश्चरौ ।स मासः कल्मसो नाम मनोदुःखप्रदायकः
”द्वितीयः षष्टिदण्डात्मकनक्षत्रभोगकालरूपदिन-त्रिंशदात्मकः यथा, सूर्य्यसिद्धान्ते १२ ।“नाडीषष्ट्या तु नाक्षत्रमहोरात्रं प्रचक्षते ।तत्त्रिंशता भवेन्मासः सावनोऽर्कोदयैस्तथा
”द्वितीयस्य प्रयोजनं आयुर्गणनायाम् यथा, “आयुर्दाये स्मृतं प्राज्ञैर्नाक्षत्रं षष्टिनाडिकम्
”इति मलमासतत्त्वम्