नस्य (nasya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishनस्य - nasya - - snuff [ smokeless tobacco ]
नस्त - nasta - - snuff
अभिजिघ्रति { अभिघ्रा } - abhijighrati { abhighrA } - verb - snuffle
उच्छिङ्खन - ucchiGkhana - - snuffing
जिघ्रति { घ्रा } - jighrati { ghrA } - verb 1 3 - snuffle at
घ्राति { घ्रा } - ghrAti { ghrA } - verb 2 - snuffle at
अभिजिघ्रति { अभि- घ्रा } - abhijighrati { abhi- ghrA } - verb 3 - snuffle at
अनुजिघ्र - anujighra - - snuffling at
घ्राति - ghrAti - - snuffling at
नस्तस्तःकर्मन् - nastastaHkarman - - taking snuff
नस्य - nasya - - snuff [ smokeless tobacco ]
तमाखु - tamAkhu - - tobacco
कलञ्ज - kalaJja - - tobacco
तमाल - tamAla - - tobacco
धूमपान - dhUmapAna - - tobacco-smoking
उग्र-ताम्बूल - ugra-tAmbUla - - traditional after-meal digestive aid embellished with some tobacco
नस्य - nasya - - errhine
नास्यग्रासम् - nAsyagrAsam - - putting into the mouth as if it were an errhine
Wilson
EnglishApte
Englishनस्य [nasya], [नासिकायै हितं तत्र भवं वा यत् नसादेशः] Nasal.
स्यम् The hairs in the nose.
A sternutatory
कुरुते मूढ एवं हि यः श्रेयो नाधिगच्छति । धूपैरञ्जनयोगैश्च नस्यकर्मभि- रेव च ॥ * 12.14.34.
स्या The nose.
The string through the nose of an animal
नस्यागृहीतो$पि धुवन्विषाण- योर्युगम् 12.1.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishनस्य, अस्, आ, अम्, belonging or relating to the
nose, nasal, in the nose
(आ), f. the nose
the string
through the nose of an animal [cf. नास्य]
(अम्),
n. the hairs in the nose
a sternutatory, snuff.
—नस्य-विधि, इस्, m. ‘rules about sternutatories, ’
N. of the twenty-seventh chapter of the medical
work Śārṅgadhara-saṃhitā.
Macdonell
EnglishBenfey
EnglishApte Hindi
Hindiनस्य
वि* - नासिक + यत् नसादेशः
अनुनासिक
नस्यम्
- -
नाक का बाल
नस्यम्
- -
सुंघनी
Shabdartha Kaustubha
Kannadaनस्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಮೂಗಿಗೆ ಹಿತವಾದ
निष्पत्तिः - > "यत्"- नस् आदेशश्च (वा. ५-१-६)
व्युत्पत्तिः - > नासिकायै हितम्
नस्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಮೂಗಿನಲ್ಲಿರುವ
निष्पत्तिः - > "यत्"- नस् आदेशश्च (वा. ५-१-६)
व्युत्पत्तिः - > नासिकायां भवः
नस्य
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಸುಶ್ರುತದಲ್ಲಿ ಉಕ್ತವಾದ ಮೂಗಿಗೆ ಹಿತಕರವಾದ ಔಷಧಸೇಚನೆ
प्रयोगाः - > नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः - सुश्रुत.चिकित्सा. ४०-२०
विस्तारः - > औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयते इति नस्यम्। तद्द्विविधं शिरोविरेचनं स्नेहनञ्च। तद्द्विविधमपि पञ्चधा - १) नस्यम् २) शिरोविरेचनम् ३) प्रतिमर्शः ४) अवपीडः ५) प्रधमनं च। सुश्रत. चिकित्सा. ४०-३३
Schmidt Nachtrage zum Sanskrit Worterbuch
Germanशब्दकल्पद्रुमः
Sanskritनस्यं, (नासिकायै हितम् । नासिका + यत् ।नसादेशश्च ।) नासिकादेयचूर्णादि । तत्-पर्य्यायः । नस्तम् २ लावणम् ३ । इति रत्न-माला ॥
यथा, वैद्यकपरिभाषायाम् ।“वमनं रेचनं नस्यं निरूहश्चानुवासनम् ।ज्ञेयं पञ्चविधं कर्म्म मात्रा तस्य प्रवक्ष्यते ॥
”नासाद्वारा देयौषधविशेषः । यथा, --“प्रस्थे द्वे गण्डमालानां क्वाथयेत् द्रोणमम्भसाम् ।चतुर्भागावशेषेण तैलप्रस्थं विपाचयेत् ॥
काञ्जिकस्याढकं दत्त्वा पिष्टान्येतानि दापयेत् ।पुनर्नवां गोक्षुरकं सैन्धवं त्र्युषणं वचा ॥
सरलं सुरदारुश्च बृहती कण्टकारिका ।नस्यपानाद्धरत्येव कर्णशूलं हनुग्रहम् ॥
”इति गारुडे १९८ अध्यायः ॥
अपि च ।“सिद्धार्थकवचाहिङ्गुकरञ्जं देवदारु च ।मञ्जिष्ठा त्रिफला श्वेता शिरीषो रजनीद्बयम् ॥
प्रियङ्गुनिम्बत्रिकटु गोमूत्रेणावघर्षितम् ।नस्यमालेपनञ्चैव स्नानमुद्बर्त्तनं तथा ॥
अपस्मारविषोन्मादशोषालक्ष्मीज्वरापहम् ।भूतेभ्यश्च भयं हन्ति राजद्वारे च शासनम् ॥
”इति गारुडे १९९ अध्यायः ॥
(यथां च ।“नस्यन्तत् कथ्यते धीरैर्नासाग्राह्यं तदौषधम् ।नावनं नस्यकर्म्मेति तस्य नामद्वयं मतम् ॥
नस्यभेदो द्बिधा प्रोक्तो रेचनं स्नेहनन्तथा ।रेचनं कर्षणं प्रोक्तं स्नेहनं बृंहणं मतम् ॥
कफपित्तानिलध्वंसे पूर्व्वमध्यापराह्णके ।दिनस्य गृह्यते नस्यं रात्रौ वाप्युत्कटे गदे ॥
नस्यं त्यजेद्भोजनान्ते दुर्द्दिने चापि तर्पणे ।तथा नवप्रतिश्यायी गर्भिणी गरदूषितः ॥
अजीर्णी दत्तवस्तिश्च पीतस्नेहोदकासवः ।क्रुद्धः शोकाभिभूतश्च तृषार्त्तो वृद्धबालकौ ॥
वेगावरोधी तापी च स्नातुकामश्च वर्ज्जयेत् ।अष्टवर्षस्य बालस्य नस्यकर्म्म समाचरेत् ॥
अशीतिवर्षादूर्द्धञ्च नावनं नैव दीयते ।अथ वैरेचनं नस्यं ग्राह्यं तैलैः सुतीक्ष्णकैः ॥
तीक्ष्णभेजससिद्धैर्वा स्नेहैः क्वाथै रसैस्तथा ।नासिकारन्ध्रयोरष्टौ षट् चत्वारश्च विन्दवः ॥
प्रत्येकं रेचने योज्या मुख्यमध्यान्तमात्रया ।नस्यकर्म्मणि दातव्यं शाणैकं तीक्ष्णमौषधम् ॥
हिङ्गुः स्याद्यवमात्रस्तु माषैकं सैन्धवं मतम् ।क्षीरञ्चैवाष्टशाणं स्यात् पानीयञ्च त्रिकार्षिकम् ॥
कार्षिकं मधुरं द्रव्यं नस्यकर्म्मणि योजयेत् ॥
अवपीडः प्रधमनं द्वौ भेदावपरौ स्मृतौ ।शिरो विरेचनस्थाने तौ तु देयौ यथायथम् ॥
कल्कीकृतादौषधाद्यः पीडितो निःसृतो रसः ।सोऽवपीतः समुद्दिष्टस्तीक्ष्णद्रव्यसमुद्भवः ॥
षडङ्गुला द्विवक्त्राया नाडीचूर्णन्तया धमेत् ।तीक्ष्णङ्कोलमितं वक्त्रवातैः प्रधमनं हितम् ॥
ऊर्द्ध्वजत्रुगते रोगे कफजे स्वरसंक्षये ।अरोचके प्रतिश्याये शिरःशूले च पीनसे ॥
शोफापस्मारकुष्ठेषु नस्यं वैरेचनं हितम् ।भीरुस्त्रीकृशबालानां नस्यं स्नेहेन शस्यते ॥
गलरोगे सन्निपाते निद्रायां विषमज्वरे ।मनोविकारे क्रमिषु युज्यते चावपीडनम् ॥
अत्यन्तोत्कटदोषेषु विसंज्ञेषु च दीयते ।चर्णं प्रधमनन्धीरैस्तद्धि तीक्ष्णतरं यतः ॥
नस्यं स्याद्गुडशुण्ठीभ्याम्पिप्पल्या सैन्धवेन च ।जलपिष्टेन तेनाक्षिकर्णनासाशिरोगदाः ॥
हनुमन्यागलोद्भूता नश्यन्ति भुजपृष्ठजाः ।मधूकसारकृष्णाभ्यां वचा मरिचसैन्धवैः ॥
नस्यङ्कोष्णजले पिष्टं दद्यात् संज्ञा प्रबोधनम् ॥
अपस्मारे तथोन्मादे सन्निपातेऽपतन्त्रके ॥
”इति मध्यखण्डे विंशेऽध्याये शार्ङ्गधरेणोक्तम् ॥
“नस्यकर्म्म यथाकालं यो यथोक्तं निषेवते ।न तस्य चक्षुर्न घ्राणं न श्रोत्रमुपहन्यते ॥
न स्युः श्वेता न कपिलाः केशाः श्मश्रूणि वा पुनः ।न च केशाः प्रलुट्यन्ते वर्द्धन्ते च विशेषतः ।मन्यास्तम्भःशिरःशूलमर्द्दितं हनुसंग्रहः ॥
पीनसार्द्धावभेदौ च शिरःकम्पश्च शाम्यति ।सिराः शिरःकपालानां सन्धयः स्नायुकण्डराः ॥
नावनप्रीणिताश्चास्य लभन्तेऽभ्यधिकं बलम् ॥
मुखं प्रसन्नोपचितं स्वरः स्निग्धः स्थिरो महान् ।सर्व्वेन्द्रियाणां वैमल्यं बलं भवति चाधिकम् ॥
न चास्य रोगाः सहसा प्रभवन्त्यूर्द्ध्वजत्रुजाः ।जीर्य्यतश्चोत्तमाङ्गे च जरा न लभते बलम् ॥
”इति चरके सूत्रस्थाने पञ्चमेऽध्याये ॥
“औषधमौषधसिद्धो वा स्नेहो वा नासि-काभ्यां दीयत इति नस्यं तद्द्विविधं शिरोविरे-चनं स्नेहनञ्च । तद्द्विविधमपि पञ्चधा । तद्-यथा । नस्यं शिरोविरेचनं प्रतिमर्शोऽवपीडःप्रधमनञ्च । तेषु नस्यं प्रधानं शिरोविरेचनञ्चनस्यविकल्पः प्रतिमर्शः शिरोविरेचनविक-ल्पोऽवपीडः प्रधमनञ्च । ततो नस्यशब्दःपञ्चधा निपातितः । तत्र यः स्नेहनार्थं शून्य-शिरसां ग्रीवास्कन्धोरसां बलजननार्थं दृष्टि-प्रसादजननार्थं वा स्नेहो विधीयते तस्मिन्वैशेषिको नस्यशब्दः । तत्तु नस्यं देयं वाता-भिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुण-कर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोगस्यशोषापबाहुकाकालजवलीपलितप्रादुर्भावदारु-णप्रवाधेषु वातपैत्तिकेषु मुखरोगेष्वन्येषु चवातपित्तहरद्रव्यसिद्धेन स्नेहेनेति ॥
”“तत्रैतद्द्विविधमभुक्तवतोऽन्नकाले पूर्व्वाह्णेश्लेष्मरोगिणां मध्याह्ने पित्तरोगिणामपराह्णेवातरोगिणाम् ॥
”इति सुश्रुते चिकित्सितस्थाने ४० अध्याये ॥
)नासाया हिते तत्सम्बन्धिनि च, त्रि । प्रग्रहे, पुं । इति संक्षिप्तसारव्याकरणम् ॥
वाचस्पत्यम्
Sanskritनस्य नासिकायै हितं तत्र भवो वा यत् नसादेशः । १ ना-सिकाभवे २ तद्धिते च ३ सुश्रुतोक्ते नासिकाहिते क्रियाभेदेयधा “नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः । औषध-मौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यंतद्द्विविधं शिरोविरेचनं स्नेहनञ्च तद्द्विविधमपि पञ्चधा ।तद्यथा नस्यं शिरोविरेचनं प्रतिमर्शोऽवपीडः प्रधमनञ्चतेषु नस्यं प्रधानं शिरोविरेचनञ्च नस्यविकल्पः प्रतिमर्शःशिरोविरेचनविकल्पोऽवपीडः प्रधमनञ्च । ततो नस्य-शब्दः पञ्चधा निपातितः । तत्र यः स्नेहनार्थं शून्य-शिरसां ग्रीवास्कन्धोरसां बलजननार्थं दृष्टिप्रसादजन-नार्थं वा स्नेहो विधीयते तस्मिन्वैशेषिको नस्यशब्दः ।तत्तु नस्यं देयं वाताभिभूते शिरसि दन्तकेशश्मश्रुप्रपात-दारुणकर्णशूलकर्णक्ष्वेडतिमिरस्वरोपघातनासारोगास्यशो-षाषयाहुकाकालजवलीपलितप्रादुर्भावदारुणप्रबोधेषु वा-तपैत्तिकेषु मुखरोगेष्वन्येषु च बातपित्तहरद्रव्यसिद्धेनस्नेहेनेति । शिरोविरेचनं श्लेष्मणाभिव्याप्ततालुकण्ठ-शिरसामरोचकशिरोगौरबशूलपीनसार्द्धावभेदककृमिप्रति-श्यायापस्मारगन्धाज्ञानेष्वन्थेषु चोर्द्धजत्रुनतेषु कफजेषुविकारेषु शिरोविरेचनद्रव्यैस्तत्सिद्धेन वा स्नेहेगेति ।तत्रैतद्द्विविधमभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणांमध्याह्रे पित्तरोगिणामपराह्णे वातरोगिणाम् । अथपुरुषाय शिरोविरेचनीयाय दन्वकाष्ठधूमपानाभ्यां विशु-द्धवक्त्रस्नेतसे पाणितापपरिस्विन्नमृदितगलकपोलललाट-प्रदेशाय वातातपरजोहीनवेश्मन्थुत्तानशायिने प्रसारित-करचरणय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादि-तनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामितनासाग्राय विशुद्ध-स्रोतसि दक्षिणहस्तेन स्नेहमुष्णानुतप्तं रजतसुवर्णता-म्रमृत्पात्रशुक्तीनामन्थतमस्थं शुक्त्या पिचुना वा सु-खोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे नप्राप्तोति । स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत् ।न कुप्येन्न् प्रभाषेच्च न क्ष्णुयान्न हसेत्तथा । एतैर्हि वि-हतः स्नेहो न सम्यक्प्रतिपद्यते । ततः कासप्रतिश्या-यशिरोऽक्षिगदसम्भवः” तस्य प्रमाणमष्टौ विन्दवः प्रदेशि-नीपर्वद्वयनिःसृताः प्रथममात्रा, द्वितीया शुक्ति, स्तृतीयापाणिशुक्तिरित्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः ।स्नेहनस्यं नचोपगिलेत्किञ्चिदपि । “शृङ्गाटकमभिप्लाव्यनिरेति वदनाद्यथा । कफोत्क्लेशभयाच्चैव निष्ठीवेदबि-धारयन्” दत्ते च पुनरपि संस्वेद्य गलकपोलादीन्धूम-मासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत् ।रजीधूमस्नेहातपमद्यद्रवपानशिरःस्नानातियानक्रोधा-दीनि च परिहरेत् । तस्य योगायोगानां विज्ञानंभवति । “लाघवं शिरसो योगे सुखस्वप्नप्रवोधनम् ।विकारोपशमः शुद्धिरिन्द्रियाणां मनःसुखम् । कफप्रसेकःशिरसो गुरुतेन्द्रियबिभ्रमः । लक्षणं मूर्ध्न्यतिस्निग्धेरूक्षं तत्रावचारयेत् । अयोगे चैव वैगुण्यमिन्द्रियाणाञ्चरूक्षता । रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ।चत्वारो विन्दवः षड्वा तथाष्टौ वा यथाबलम् ।शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् । नस्ये त्रीण्यु-पदिष्टानि लक्षणानि प्रयोगतः । शुद्धहीनातिसज्ञानिविशेषाच्छास्त्रचिन्तकैः । लाघवं शिरसः शुद्धिः स्रोतसांव्याधिनिर्जयः । चित्तेन्द्रियप्रसादश्च शिरसः शुद्धिल-क्षणम् । कण्डूपदेहौ गुरुता स्रोतसाङ्कफसंस्रवः ।मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्त्तितम् । मस्तु-लुङ्गागमो वातवृद्धिरिन्द्रियविभ्रमः । शून्यता शिरस-श्चापि मूर्ध्नि गाढविरेचिते । हीतातिशुद्धे शिरसिकफवातघ्नमाचरेत् । सम्यग्विशुद्धे शिरसि सर्पिर्नस्यंनिषेचयेत् । एकान्तरं द्व्यन्तरं वा सप्ताहं वा पुनः पुनः ।एकविंशतिरात्रं वा यावद्वा साधु मन्यते । मारुतेनाभि-भूतस्य वात्यन्तं यस्य देहिनः । द्विकालञ्चापि दातव्यंनस्यं तस्य विजानता” । अवपीडस्तु शिरोविरेचनवदमिष्यन्दसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरोविरेचनद्रव्याणाम-न्यतममवपीड्यावसिच्य चेतोविकारकृमिविषाभिपन्नानांचूर्णं विदध्यात् । शर्करेक्षुरसक्षीरघृतमांसरसानामन्यतसंक्षीणानां शोणितपित्ते च विदध्यात् । “कृशदुर्बलभी-रूणां सुकुमारस्य योषिताम् । शृताः स्नेहाः शिरः-शुद्ध्यै कल्कस्तेभ्यो यथाहितः” । नस्यदाने परिहर्त्तव्योभुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणी पोतस्ने-होदकमद्यद्रवीऽजीर्णी दत्तवस्तिः क्रुद्धो गरार्त्तस्तृषितःशोकाभिभूतः श्रान्ता बालो वृद्धो वेगावरोधितः शिरः-स्नातुकामश्चेति । अनार्त्तवे चाभ्रे नस्यधूमौ परि-हरेत् । तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानातिप्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वाप्रतिषिद्धप्रदानाच्च व्यापदा भवन्ति तृष्णोद्गारादयो दोष-निमित्ताः क्षयजाश्च । भवतश्चात्र “नस्ये शिरोविरेकेच व्यापदो द्विविधाः स्मृताः । दोषोत्क्लेशनिमित्तांस्तुजयेच्छमनशोधनैः । अथ क्षयनिमित्तांस्तु यथास्वंवृंहणं हितम्” । प्रतिमर्शश्चतुर्द्दशसु कालेषूपादेयः ।तद्यथा तल्पोत्थितेन प्रक्षालितदन्तेन गृहान्निर्गच्छताव्यायामव्यवायाध्वपरिश्रान्तेन मूत्रोच्चारकबलाञ्जनान्ते-ऽभुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायञ्चेति । तत्रतल्पोत्थितेनासेवितः १ प्रतिमर्शो रात्रावुपचितनासास्रोतो-गतं मलमुपहन्ति मनःप्रसादञ्च करोति । प्रक्षालितदन्तेनासेवितो २ दन्तानां दृढतां वदनसौगन्ध्यं चापादयति ।गृहान्निर्गच्छतासेवितो ३ नासास्रोतसः क्लिन्नतया रजो-धूमो वा नाबाधते । व्यायाममैथुनाध्वपरिश्रान्तेनासेवि-तः ४ । ५ । ६ श्रममुपहन्ति । मूत्रोच्चारान्ते ७ । ८ चासेवितोदृष्टेर्गुरुत्वमपनयति । कवलाञ्जनान्ते ९ । १० सेवितो दृष्टिं-प्रसादयति । अभुक्तवता सेवितः ११ स्रोतसां विशुद्धिंलघुतां चापादयति । वान्तेनासेवितः १२ स्रोतोविलग्नंश्लेष्माणमपोह्य भक्तकाङ्क्षामापादयति । दिवास्वप्नोत्थि-तेनासेवितो १३ निद्राशेषं गुरुत्वं मलं चापोह्य चित्तै-काग्र्यं जनयति । सायं चासेवितः १४ सुखनिद्राप्रबोधंचेति । “ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते । नस्येनिषिक्तं तं विद्यात्प्रतिमर्शं प्रमाणतः । नस्येन रोगाःशाम्यन्ति नराणामूर्द्ध्वजत्रुजाः । इन्द्रियाणां च वैमल्यंकुर्य्यादास्यं सुगन्धि च । हनुदन्तशिरोग्रीवात्रिकबाहू-रसां बलम् । बलीपवितखालित्यव्यङ्गानां चाप्यसम्भवः ।तैलं १ कफे समाते स्यात्केवलं पवने वसाम् २ । दद्या-त्सर्पिः ३ सदा पित्ते मज्जानं ४ च समारुते । चतुर्विधस्यस्नेहस्य विधिरेव प्रकीर्त्तितः । श्लेष्मस्थानाविरोधित्वा-त्तेषु तैलं विधीयते” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
