| YouTube Channel

नस्तः (nastaH)

 
Apte
English
नस्तः [nastḥ], The nose. -स्तम् A sternutatory, snuff. -स्ता A hole bored in the septum of the nose.
Comp.
-ऊतः an ox led by a string through the nose.
Apte 1890
English
नस्तः The nose.
स्तं A sternutatory, snuff.
स्ता A hole bored in the septum of the nose.
Comp.
ऊतः an ox led by a string through the nose.
Apte Hindi
Hindi
नस्तः
पुं*
- नस् + क्त
नाक
Wordnet
Sanskrit
Synonyms:
घ्राणम्, नासा, नासिका, नसा, नस्या, घोणा, गन्धवाहः, गन्धज्ञा, गन्धनाली, घ्रतिः, नाः, नस्तः, नासिक्यम्, नासिक्यकम्, सिङ्घिनी, विकूणिका, तनुभस्रा, नक्रम्, नकुटम्, नर्कुटकम्
noun
अवयवविशेषः, जिघ्रते अनेन इति।
"न्यायमतेन घ्राणस्य गन्धग्राहित्वम् इति गुणः।"
शब्दकल्पद्रुमः
Sanskrit
नस्तः,
पुं,
(नसते कुटिलतां प्रकाशयत्यनेनेति ।नस् + क्तः बाहुलकात् इडभावः ।) नासिका ।इति शब्दमाला
(यथा, महाभारते ।१३१ १० ।“नेत्राभ्यां नस्ततश्चैव श्रोत्राभ्याञ्च समन्ततः ।प्रादुरासन् महारौद्राः सधूमाः पावकार्च्चिषः
”)नस्ये, क्ली इति रत्नमाला
पञ्चविधनस्त-कर्म्माणि यथा, --“प्रतिमर्षोऽवपीडश्च नस्यं प्रधमनन्तथा ।शिरोविरेचनञ्चैव नस्त कर्म्म तु पञ्चधा
ईषदुच्छ्वसनात् स्नेहो यावान् वक्तं प्रपद्यते ।नस्ते निषिक्तस्तं विद्यात् प्रतिमर्षं प्रमाणतः
प्रतिमर्षश्च नस्यार्थं करोति दोषभाक् ।शोधनः स्तम्भनस्तु स्यादवपीडो द्बिधा मतः
अवपीड्य दीयते यस्मादवपीडस्ततः स्मृतः ।स्नेहार्थं शून्यशिरसां ग्रीवास्कन्धोरसां तथा
बलार्थं दीयते स्नेहो नस्तशब्दोऽत्र वर्त्तते ।नस्यस्य स्नैहिकस्यात्र देयास्त्वष्टौ तु विन्दवः
प्रत्येकशो नस्तकयोर्नृणामिति विनिश्चयः
”इति वैद्यकपरिभाषा
“शुक्तिश्च पाणिशुक्तिश्च मात्रास्तिसः प्रकी-र्त्तिताः ।द्वात्रिंशद्बिन्दवश्चात्र शुक्तिरित्यभिधीयते
द्विशुक्ती पाणिशुक्तिश्च देयास्तु कुशलैर्नरैः ।तैलं कफे वाते केवले पवने वसाम्
दद्यान्नस्यं सदा पित्ते सर्पिर्म्मज्जां समारुते ।ध्मापनं रेचनं चूर्णं युञ्ज्यात्तं मुखवायुना
षडङ्गुलद्बिमुखया नाड्या भेषजगर्भया ।स हि भूरितरं दोषं चूर्णत्वादपकर्षति
शिरोविरेचनद्रव्यैः स्नेहैर्वातैः प्रसाधितैः ।शिरोविरेचनं दद्यात् रोगेष्वेतेषु बुद्धिमान्
गौरवे शिरसः शूले जाड्ये स्यन्दे गलामये ।शोथगण्डक्रिमिग्रन्थिकुष्ठापस्मारपीनसे
तोयमद्यगरस्नेहपीतानां पातुमिच्छताम् ।भुक्तभक्तशिरः स्नातस्नातुकामसुतासृजाम्
नवपीनसरोगार्त्तसूतिकाश्वासकासिनाम् ।शुद्धानां दत्तवस्तीनां तथा नार्त्तवदुर्द्दिने
अन्यत्रात्ययिके व्याधौ नैषां नस्यं प्रयोजयेत् ।न नस्यं न्यूनसप्ताब्दे नातीताशीतिवत्सरे ।न चोनद्बादशे धूमः कवडो नोनपञ्चमे
शुद्धिर्न्यूननवमे चातिक्रान्तसप्ततौ ।आजन्ममरणं शस्तं प्रतिमर्षन्तु वस्तिवत्
”इति सारकौमुदी