| YouTube Channel

नष्टजातक (naSTajAtaka)

 
Monier Williams Cologne
English
नष्ट—जन्मन् and नष्ट—जातक,
n.
‘a lost nativity’, subsequent calculation of a n°,
Var.
N.
of wk. (also -विधान,
N.
)
Aufrecht Catalogus Catalogorum
English
नष्टजातक jy. Pheh 8. Rādh 34. 44. Oppert 1261.
6015.
नष्टजातक from the Jātakaratnākara of Harivaṃśa. Ulwar
1821.
वाचस्पत्यम्
Sanskrit
नष्टजातक
न०
नष्टं ज्ञातं जातं जन्म जन्माधानकालीयत्र कप् जन्माधानकालयोरपरिज्ञाने प्रश्नलग्नादिना जन्मकालज्ञानार्थे उपायभेदे वृहज्जातके२५ अ० उक्तो यथा“अथ नष्टजातकाध्यायप्रारम्भः “आधानजन्मापरि-बोधकाले संपृच्छतो जन्म बदेद्विलग्नात् पूर्वापरार्द्धेभवनस्य विद्याद्भानावुदग्दक्षिणगे प्रसूतिम्” वृ० जा०“एवमाधानजन्मकालयोरपरिबोधे अज्ञाने सति संपृच्छतःप्रष्टुः विलग्नात् प्रश्नलग्नाज्जन्म वदेद्ब्रूयात् येन लग्नेनप्रष्टा पृच्छति तस्य यदि पूर्वार्द्धं प्रथमहोरा भवति तदाप्रष्टुः भानावादित्ये उदग्गते उत्तरायणस्थे जन्म-वक्तव्यम् मकरादिराशिषट्कस्थे जात इत्यर्थः ।अथ लग्नस्यापरार्द्धं द्वितीया हीरा भवति तदा भानौदक्षिणगते दक्षिणायनस्थे जन्म वक्तव्यम् कर्कटादि-राशिषट्कस्थे जात इत्यर्थः तथा “आधानज-न्मनी यस्य विज्ञायेत देहिनः जन्म संपृच्छतस्तस्यप्रश्नलग्नात् विनिर्दिशेत्” अथ वर्षर्तुज्ञानमाह लग्न-त्रिकोणेष्विति भट्टो० “लग्नत्रिकोणेषु गुरुस्त्रिभागै-र्विकल्प्य वर्षाणि वयोनुमानात् ग्रीष्मोऽर्कलग्ने कथि-तास्तु शेषैरन्यायनर्त्तावृतुरर्कचारात्” मू० “त्रिभागै-द्रेष्काणैः लग्नत्रिकोणेषु प्रथमपञ्चमनवमस्थानेषु गुरुःजीवो ज्ञेयः तद्यथा प्रश्नलग्नस्य यदि प्रथमद्रेष्काणोभवति तदा यएव लग्नराशिः तत्रस्थे गुरौ जन्म वक्तव्यम् ।अथ लग्नस्य द्वितीयोदेष्काणस्तदा लग्नाद्यः पञ्चमो राशि-स्तत्रस्थे गुरौ जन्म वक्तव्यम् अथ यदि लग्नस्य तृतीयद्रेष्काणस्तदा लग्नाद्यो नवमोराशिस्तत्रस्थे गुरौ जन्म-वक्तव्यम् एवं केषाञ्चिन्मतम् अथान्येषां मतम् यथाप्रश्नलग्नस्य यदा प्रथमोद्रेष्काणोदयो भवति तदा लग्न-राशितो यावत्संख्ये राशौ वृहस्पतिस्तिष्ठति तावत्सं-ख्यानि प्रष्टुः वर्षाणि वक्तव्यानि अथ लग्ने द्वितीयो-द्रेष्काणस्तदा लग्नात् पञ्चमराशितो यावत्संख्ये राशौवृहस्पतिर्भवति तावत्संख्यानि प्रष्टुः वर्षाणि वक्तव्यानिअथ लग्नस्य तृतीयोद्रेष्काणो भवति तदा लग्नान्नवम-राशितो यावत्संख्ये राशौ वृहस्पतिर्भवति तावत्संख्यानिप्रष्टुः वर्षाणि वक्तव्यानि एतद्व्याख्यानं शोभनं पूर्वमेवव्याख्यानं श्रेयः यस्माद्यवनेश्वरः “द्रेष्काणलग्ने क्रमशस्यराशौ गुरुर्विलग्नाद्यदि कोणगोऽभूत् समुद्भवेत् तद्भ-वनक्रमेण स्वाच्चारभादव्दगति प्रगण्या” यद्यप्यत्रसामान्येनोक्तं वृहस्पतेरवस्थानं तथा द्वादशभाग-क्रमेण प्रतिराशौ सञ्चार्य्यः तद्यथा यदि प्रश्न-लग्नस्य प्रथभद्वादशभागोदयो भवति तदा लग्नस्थेजीवे जातः द्वितीयद्वादशभागश्चेत्तदा लग्नाद द्वितीयेगुरौ जातः एवं तृतीयादिद्वादशभागोदये तृतीयादिषुस्थानेषु ऊह्यम् विकल्प्य वर्षाणि वयोनुमानादेवं वृह-स्पतेरवस्थानं ज्ञात्वा तस्य एवं वयोनुमानात्तस्याकृतिंशरीरमवेक्ष्य वर्षाणि विकल्प्य वयःप्रमाणं बुद्ध्वा द्वादशसुद्वादशसु वर्षेषु विकल्पना कार्य्या किमस्मिन्नेव भगण-परिवर्त्ते ज्ञातराशेः वृहस्पतेरवस्थानमभूदुत द्वितीयउत तृतीयादिषु एवं तस्याकृतिमवेक्ष्य वयोनुमानं वक्त-व्यम् यत्र द्वादशसु वर्षेषु भ्रान्तिर्भवति तत्र पुरुषलक्ष-णोक्तेन दशाविभागेन द्वादशवार्षिकीं दशां क्षेत्रेषु परि-कल्प्य तत्तत्क्षेत्राङ्गसंस्पर्शाद्वर्षज्ञानं तथा पुरुष-लक्षणे पठ्यते “पादौ सगुल्फौ प्रथमं प्रदिष्टं जङ्घे-द्वितीयं तु सजानुवक्त्रे मेढ्रोरुमुष्काश्च ततस्तृतीयं नाभिंकटिं चेति चतुर्थमाहुः उदरं कथयन्ति पञ्चमं हृदयंषष्ठमथ स्तनान्वितम् अथ सप्तममंसजत्रुणी कथयन्त्यष्टममो-ष्ठकन्धरे नवमं नयने साश्रुणी सललाटं दशम शिर-स्तथा अशुभेष्वशुभं दशाफलं चरणाद्येषु शुभेषु शोम-तमिति” किं त्वत्र विंशत्याधिकं वर्षशतं यस्य जन्मनोऽतीतंतस्य नष्टजातकवर्षज्ञानोपाय एव नास्ति एवं वर्षेषु ज्ञा-तेषु ऋतुज्ञानमाह ग्रीष्मोऽर्कलग्न इति येन लग्नेनप्रष्टा पृच्छति तत्र चेदर्कः सूर्य्यः स्थितस्तद्रेष्काणो वालग्ने तदा ग्रीष्मे जात इति वक्तव्यम् कथितास्तु शेषै-रिति शेषैरन्यैश्चन्द्रादिभिर्ग्रहैर्लग्नस्थैः ऋतुः पूर्वमेवकथित उक्तः द्रेष्काणैः शिशिरादय इत्यादिना ग्रन्थे-नोक्तः तत्र यदा शनैश्चरोलग्ने भवति तद्द्रेष्काणो वातदा शिशिरे जात इति वक्तव्यम् एवं शुक्रे लग्नगतेतद्द्रेष्काणी वा तदा वसन्ते जातः एवं भौमे ग्रीष्मे ।एवमेव चन्द्रे लग्नगते तद्द्रेष्काणो वा वर्षासु, बुधेशरदि, जीवे हेमन्त इति यदा बहवो लग्नगताः भ-वन्ति तदा तेषां मध्ये यो बलवान् तदुक्तर्त्तौ जात इतिवक्तव्यम् अथ कश्चिद् यदि लग्नगतो भवति तदातस्य सम्बंन्धी द्रेष्काणोदयो भवति तदा तदुक्तर्त्तौ जातइत्येवं वक्तव्यम अन्यायनर्तावृतुरर्कचारादिति अन्य-स्मिन्नयनेऽस्मनृतावर्कचारादृतुः अन्यस्मिन्नयने तदयनामम्भवश्चेदृतुरन्यो भवति तदर्त्तुरर्कचाण्वशेन वक्तव्यम्एतदुक्तं भवति सौरेण मानेन ऋतुर्वक्तव्यः तुचान्द्रेण यथा शिशिरे ज्ञाते मकरकुम्भयोरन्यनमे राशौसूर्य्यस्यावस्थानं ज्ञेयम् एवं शेषराशिष्वस्यूह्यम् अनेनलौकिकश्चान्द्रमासो निराकृतो भवतीति” भट्टो० ।“चन्द्रज्ञजीवाः परिवर्तनीयाः शुक्रारमन्दैरयने विलोमे ।द्रेष्काणभागे प्रथमे तु पूर्वो मासोऽनुपाताच्च तिथिर्वि-कल्प्यः” मू० ।“अथायने विलोमे ग्रहपरिज्ञानाष्टृतुपरिज्ञानं मासपरि-ज्ञानं चैन्द्रवज्रयाह चन्द्रज्ञेति अयने बिलोमे सतिचन्द्रजीवाः शुक्रारमन्दैः परिवर्त्तनीयाः शशिबुधगुरवःसितभौमशनैश्चरैः अयनव्यत्यये प्राप्ते सति परिवर्त्तनीयाःव्यत्ययेन व्यवस्थाप्याः एतदुक्तं भवति यद्युत्तरायणेज्ञाते प्रावृट्कालो ज्ञातस्तदा वसन्ते जात इति वक्तव्यम्चन्द्राच्छुक्रेणात्र परिवर्तितः अथोत्तरायणे शरदिप्राप्तायां ग्रीष्मे जातः दक्षिणायने ग्रीष्मे ज्ञाते शरदिजातः अथ बुधो रविमौमयोरपवर्त्तितो रविभौमौबुधेन उत्तरायणे हेमन्ते ज्ञाते शिशिरे जातःदक्षिणायने शिशिरे प्राप्ते हेमन्ते जातः इति वक्तव्यम्अत्र जीवमन्दौ परस्परमपवर्त्तितौ एवमृतौ ज्ञाते मास-ज्ञानमाह द्रेष्काणभाग इति प्रश्रलग्ने यो द्रेष्काणोवर्त्तते तस्य द्रेष्काणस्य यदि प्रथमभागो वर्त्तते तदाज्ञातर्तौ प्रथमे मासि जातः इति वक्तव्यम् अथ लग्नेद्रेष्काणस्य द्वितीयो भागो वर्त्तते तदा ज्ञातर्तौ द्वितीयेमासि जातः तृतीयद्रेष्काणे द्वौ विभागौ पूर्वापरौअत्रापि अर्कावस्थानतएव मासज्ञानम् तिथिज्ञानार्थ-माह अनुपाताच्च तिथिर्विकल्प्यः अनुपातात् त्रैराशि-कात् तिथिर्विकल्प्यो विकल्पनीयः लग्नस्य षट्लिप्ताःशतानि द्रेष्काणः द्रेष्काणेन ज्ञातर्तुः ऋतुज्ञानंतदर्द्धलिप्ताः शतत्रयं लिप्ताशतत्रयेण मासज्ञानम् अत्रा-नुपातात् तिथिर्लिप्तादशकेनैकैको ज्ञेयः एवं तिथि-रादित्यभागा एवमादित्यराशयो भागा ज्ञेयाः मासाराशयस्तिथयो भागाः यस्मिंश्च तिथौ ज्ञातवर्षे यथा-प्रदर्शितादित्यो भवति तस्मिन् तिथौ तस्य जन्म इतिवक्तव्यम्” भट्टो० ।अथ चन्द्रमानतिथिज्ञानोपायमिन्द्रवज्रयाह ।“अत्रापि होरापटवो द्विजेन्द्राः सूर्यांशतुल्यां तिथि-मुद्दिशन्ति रात्रिद्युसंज्ञेषु विलोमजन्म भागैश्च वेलाःक्रमशो विकल्प्याः” मू० ।“अत्रापीति अत्रास्मिंस्तिथिज्ञाने द्विजेन्द्रा मुनयो होराशास्त्रस्त्राः सूर्यांशतुल्याम् अंशस्थाने स्फुटार्कभागसमांतिथिमुद्दिशन्ति कथयन्ति प्रश्रकाले तात्कालिकेनादित्येनयावन्तो मागा भुक्तास्तावन्तः शुक्लप्रतिपत्प्रभृतिज्ञात-मासस्य तिथयो व्यतीताः यत चान्द्रमाने मकरमासे ज्ञातेमाघमासो ज्ञेयः एवमन्यर्त्तृष्वपि मासकल्पना कार्य्या ।तथा मणित्थः “पृच्छाकाले रषिणा यावन्तोंशाःस्फुटेन सम्भुक्ताः राशेस्तास्तिथयः स्युः शुक्लादावर्क-मासस्य” एवं दिने ज्ञाते किमयं रात्रौ जातो दिवा वेतितदर्थमाह रात्रिद्युसंस्थेष्विति रात्रिद्युसंज्ञा पूर्वंव्याख्याताः गोजाश्विकर्किमिथुना इत्यादिना तत्र प्रश्र-काले यदि रात्रिसंज्ञो लग्नो भवति तदा तस्य विलोमतोदिवाजन्म वक्तव्यम् अथ द्युसंज्ञो लग्नो भवति तदा रात्रौजन्म वक्तव्यम् एवं दिनरात्रिविभागे ज्ञाते वेलाज्ञानमाहभागैश्च वेलाः क्रमशो विकल्प्याः यस्मिन् दिने पुरुषस्यजन्मज्ञानं तस्मिन् दिने अंशादित्योऽपि ज्ञातः ततस्तस्यपुरुषस्य यदि दिवाजन्म तदा तस्मादादित्याद्दिनप्रमाणंकार्य्यम् अथ रात्रौ जन्म तदा रात्रिप्रमाणं तत्र प्रश्र-लग्नस्य तस्मिन् काले यावन्तश्चषका भुक्तास्तैरनुपातः कार्यःयदि पुरुषस्य दिवाजन्म तदा दिनप्रमाणेन यदा रात्रौरात्रिप्रमाणेन तत्काललग्नभुक्तचषकाणां गणनां कृत्वातस्यैव लग्नस्य स्वदेशराश्युदयप्रमाणेन भागमपहृत्यावाप्तांवेलां तावता कालेन गतेन दिनस्य रात्नेर्वा जन्म वक्त-ष्यम् एवं लग्नभागैः क्रमशः परिपाट्या वेलाःसमयाः विकल्प्या विकल्पनीयाः” भट्टो० ।“केचिच्छशांकाध्युषितान्नवांशाच्छुक्लान्तसंज्ञं कथयन्ति मा-सम् लग्नत्रिकोणोत्तमवीर्ययुक्तं सम्प्रोच्यतेऽङ्गालभगा-दिभिर्वा” मू० ।“अथान्तरेण मासज्ञानमिन्द्रवज्रयाह केचिदिति केचि-दाचार्याः शशाङ्काध्युषिताच्चन्द्रयुक्तान्नवांशाच्छुक्लान्त-संज्ञं मासं कथयन्ति प्रश्नकाले यस्मिन्नवांशके नव-मेऽंशे चन्द्रमा भवति तमपि नवांशकं त्रिधा परिकल्प्यतस्मिन्नवांशके नवमेंशे चन्द्रमा व्यवस्थित इति चन्द्रन-वांशकगतं नक्षत्रमन्वेष्यम् तन्नक्षत्रशुक्लान्तसंज्ञके मासितस्य जन्म वक्तव्यम् अत्र यस्य नक्षत्रस्य शुक्लान्तसंज्ञोमासो नास्ति तस्य वृहस्पतिचारोक्तविधिना शुक्लान्त-संज्ञो मासः परिकल्प्यः तत्रोक्तम् “नक्षत्रेण सहोदय-मस्तं वा येन याति सुरमन्त्री तत्संज्ञं वक्तव्यम् वर्षंमासं क्रमेणैव वर्षाणि कार्त्ति कादीन्याग्नेयाद्भद्वयाद्-योज्यानि क्रमशस्त्रिभन्तु पञ्चममुपान्त्यमन्त्र्यं यद्वर्ष-मिति” तत्र चन्द्रमा यदि वृषनवांशके तन्नवांशकसप्त-कस्यार्वाग्भवति तदा कार्त्तिके मासि जात इति वक्त-व्यम् अथ वृषनवांशकस्योर्द्धं भवति मिथुननवांशकेतन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा मार्ग-शीर्षे मासि जात इति वक्तव्यम् अथ मिथुनवांशके त-न्नवांशषट्कस्योर्द्ध्वं कर्कटनवांशके तन्नवांशकपञ्चकस्यार्वा-म्यदा चन्द्रमा भवति तदा पौषे मासि जात इति वक्त-व्यम् अथ कर्कटे तन्नवांशकपञ्चकस्योर्द्ध्वं सिंहनवांशकेतन्नवांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा माघे-मासि जन्म इति वक्तव्यम् अथ सिंहनवांशके तन्नवां-शकचतुष्टयस्योर्द्धं कन्यानवांशके तन्नवांशकसप्तकस्या-र्वाग्यदा चन्द्रमा भवति तदा फाल्गुने मासि जात इतिवक्तव्यम् अथ कन्यानवांशकसप्तकस्योर्द्ध्वं तुलानवांशकेतन्नवांशकषट्कस्यार्वाग्यदा चन्द्रमा भवति तदा चैत्रे मासिजात इति वक्तव्यम् अथ तुलानवांशके तन्नवांशकपट्-कस्योर्द्ध्वं वृश्चिकनवांशके तन्नवांशकपञ्चकस्यार्वाग्यदाचन्द्रमा मवति तदा वैशाखे मासि जात इति वक्तव्यम्अथ वृश्चिके तन्नत्रांशकपञ्चकस्योर्द्ध्वं धन्विनवांशके तन्न-वांशकचतुष्टयस्यार्वाग्यदा चन्द्रमा भवति तदा ज्यैष्ठे-मासि जात इत्यवगन्तव्यम् अथ धन्विनवांशके तन्नवां-शकचतुष्टयस्योर्द्ध्वं मकरनवांशकत्रयस्यार्वाग्यदा चन्द्रमाभवति तदा आषाढे मासि जात इति वक्तव्यम् अथमकरनवांशके तन्नवांशकत्रयस्योर्द्ध्वं कुस्य नवांशके तन्न-वांशकद्वयस्यार्वाग्यदा चन्द्रमा भवति तदा श्रावणे मासिजात इति वक्तव्यम् अथ कुम्भनवांशके तन्नवांशकद्वय-स्योर्द्ध्वं मीगनवांशे तन्नवांशपञ्चकस्यार्वाग्यदा चन्द्रमाभवति तदा भाद्रपदे मासि जात इति वक्तव्यम् अथ मीननवांशके तन्नवांशकपञ्चक्रस्योर्द्ध्वं मेषनवांशे तन्नवांश-षट्कत्रयस्यार्वाग्यदा चन्द्रमा भवति तदाश्वयुजि मासिजात इति वक्तव्यम् अथ मेषनवांशके तन्नवांशाष्टक-स्योर्द्ध्वं यदि चन्द्रमा भवति तदा कार्त्तिके मासि जातइत्यवगन्तव्यम् यस्मिन् कृत्तिका रोहिणी कार्त्तिकःसृगशिरार्द्रा मार्गशीर्षः पुनर्वसुः पुष्यश्च पौषः”अश्लेषा मघा माघः पूर्वफाल्गुन्युत्तरफाल्गुनीहस्तश्च फाल्गुनः चित्रा स्वाती चैत्रः विशाखा अनु-राधा वैशाखः ज्येष्ठामूले ज्यैष्ठः पूर्वाषाढोत्तरा-षाढा चाषाढः श्रवणं घनिष्ठा श्रावणः शतमिषक्-पूर्वभाद्रपदोत्तरभाद्रपदाश्च भाद्रपदः रेवत्यश्विनीभरण्य-श्चाश्चयुजः यस्मादुक्तम् “त्रिभन्तु पञ्चममुपान्त्यमन्त्यं चयद्वर्षमिति एवं शुक्लान्तस्य मासस्य शुक्लान्तग्रहणेनैतत्-प्रतिपादयति यत्तथा शुक्लपक्षान्ते येन नक्षत्रेण युक्तस्तदुप-लक्षितोमासो वक्तव्यः यथा कार्तिकशुक्लपक्षान्ते कृत्ति-कारोहिणीभ्यामन्यतमेन युतश्चन्द्रमा भवति तेन कार्ति-कोमास उच्यते एवमन्येषामपि योज्यते तदैतद्व्रुवतेएतदुक्तं मवति शुक्लान्तोमासः कृष्णान्त एव तथाच यवनेश्वरः “मासे तु शुक्लप्रतिपत्प्रवृत्ते पूर्वे शशी-मध्यवलोदयस्थः” तथा “यद्राशिसंज्ञे शीतांशुः प्रश्नकाले नवांशके स्थितस्तद्राशिगः पूर्णो यस्मिन् भवतिचन्द्रमाः जन्ममासः निर्दिष्टः पुरुषस्य तु पृच्छतः ।कृष्णपक्षान्तिको मासो ज्ञेयोऽत्र तु विपश्चिता” ।लग्नत्रिकोणेत्यादि लग्नस्य प्रश्रलग्नस्य त्रिकोणयोश्चनवमपञ्चमयोर्भध्याद्यस्तत्कालमुत्तमेन प्रधानवीर्येण बलेनयुक्तस्तद्भं राशिः प्रोच्यते कथ्यते तस्मिन् राशौ गतेचन्द्रमसि जात इति वक्तव्यम् तथा “यवनेश्वरःहोरादिवीर्याधिकलग्नभाजि स्थानं त्रिकोणे शशिनोविधाय” अङ्गालभनादिभिर्वा कालाङ्गानीत्यनेन प्रदर्शि-तोयः कालपुरुषस्याङ्गविभागस्तदालभनाद्वानेन विधिनास्प्रष्टुः स्पृशतः यदेव कालपुरुषस्याङ्गं स्पृशति तत्स्थेचन्द्रमसि जात इति वक्तव्यम् आदिग्रहणात् प्रागुक्त-सत्त्वदर्शनश्रवणे गृह्येते” भट्टो० “यावान् गतः शीत-करो विलग्नाच्चन्द्राद्वदेत्तावति जन्मराशिः मीनोदयेमीनयुगं प्रदिष्टं भक्ष्याहृताकाररुतैश्च चिन्त्यम्” मू० ।“अथ प्रकारान्तरेण जन्मस्थराशिज्ञानमिन्द्रवज्रयाह यावा-निति बिलग्नात् पृच्छालग्नाच्छीतकरश्चन्द्रो यावान् गतोयावति राशौ व्यवस्थितस्तस्माद्यस्तावति राशिः तत्रस्थेचन्द्रमसि जात इति वक्तव्यम् मीनोदये यदि मीनल-ग्नगतो भवति तदा मीनयुगमेव प्रदिष्टमुक्तम् मीनस्थ-श्चन्द्रमा इति वक्तव्यम् ननु दर्शितबिधिना राशिरनेकप्र-कारो यत्र प्राप्तो भिन्नरूपस्तत्र को वक्तव्य इत्याशङ्क्याहभक्ष्याहृताकाररुतैरिति यस्य राशेः सम्बन्धि भक्ष्यद्रव्यंतस्मिन् काले कृत्रिममानीयते तदाकारश्च कश्चिदृश्यतेयथा मार्जारादिदर्शने सिंहो महिषादिदर्शने वृषइत्यादि अथ वा राश्युक्तरूपपुरुषस्य दृष्ट्याथ वा रुतेनयस्य राशिसदृशप्राणिनो रुतं शब्दः क्रियते तत्रस्थेचन्द्रमसि जात इति वक्तव्यम्” भट्टो० “होरानवांश-प्रतिमं बिलग्नं लग्नाद्रविर्यावति दृकाणे तस्माद्वदे-त्तावति वा विलग्नं प्रष्टुः प्रसूताविति शास्त्रमाह” मू०“सुवं जन्मराशौ ज्ञाते लग्नज्ञानमिन्द्रवज्रयाह हीरेतिहोरायां प्रश्नलग्ने यस्य राशेर्नवांशकस्तत्कालं वर्त्ततेतस्मात्तावति तमं तत्प्रतिमन्तमेवांशकराशिं तस्य जन्मलग्नंवक्तव्यम् अथवा लग्नाल्लग्नद्रेष्काणादारभ्य रविः सूर्य्योयावति यावत्संख्ये द्रेष्काणे व्यवस्थितस्तस्माल्लग्नादारभ्यतावति राशौ लग्नगते तस्य जन्म वक्तव्यम् अत्र चद्वादशभ्योऽधिके द्रेष्काणे द्वादशकमपास्य संख्यानिर्देशःचतुर्विंशतेरधिके चतुर्विंशतिमपास्य शेषं वदेत् एवंशास्त्रमाह शास्त्रं कथयति स्वमनीषयोक्तमित्येतत्प्रतिपादयति शास्त्रग्रहणेनैतत्प्रतिपाद्यते उक्तञ्च“पृच्छालग्ननवांशस्य यो राशिः संज्ञया समः तस्मिन्लग्नगते राशौ प्रष्टुर्जन्म विनिर्दिशेत्” पृच्छतस्तावत्सं-ख्योपगते लग्नाद्दृकाणे दिनकृत् ततः प्रश्नलग्नात्ता-वत्संख्ये गते लग्नराशौ जन्म वक्तव्यम्” भट्टो० “जन्मा-दिशेल्लग्नगे वीर्यगे वा छायाङ्गुलघ्नोऽर्कहतेऽवशिष्टम् ।आसिनसुप्तोत्थिततिष्ठतां भञ्जायासुखाज्ञोदयशं प्रदिष्टम्”८ मू० “अथ प्रकारान्तरेण लग्नानयनमिन्द्रवज्रयाहजन्मदिशेदिति लग्नगे ग्रहे जन्मादिशेत् प्रश्नलग्ने योग्रहो व्यबस्थितस्तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यम्अथ बहवो लग्नगता भवन्ति तदा तेषां यो वलवान्तं तात्कालिकं कृत्वा लिप्तापिण्डीकार्यं ततः सलिलसमायामवनौ द्वादशाङ्गुलेन शङ्कुना तात्कालिकानिछायाङ्गुलानि गृहीत्वा तैरङ्गुलैरेकैकं ग्रहं दर्शितकालेलिप्तापिण्डीकृतं गुणयेत् अथ वा सर्वग्रहेभ्यो यो बल-वान् ग्रहस्तं तात्कालिकं कृत्वा लिप्तापिण्डं कृत्वाछायाङ्गुलाहतं चार्कशुद्धं कारयेत् द्वादशभिर्विभजेत्तत्रतावत्तत्रावशिष्टं तावत्संख्यो मेषादेरारभ्य यो राशि-र्भवति तस्मिन् राशौ लग्नगते तस्य जन्म वक्तव्यम् अथप्रकारान्तरेणाह आसीनेत्यादि आसीन उपविष्टो यदाप्रष्टा पृच्छति तदा लग्नाद्यज्जायास्थानं सप्तमराशिस्त-स्मिन् लग्नगते तस्य जन्म वक्तव्यम् अथ सुप्तः सुप्तोऽत्रशयनपतितोऽभिहितः जातनिद्रस्य प्रश्नाभावात् तत्रपतितो यदा पृच्छति तदा लग्नाद्यत् सुखस्थानं चतुर्थराशि-स्तस्मिन् लग्नगते तस्य जन्म बक्तव्यम् अथोत्थितः पृच्छतितदा तस्माल्लग्नाद्यदाज्ञा दशमोराशिस्तस्मिन् लग्नगते तस्यजन्म वक्तव्यम् अथ शयनादासनाच्च नोत्थितः किन्तु उत्ति-ष्ठन् पृच्छति तदोदयलग्नराशौ तस्मिन्नेव जन्म वक्तव्यम् ।उक्तञ्च “उत्तिष्ठतो विलग्नात्प्रष्टुः सुप्तस्य वन्धुलग्नाच्च ।उपविष्टस्यास्तमये व्रजतोमेषूरणस्थानादिति” भट्टो० ।“गोसिंहौ जितुमाष्टमौ क्रियतुले कन्यामृगौ क्र-मात् संवर्ग्या दशकाष्टसप्तविषयैः शेषाः स्वसंख्यागुणाः ।जीवारास्फुजिदैन्दवाः प्रथमवच्छेषाग्रहाः सौम्यवत्राशीनां नियतो विधिर्ग्रहयुतैः कार्या तद्वर्गणाः”९ मू० “अथ प्रकारान्तरेण सर्वमेव नष्टजातकं वक्ति ततःप्रश्रकाले तात्कालिकं लग्नं कृत्वा लिप्तापिण्डीकार्यम्ततस्तस्य लिप्तापिण्डीकृतस्य गुणकारविज्ञानार्थं शार्दू-लविक्रीडितेनाह गोसिंहाविति गोसिंहादयो राशयोयथाक्रमं दशादिभिर्गुणकारैः संवर्ग्या गुणनीयाः तदयथागोसिंहौ वृषसिंहौ दशभि १० र्गुणयेत् वृषलग्नं लिप्ता-पिण्डीकृतं दशभिर्गुणयेत् एवं सिंहं दशभिरेव ।जितुमाष्टमौ मिथुनवृश्चिकौ लग्नगतावष्टभि र्गुणयेत् ।क्रियतुले मेषतुले एतौ सप्तभिर्गुणयेत् कन्यामृगौकन्यामकरौ एतौ लग्नगतौ विषयैः पञ्चमिर्गुण-येत् एवमेते यथाक्रमं संवर्ग्यागुणनीयाः शेषा अनुक्ताराशयः स्वसंख्यागुणा आत्मीयसंख्यया गुणनीयाः तत्रमेषादिगणनया चतुर्थं कर्कटमिति चतुभिर्गुणतेत् एवं घ-न्विन नवभिः कुस्ममेकादशभिः ११ एवं मीनं द्वादशमिः १२ ।एवं तावल्लग्नं स्वगुणकारेणावश्यमेव गुणयेत् दशकाष्ट-सप्तविषयैः ततस्तत्र यदि ग्रहो भवति तदा ग्रहगुण-कारेणावश्यमेव गुणयेत् तत्र ग्रहगुणकारविधिः जीवारास्फुजिदैन्दवाः प्रथमवद्दशकाष्टसप्तविषयैरिति जीवेगुरौ लग्नगते तमेव लग्नं स्वगुणकारैराहतं दशभि-र्गुणयेत् आरे भौमे लग्नगते अष्टभिः, आस्फुजिच्छुक्रःतस्मिन् लग्नगते सप्तभिः, ऐन्दवे बुधे पञ्चभिः, शेषारविशशिसौरास्ते सौम्यवत् बुधवत् पञ्चभिर्गुण-नीया इत्यर्थः एवं तात्कालिकं लग्नम् अवश्यं राशि-गुणकारेण गुणयेत् ततः ग्रहोक्तगुणकारैरपि तत्रच यदा ग्रहो भवति तदा ग्रहगुणकारेण गुणयेत् ।यदा बहवो ग्रहा भवन्ति तदा सर्वेषां गुणकारैर्गुणथेत् एवं तद्गुणितमेकान्ते स्थापयेत्” भट्टो० ।“सप्ताहतं त्रिघनभाजितशेषमृक्षं दत्त्वाथ वा नव विशोध्य-नवाथ वा स्मात् एवं कलत्रसहजात्मजशत्रुभेभ्यः प्रष्टु-र्तदेदुदयराशिवशेन तेषाम्” १० मू० “अथ नक्षत्रानयनं वस-न्ततिलकेनाह सप्ताहतमिति सप्ताहतं सप्तभिर्गुणयेत्दत्त्वाथ वेति ततस्तत्र नव देयाः शोध्या वा किञ्चिद्वादेया इत्युच्यते यदि चरराशिर्लग्नगतो भवति तदा नवदेयाः स्थिरे देया नापि शोध्याः, द्विःस्वभावे विलग्नेनव शोध्याः एवं केचिद्व्याचक्षते वयं पुनर्ब्रूमः यदिप्रश्रलग्ने प्रथमोद्रेष्काणो भवति तदा देयाः, द्वितीयेन देया नापि शोध्याः, तृतीये नव शोध्याः एवं कृत्वातस्य राशेस्त्रिधनेन सप्तविंशत्या भागमप्रहृत्यावाप्तं त्याज्यंतत्र यावत्संख्योऽङ्कोऽवशेषो भवति तावत्संख्यमश्वि-न्यादितो यन्नक्षत्रं तन्नक्षत्रं तस्य प्रष्टुर्वक्तव्यम् केचित्वदन्ति तथास्थितस्य राशेः सप्तविंशत्याभागमपहृत्याव-शेषाङ्कनवकदानेन विशोधनेन वा यथास्थितेनाङ्केनसंवाद उत्पद्यते तथा नक्षत्रं वक्तव्यम् एवमित्यादि कल-त्रसहजात्मजशत्रुभेभ्य इति भार्य्याभर्तृपुत्ररिपुषु नष्ट-जातकं यदा पृच्छति तदा तद्भेभ्यस्तद्भावेभ्यः एवं प्रष्टुःपृच्छकस्य वदेद्ब्रूयात् तमेवोदयराशिं परिकल्पयेदि-त्यर्थः एतदुक्तं भवति यदि पुरुमः स्वपत्र्या नक्षत्रंपृच्छति तदा तात्कालिके लग्ने राशिषट्कं देयम् ।अथ भ्वातुः पृच्छति तदा राशिद्वयं देयमथ पुत्रस्यपृच्छति तदा राशिचतुष्क देयमथ शत्रो पृच्छति तदाराशिपञ्चकं देयम् एवं कृत्वा यद्भवति तदेवोदयराशिंप्रकल्प्य तद्गुणकारेण गुणथेत् तत्स्थग्रहगुणकारेणच ततस्तत्र प्राम्बन्नवकदानविशोधने कृत्वा सप्तविंशत्या-मागमपहृत्यावशेषाङ्कसमं यस्य प्रष्टा पृच्छति तस्य नक्षत्रंवक्तव्यम् एतदप्युपलक्षणार्थमेव, त्रिराशिसहितात्ता-त्कालिकाल्लग्नात् मित्रस्य वक्तव्यम् एतन्नक्षत्रानयनम-प्युपलक्षणमेवं सकलमपि नष्टजातकं वक्तव्यम्” भट्टो० ।“वर्षर्तुमासतिथयोद्युनिशं ह्युडुनि वेलोदयर्क्षनवमागवि-कल्पनाः स्युः भूयो दशादिगुणितात् स्वविकल्पभक्ता-द्वर्षादयो नवकदानविशोधनाभ्याम्” ११ मू० ।“अथ वर्षाद्यानयनं वसन्ततिलकेनाह वर्षर्त्तुमासेतिवर्षादीनि सर्वाणि स्वविकल्पेन भागे हृते यथा पाठ-क्रमेणानयितष्यानि तद्यथा तात्कालिकं लग्नं लिप्ता-पिण्डीकृतं राशिगुणकाराहतं ग्रहसंयुक्तं चेद्ग्रह-गुणकारा हृतमपि यदेकान्ते स्थापितं तत्पुनरपिदशादिगुणं कार्य्यम् एतदुक्तं भवति राशिः स्थान-चतुष्टये धार्य्यः एकत्र दशगुणोऽन्यत्र द्वितीयेऽष्टगुणो-ऽन्यत्र तृतीये सप्तगुणः चतुर्थे पञ्चगुणः कार्यः यतउक्तम् भूयो दशादिगुणितात् भूयः पुनरपि दशकाष्ट-सप्तविषयैर्गुणनीयाः ततस्तस्मिन राशिचतुष्टये प्राग्वन्न-वकदानविशोवने कृत्वा स्वविकल्पैर्भागमपहृत्यावाप्तंवर्षादयो ज्ञेयाः” भट्टो० ।“विज्ञेयादशकेष्वव्दा ऋतुमासास्तथैव अष्टकेष्वपिमासार्द्धा तिथयश्च तथा स्मृताः” १२ मू० “अथ ज्ञायतेकस्माद्राशेः कस्यानयनं कार्यं तदनुष्टुप्पत्रयेणाहविज्ञेयादशकेष्वव्दा इति अत्र बहुवचनं बहुधोप्तयोगि-त्वात् कृतम् यदुक्तं लविकल्पभक्ताद्वर्षादयस्तद्व्याख्या-यते एते चत्वारो राशयः स्थापितास्तेषां नवकदान-विशोघनं कृत्वा कर्मयोग्याः सर्वे भवन्ति ततो दशगुणस्यपृथक्स्थस्य परमायुषा विंशत्यधिकेन वर्वशतन भाग-नपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसमं तस्य वर्षसंख्याङ्कंवर्त्तते तस्यैव षड्भिर्भागमपहृत्य ऋतुसंख्यया तत्र यो-ऽङ्कोऽवशिष्यते तदङ्कसमे शिशिरादारभ्यर्त्तौ जात इतिवक्तव्यम् तस्यैव तु माससंख्यया द्वाभ्यां मागमपहृत्ययद्येकोऽवशिष्यते तदा ज्ञातर्त्तौ प्रथमे मासि जात इतिवक्तव्यम् अथ शून्यमवशिष्यते तदा द्वितीये मासिजातः एवं कृत्वा दशगुणः कर्मयोग्यो राशिरपास्यःयस्य विंशव्यधिकाद्वर्षशतादप्यधिकं जन्मनोऽतीतं तस्यनष्टजातकज्ञानोपाय एव नास्ति अष्टकेष्वित्यादि यो-ऽसावष्टहतो राशिस्तस्य प्रथक्स्थस्य कर्मयोग्यस्य पक्ष-संख्यया द्वाभ्या भागमपहृत्य यद्येकोऽवशिष्यते तदाशुक्लपक्षे जात इति वक्तव्यम् किञ्चिदवशिष्यते तदाकृष्णपक्षे तस्यैव तिथिसंख्यया पञ्चदशभिर्भागमपहृत्ययोऽङ्कोऽवशिष्यते तदङ्कसमाने तिथौ जात इति वक्तव्यम्एवं कृत्वाष्टगुणः कर्मयोग्यो राशिरपास्यः” भट्टो० ।“दिवारात्रिप्रसूतिञ्च नक्षत्रानयनं तथा सप्तकेष्वपि-वर्गेषु नित्यमेवोपलक्षयेत्” १३ मू० “दिवेत्यादि योऽसौसप्तहृतो राशिस्तत्र प्राग्वदेव नवकदानविशोधने कृत्वातत्कर्मयोग्यं राशिं स्थापयेत् तस्य दिवारात्रिसंख्ययाद्वाभ्यां भागमपहृत्य यद्येकोऽवशिष्यते तदा दिवसे जातोऽथ किञ्चिदवशिष्यते तदा रात्रौ जात इति वक्तव्यम् ।योऽसौ सप्तहतो राशिस्तस्य नक्षत्रसंख्यया सप्तविंशत्या-भागमपहृत्य योऽङ्कोऽवशिष्यते तदङ्कसंख्ये नक्षत्रेऽश्वि-न्धादित आरभ्य जातनक्षत्रमिति वक्तव्यम् अस्य कर्मणःपुनरभिधानं नक्षत्रानयनस्य बाहुल्योपयोगिंत्वात्” भट्टो० ।“वेलामथ विलग्नञ्च होरामंशकमेव पञ्चकेषुविजानीयान्नष्टजातकसिद्धये” १४ मू० “वेलेत्यादि यस्मिन्दिने पुरुषस्य जन्मज्ञानं तद्दिनप्रमाणं घटिकादिकं कर्त्तव्यंरात्रौ चेत्तदा रात्रिप्रमाणं ततः पञ्चगुणस्य राशेष्तेनदिनप्रभाणेन रात्रिप्रमाणेन भागमपहृत्य योऽङ्कोऽवशि-ष्यते तस्मिन् काले दिनगते रात्रिगते वा तस्य जन्मवक्तव्यम् अथ विलग्नमित्यादि अथ शब्दः पादपूर-णार्थं काले ज्ञाते राश्यादिलग्नं कर्त्तव्यं ततस्तस्यहोराद्रेष्काणनवां शद्व दशांशत्रिंशांशभागाः कर्त्तव्याःतात्कालिका ग्रहाश्च कर्त्तव्याः ततो यथाभिहितेन वि-धिना दशान्तर्दशाष्टकवर्गादेरभिहितस्य फलस्य निर्देशःकार्य्यः एवं नष्टजातकं साधयेत्” भट्टो० ।“संस्कारनाममात्राद्विगुणाच्छायाङ्गुलैः समायुक्ता शेषंत्रिनवकभक्ता नक्षत्रं तद्धनिष्ठादि” १५ मू० “अथ प्रकारान्तरेण नक्षत्रानयनमार्ययाह संस्कारनामेति संस्कारेणनाम संस्कारनाम तस्य मात्राः संस्कारेणागतस्य नाम्नोमात्राः संस्कारनाममात्राः संस्कारग्रहणेनैतत्प्रतिपादितंभवति संस्कारेण यत्पुरुषस्य नामकृतं तस्य मात्रा ग्राह्याःनान्यस्य कस्यचित् कुनामादेः मात्राश्चेह गृह्यन्ते हल्अर्द्धमात्रिकः अच् मात्रिकः इत्यनया स्थित्या ताः संस्का-रनाममात्राः संगृह्य द्विगुणीकार्य्याः ततस्तात्कालिकानिशङ्कुच्छायाङ्गुलानि गृहीत्वा ताद्विगुणमात्रास्तैरङ्गुलैःसंयुक्ताः कार्य्याः एवं कृते यद्भवति तस्य त्रिनवकेन सप्त-विंशत्याभागमपहृत्य यः शेषो भवति तदङ्कसमं तस्यधनिष्ठादित आरभ्य नक्षत्रं वक्तव्यम्” भट्टो० ।“द्वित्रिचतुर्दशदशतिथि सप्तत्रिगुणानवाष्टचैन्द्राद्याः पञ्च-दशघ्नास्तद्दिग्मुखान्विताभं धनिष्ठादि” १६ मू० “अथनक्षत्रानयनं प्रकारान्तरेणार्य्ययाह द्वित्रिचतुर्दशेतिपूर्वाभिमुखो यदा प्रष्टा पृच्छति तदा द्वयोरङ्काः स्थाप्याःअथाग्नेयाभिमुखस्तदा त्रयाणाम् अथ दक्षिणाभि-मुखस्तदा चतुर्दशानाम् अथ नैरृत्यभिमुखस्तदा दशानाम्अथ पश्चिमाभिमुखस्तदा तिथिसंख्यानां पञ्चदशानाम्अथ वायव्याभिमुखस्तदा सप्तत्रिगुणायाः एकविंशतेः ।उत्तराभिमुखस्तदा नवानाम् ऐशान्याभिमुखस्तदाष्टानांतद्यथा एवं दिगमिमुखप्रष्टृवशेनाङ्कं गृहीत्वा ततः पञ्च-दशगुणः कार्यः ततस्तस्मिन् प्रदेशे यावन्तः पुरुषास्तदभि-मुखाः स्थितास्तत्संख्ययान्वितो युक्तः कार्यः एवं कृतेयद्भवति तस्य सप्तविंशत्या भागमपहृत्य योऽङ्कोऽवशिष्यतेतदङ्कसमं तस्य धनिष्ठाद्यारभ्य नक्षत्रं वक्तव्यम्” भट्टो० ।“इति नष्टजातकमिट बहुप्रकारं मया विनिर्दिष्टम ।ग्राह्यमतः सच्छिष्येः परीक्ष्य यत्नाद्यथा भवति” १७ मू०“इतिशब्दः उपसंहारे मया वराहमिहिराचार्येणनष्टजातकं बहुप्रकारं बहुभेदं विनिर्दिष्टमुक्तमिदम् ।अतोऽस्माद्धेतोः सच्छिष्यैः शोभनसच्छात्रैः ग्राह्यंयत्नात्परीक्ष्य विचार्य यथा येन प्रकारेण संवदति सत्य-रूपं तथ ग्राह्यमिति येन प्रकारेण संवदति तथाग्रहीतव्यमित्यर्थः बहुभिरागमैर्मया विचार्य पराशर-वशिष्ठयवनसत्यमणित्थादीनां मतानि आलोक्य कृतं तदेवभूयो निर्मलगुणनिपुणबुद्ध्या विचार्य संवादेन कार्यं येनस्फुटसिद्धोऽसौ संपद्यते” भट्टो०