| YouTube Channel

नष्टचन्द्र (naSTacandra)

 
शब्दसागरः
English
नष्टचन्द्र
m.
(-न्द्रः) The moon on the fourth lunation of either half of
Bhādra.
E.
नष्ट, and चन्द्र the moon: it is is very unlucky to see the
moon on these days.
Yates
English
नष्ट-चन्द्र (न्द्रः) 1.
m.
The moon on
the fourth lunation of
Bhādra.
Wilson
English
नष्टचन्द्र
m.
(-न्द्रः) The moon on the fourth lunation of either half
of Bhādra.
E.
नष्ट, and चन्द्र the moon: it is very unlucky to see the moon on
these days.
Monier Williams Cologne
English
नष्ट—चन्द्र
m.
‘moonless’,
N.
of the 4th day in both halves of Bhādra,
L.
Apte Hindi
Hindi
नष्टचन्द्रः
पुं*
- -
भाद्रपद मास की चतुर्थी तिथि जब कि चन्द्रमा का देखना निषिद्ध है
शब्दकल्पद्रुमः
Sanskrit
नष्टचन्द्रः,
पुं,
(नष्टो दुष्टश्चन्द्रः ।) सौरभाद्रस्यो-भयपक्षे चतुर्थ्यामुदितश्चन्द्रः यथा, --“नष्टश्चन्द्रो दृश्यश्च भाद्रे मासि सितासिते ।चतुर्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः
चन्द्रस्तारापहरणं कलङ्कमतिदुष्करम् ।तस्मै ददाति हे नन्द ! कामतो यदि पश्यति
अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत् ।तदा शुद्धो भवेत् सद्यो निष्कलङ्की महीतले
‘सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।सुकुमारक ! मारोदीस्तव ह्येष स्यमन्तकः
’इति मन्त्रेण पूतश्च जलं साधुः पिबेद्ध्रुवम्
पुरा तारा गुरोः पत्नी नवयौवनसंयुता ।रत्नभूषणभूषाढ्या रत्नसूक्ष्माम्बरा सती
सुश्रोणी सुस्मिता रम्या सुन्दरी सुमनाहरा ।अतीवकवरीरम्या मालतीमाल्यभूषिता
सिन्दूरविन्दुना साकं चारुचन्दनविन्दुभिः ।कस्तूरीविन्दुनाधश्च भालमध्यस्थलोज्ज्वला
रत्नेन्द्रसारनिर्म्माणक्वणन्मञ्जीररञ्जिता ।सुवक्रलोचना श्यामा सुचारुकज्जलोज्ज्वला
सुचारुचारुमुक्ताभदन्तपङ्क्तिमनोहरा ।रत्नकुण्डलयुग्मेन चारुगण्डस्थलोज्ज्वला
कामिनीष्वतुला बाला गजेन्द्रमन्दगामिनी ।सुकोमला चन्द्रमुखी कामाधारा कामुकी
स्वर्गमन्दाकिनीतीरे स्नाता स्निग्धाम्बरा वरा ।ध्यायन्ती गुरुपादं सा स्वगृहं गमनोन्मुखी
दृष्ट्वा तस्याश्च सर्व्वाङ्गमनङ्गवाणपीडितः ।भाद्रे चतुर्थ्याञ्चन्द्रश्च जहार चेतनं व्रज !
ज्ञानं क्षणेन संप्राप्य रथस्थो रसिको बली ।रथमारोहयामास करे धृत्वा तारकाम्
कामोन्मत्तः कामिनीन्तां समाश्लिष्य चुचुम्ब सः ।शृङ्गारं कर्त्तुमुद्यन्त तमुवाच गुरुप्रिया
तारकोवाच ।त्यज मां त्यज मां चन्द्र ! सुरेषु कुलपांसक ! ।गुरुपत्नीं ब्राह्मणीञ्च पतिव्रतपरायणाम्
गुरुपत्नीसङ्गमने ब्रह्महत्याशतं लभेत् ।पुत्त्रस्त्वं तव माताहं धैर्य्यं कुरु सुरेश्वर !
धिक् तां श्रुत्वा सुरगुरुर्भस्मीभूतं करिष्यति ।गुरुपत्नी विप्रपत्नी यदि सा पतिव्रता
ब्रह्महत्यासहस्रञ्च तस्याः सङ्गमने लभेत् ।पुत्त्राधिकश्च शिष्यश्च प्रियोमत्स्वामिनो भवान्
स्वधर्म्मं रक्ष पापिष्ठ ! मामेव मातरं त्यज ।दास्यामि स्त्रीवधं तुभ्यं यदि मां संग्रहीष्यसि
विलङ्घ्य तारावचनं ताञ्च सम्भोक्तुमुद्यतम् ।शशाप तारा कोपेन निष्कामा सा पतिव्रता
राहुग्रस्तो घनग्रस्तः पापयुक्तो भवान् भव ।कलङ्की यक्ष्मणा ग्रस्तो भविष्यसि संशयः
चन्द्रमेवं तदा तूर्णं कामदेवं शशाप सा ।तेजस्विना केनचित्त्वं भस्मीभूतो भविष्यसि
चन्द्रस्तारां गृहीत्वा कृत्वा रमणं व्रज ! ।क्रोडे निधाय प्रययौ रुदन्तीं तां शुचिस्मिताम्
निर्जने निर्जने रम्ये शैले शैले मनोहरे ।तत्र दृष्ट्वासुरगुरुं बलिगेहात् समागतम्
प्रणम्यं सर्व्वमुक्त्वा चन्द्रस्तं शरणं ययौ ।शुक्रस्तं बोधयामास वचनं नीतियुक्तितः
शुक्र उवाच ।शृणु वत्स ! प्रवक्ष्यामि गुरवे देहि तारकाम् ।गुरुपत्नीं मातृपरां त्यज मद्बचनाद्विधो !
कुरु पापक्षयोपायं निवृत्तिस्तु महाफला ।सतीनां गुरुपत्नीनां ग्रहणेन बलेन
ब्रह्महत्यासहस्राणां पातकं लभते जनः ।कुम्भीपाके पच्यते यावद्बै ब्रह्मणः शतम्
बृहस्पतिश्च तेजस्वी त्वां भस्मीकर्त्तुमीश्वरः ।न चकार कृपालुश्चेत् प्रियशिष्येण हेतुना
उतथ्यपत्नीं दृष्ट्वा पुरा रेमे सकामतः ।तत्पतेः शापतोऽस्यैव परग्रस्ता प्रिया सती
”“एतस्मिन्नन्तरे ब्रह्मा बोधयित्वा कविं विभुः ।समानीय निशानाथं तारकासहितं व्रज ! ।शम्भोश्च चरणाम्भोजे चकार समर्पणम्
शम्भुस्तं प्रीतियुक्तश्च वासयामास वक्षसि
दत्त्वा तस्मै पादरेणुं निष्पापञ्च चकार सः ।दत्त्वा तन्मस्तके हस्तं कृपालुरभयं ददौ
क्षीरोदे स्थापयित्वा प्रायश्चित्तेन शङ्करः ।चकार चन्द्रं निष्पापं ब्रह्मणा सहितः शुचिम्
योगेन चन्द्रं योगीन्द्रो द्बिखण्डञ्च चकार सः ।ररक्षार्द्धं ललाटे सोऽप्यर्द्धं ब्रह्मणः पुरः
अतएव महादेवो बभूव चन्द्रशेखरः ।मृगाङ्को लज्जितस्तत्र कलङ्की देवसंसदि
लज्जया स्वयोगेन देहत्यागञ्चकार सः ।तच्छरीरञ्च क्षीरोदे ब्रह्मणा समर्पितम्
रुरोदात्रिश्च कृपया शुचा क्षीरोदधेस्तटे ।अत्रेश्चक्षुर्जलं तस्य पपात जले व्रज !
भस्माद्बभूव चन्द्रश्च निष्पापो देवसंसदि ।ब्रह्मा भगवान् शम्भुरभिषेकञ्चकार तम्
उवाच महादेवो निर्भयं देवसंसदि
महादेव उवाच ।स्वस्थानं गच्छ पुत्त्र ! त्वं कुरु स्वविषयं मुदा ।पश्चात् श्वशुरशापेन यक्ष्मग्रस्तो भविष्यसि
व्यर्थं पतिव्रताशापं कर्त्तुमीशश्च को भुवि ।ममाशिषा यक्ष्मणश्च प्रतिकारो मविष्यति
यस्माद्भाद्रचतुर्थ्यान्तु गुरुपत्नी क्षता कृता ।तस्मात्तस्मिन्दिने वत्स ! पापदृश्यो युगे युगे
मा भुक्तं क्षीयते कर्म्म कल्पकोटिशतैरपि ।अवश्यमेव भोक्तव्यं कृतं कर्म्म शुभाशुभम्
देहत्यागेन हे वत्स ! कर्म्मभोगो नश्यति ।प्रायश्चित्तान्न सन्देहो ह्यस्तमेव भविष्यति
तारापहरणं वत्स ! कलङ्कश्चन्द्रमण्डले ।मृगाकृतं विलग्नञ्च मविष्यति युगे युगे
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८०-८१ अः
वाचस्पत्यम्
Sanskrit
नष्टचन्द्र
पु०
नष्टः दुष्टश्चन्द्रः सौरभाद्रमासे उभयपक्षीयचतुर्थ्यामुदिते चन्द्रे तस्य तद्दिवसे दुष्टत्वकारणं ब्रह्म-वै०
पु०
८० अ० उक्तं यथा“नष्टश्चन्द्रो दृश्यश्च भाद्रे मासि सितासिते चतु-र्थ्यामुदितोऽशुद्धः प्रतिषिद्धो मनीषिभिः चन्द्रस्तारा-पहरणं कलङ्कमतिदुष्करम् तस्मै ददाति हे नन्द!कामतो यदि पश्यति अकामतो नरो दृष्ट्वा मन्त्र-पूतं जलं पिबेत् तदशुद्धो भवेत् सद्यो निष्कलङ्कीमहीतले सिंहः प्रसेनमबधीत् सिंहो जाम्बवता हतः ।सुकुमारक! मा रोदीस्तव ह्येष स्यमन्तकः इतिमन्त्रेण पूतञ्च जलं साधु पिबेद्ध्रुवम्” इत्युपक्रमे “दृष्ट्वातस्याश्च (तारायाः) सर्व्वाङ्मनङ्गवाणपीडितः माद्रेचतुर्थ्याञ्चन्द्रश्च जहाराचेतनां व्रजन् ज्ञानं क्षणेन संप्राप्यरथस्थो रसिको बली रथमारोहयामास करे धृत्वाच तारकाम् कामोन्मत्तः कामिनीन्तां समाश्लिष्यचुचुम्ब सः “यस्मात्तस्मिन् दिने वत्स! पापदृश्योयुगे युगे मा भुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् देहत्यागेनहे वत्स! कर्मभोगो नश्यति प्रायश्चित्तान्न सन्देहोह्यस्तमेव भविष्यति तारापहरणं वत्स! कलङ्कश्चन्द्र-मण्डले मृगकृतं विलग्नञ्च भविष्यति युगे युगे”