| YouTube Channel

नवोदकं (navodakaM)

 
शब्दकल्पद्रुमः
Sanskrit
नवोदकं,
क्ली,
(नवमुदकम् ।) नूतनजलम् यथा, मिताक्षरायां स्मृतिः ।“काले नवोदकं शुद्धं पातव्यञ्च तत् त्र्यहम् ।अकाले तु दशाहानि पीत्वा नाद्यादहर्निशम्
”इति शुद्धितत्त्वम्
तन्निमित्तकं श्राद्धं कर्त्तव्यम् यथा, शातातपः ।“नवोदके नवान्ने गृहप्रच्छादने तथा ।पितरः स्पृहयन्त्यन्नमष्टकासु मघासु
तस्माद्दद्यात् सदा युक्तो विद्बत्सु ब्राह्मणेषु
नवोदके वर्षोपक्रमे आर्द्रागते रवाविति यावत् ।‘आर्द्रादितो विशाखान्तं रविचारेण वर्षति ।’इति नव्यवर्द्धमानधृतात्
‘प्राविट्काले समायाते रौद्रऋक्षगते रवौ ।नाडीवेधसमायोगे जलयोगं वदाम्यहम्
’इति रुद्रयामलाच्च
रौद्रमार्द्रा
*
नवोदकश्राद्धस्य सावकाश-त्वात् त्रयोदश्यादिकनिषेधमाह दीपिकायाम् ।‘त्रयोदशीं जन्मदिनञ्च नन्दांजन्मर्क्षतारां सितवासरञ्च ।त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्र-ध्रुवेषु श्राद्धविधानमिष्टम्
’सितवासरं शुक्रवारम् ऋक्षं राशिः हर्य्या-दयः श्रवणपुष्यमृगशिरोहस्तारेवत्यनुराधोत्तरा-त्रितयरोहिण्यः कृष्णपक्षे चेन्नवोदकश्राद्ध-कालस्तदोभयोः श्राद्धयोस्तन्त्रात् सिद्धिः ।” इतितिथ्यादितत्त्वम्