| YouTube Channel

नवोदक (navodaka)

 
Shabdartha Kaustubha
Kannada
नवोदक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹೊಸ ನೀರು/ಬಾವಿ ಮೊದಲಾದುವನ್ನು ತೋಡಿದಾಗ ಬರುವ ಹೊಸ ನೀರು
व्युत्पत्तिः - > नवमुत्थितमुदकम्
नवोदक
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಂತರಿಕ್ಷದಿಂದ ಬಿದ್ದ ಮಳೆಯ ನೀರು
व्युत्पत्तिः - > नवं पतितमुदकम्
Edgerton Buddhist Hybrid
English
? navodaka (nt.?), some kind of food: °kaṃ ca [Page292-a] tailalavaṇakvathanaṃ Mv 〔i.329.13〕. Senart has no suggestion. Read perhaps navodanaṃ (navaud°), or some other cpd. of odana?
शब्दकल्पद्रुमः
Sanskrit
नवोदकं,
क्ली,
(नवमुदकम् ।) नूतनजलम् यथा, मिताक्षरायां स्मृतिः ।“काले नवोदकं शुद्धं पातव्यञ्च तत् त्र्यहम् ।अकाले तु दशाहानि पीत्वा नाद्यादहर्निशम्
”इति शुद्धितत्त्वम्
तन्निमित्तकं श्राद्धं कर्त्तव्यम् यथा, शातातपः ।“नवोदके नवान्ने गृहप्रच्छादने तथा ।पितरः स्पृहयन्त्यन्नमष्टकासु मघासु
तस्माद्दद्यात् सदा युक्तो विद्बत्सु ब्राह्मणेषु
नवोदके वर्षोपक्रमे आर्द्रागते रवाविति यावत् ।‘आर्द्रादितो विशाखान्तं रविचारेण वर्षति ।’इति नव्यवर्द्धमानधृतात्
‘प्राविट्काले समायाते रौद्रऋक्षगते रवौ ।नाडीवेधसमायोगे जलयोगं वदाम्यहम्
’इति रुद्रयामलाच्च
रौद्रमार्द्रा
*
नवोदकश्राद्धस्य सावकाश-त्वात् त्रयोदश्यादिकनिषेधमाह दीपिकायाम् ।‘त्रयोदशीं जन्मदिनञ्च नन्दांजन्मर्क्षतारां सितवासरञ्च ।त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्र-ध्रुवेषु श्राद्धविधानमिष्टम्
’सितवासरं शुक्रवारम् ऋक्षं राशिः हर्य्या-दयः श्रवणपुष्यमृगशिरोहस्तारेवत्यनुराधोत्तरा-त्रितयरोहिण्यः कृष्णपक्षे चेन्नवोदकश्राद्ध-कालस्तदोभयोः श्राद्धयोस्तन्त्रात् सिद्धिः ।” इतितिथ्यादितत्त्वम्
वाचस्पत्यम्
Sanskrit
नवोदक
न०
नवं पतितमुत्यितं वा उदकम् नवखातेउत्थिते उदके गगनादभिनवपतिते जले तस्यापेय-त्वादिकं प्रा० त० निरूपितं यथाहारीतः “मत्स्यकण्टकशम्भूकशङ्खशुक्तिकपर्दकान् ।पीत्वा नवोदकञ्चैव पञ्चगव्येन शुध्यति” नवोदकं नव-स्वातजलं वर्षोदकञ्च तथा ब्रह्मपुराणम् “नवस्वातजलंगावो महिष्यश्छागयोनयः शुध्यन्ति दिवसैरेव दश-भिर्नात्र संशयः” मिताक्षराधृता स्मृतिः “काले नवोदकंशुद्धं पातव्यन्तु तत् त्र्यहम् अकाले तु दशाहंस्यात् पीत्वा नाद्यादहर्निशम्” काले वर्षाकाले शङ्खः“स्नानमाचमनं दानं देवतापितृतर्पणम् शूद्रोदकैर्नकुर्वीत तथा मेघाद्विनिःसृतैः” पानादीतरत्र स्पर्शादौच हविवंशः “अमौममम्भोविसृजन्ति मेघाः पूतंपवित्रं पवनैः सुनन्धि” नबोदकनिमित्तं पार्वणंश्राद्धं नित्यं, तद्विधानादि ति० त० उक्तं यथाशातातपः “नबोदके नवान्ने गृहप्रच्छादने सदा ।पितरः स्पृहयन्त्यन्नमष्टकासु मघासु तस्माद्दद्यात्सदोद्युक्तो विद्वत्सु ब्राह्मणेषु च” अत्र सदेति श्रवणात्अस्य नित्यत्वम् नवोदके वर्षोपक्रमे आर्द्रागते रबा-विति यावत् “आर्द्रादिती बिशाखान्तं रविचारेणवर्षति” इति नव्यवर्द्धमानधृतात् “प्रावृट्काले समा-याते रौद्र ऋक्षगते रवौ नाडीवेधसमायोगे जल-योगं बदाम्यहम्” इति रुद्रजामलाच्च रौद्रमार्द्रानवोदकश्राद्धस्य सावकाशत्वात् त्रयोदश्यादिषु निषेधमाहदीपिकायाम् “त्रयोदशीं जन्मदिनञ्च नन्दां जन्मर्क्ष-तारां सितवासरञ्च त्यक्त्वा हरीज्येन्दुकरान्त्यमैत्रध्रुवेषु श्राद्धविधानमिष्टम्” सितबासरं शुक्रवारंऋक्षं राशिः हर्य्यादयः श्रवणपुष्यमृगशिरोहस्तारेबत्य-नुराधा उत्तरात्रितयरोहिण्यः कृष्णपक्षे चेन्नबोदक-श्राद्धकालस्तदोमयोः श्राद्धयोस्तन्त्रात् सिद्धिः”