| YouTube Channel

नवान्नं (navAnnaM)

 
शब्दकल्पद्रुमः
Sanskrit
नवान्नं,
क्ली,
(नवं नूतनं अन्नम् ।) नूतनान्नम् ।तन्निमित्तश्राद्धम् यथा, --वराह उवाच ।“अकृत्वा यो नवान्नानि मम कर्म्मपरायणः ।भुञ्जन्ति ये नवान्नानि परैः शक्तानि केन
नाहं लोभेन चेच्छामि पुनर्भोगेन सुन्दरि ! ।अवश्यमेव कर्त्तव्यं मम कर्म्मपरायणैः
ततो भागवतो भूत्वा नवान्नं यो कारयेत् ।पितरस्तस्य नाश्नन्ति वर्षाणि दश पञ्च
अदत्त्वा यस्तु भुञ्जीत नवान्नानि कथञ्चन ।न तस्य धर्म्मो विद्येत एवमेतन्न संशयः
अन्यच्च ते प्रवक्ष्यामि येन तत्र प्रमुच्यते ।प्रायश्चित्तं महाभागे ! मम भक्तसुखावहम्
उपवासं त्रिरात्रन्तु तत एकेन वा पुनः ।आकाशशयनं कृत्वा चतुर्थेऽहनि शुध्यति
एवं तत्र विधिं कृत्वा उदिते दिवाकरे ।पञ्चगव्यं ततः पीत्वा शीध्रं सुच्येत किल्विषात्
एतेन विधानेन प्रायश्चित्तं समाचरेत् ।सर्व्वसङ्गान् षरित्यज्य मम लोकाय गच्छति
”इति नवान्नभोक्षणापराधप्रायश्चित्तम्
इतिवराहपुराणम्
*
तस्य निषिद्धदिनं यथा, --“सूर्य्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मा-न्वितेनन्दामन्दमहीजकाव्यदिवसे पौषे मधौकार्त्तिके ।भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमेश्राद्धं भोजनकं नवान्नविहितं पुत्त्रार्थनाश-प्रदम्
”सूर्य्ये चैव विशाखगे मार्गशीर्षस्य विंशति-दण्डाधिकप्रथमदिनत्रयावस्थिते सूर्य्ये स्मर-तिथौ त्रयोदश्याम् पापे पञ्चमतारात्रये ।उग्रः पूर्व्वात्रयमघाभरण्यः अहिरश्लेषा ।शिव आर्द्रा ।“ज्येष्ठाशेषार्द्धगे सूर्य्ये मृगनेत्रनिशात्मके ।नवान्नैर्भोजनं श्राद्धं जन्मचन्द्रे तिथौ
अश्लेषाकृत्तिकाज्येष्ठामूलाजपदकेषु ।भृगुभौमदिने रिक्ततिथौ नाद्यान्नवौदनम्
”तस्य विधिर्यथा, --“प्राश्नीयाद्दधिसंयुक्तं नवं विप्राभिमन्त्रितम्
”दीपिकायाम् ।“भेषूग्राहिशिवान्येषु विभौमशनिवासरे ।अन्नप्राशनवत् कुर्य्यान्नवान्नफलभक्षणम्
”अधिकन्तु ।“हस्ता स्वातिपुनर्व्वसू मृगशिरःपुष्यानुराधातथामूलायां श्रवणे रेवतिधने चित्रामले वारुणे ।ब्राह्मे शक्रविशाखयोश्च तुरगे सौम्येन्दुजीवाहकेचन्द्रे शोभनतारके शुभदं श्राद्धं नवान्नैःकृतम्
”भोजराजः ।“ब्रह्मा विष्णुबृहस्पती शशधरो मार्त्तण्डपौष्णा-दितीमैत्रे चैव विशाखवायुधनभे मूलाश्विवह्नौतथा ।शक्रे वारुण ऋक्षके शुभदिने श्राद्धं नवं शस्यतेनन्दाभार्गवभूमिजेषु भवेच्छ्राद्धं नवान्नो-द्भवम्
”इति ज्योतिस्तत्त्वम्
आश्विंनाधिकारे ।“शुक्लपक्षे नवं धान्यं ज्ञात्वा पक्वं सुशोभनम् ।गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरः
”इत्यादिना ब्रह्मपुराणेन श्राद्धविधानात्
अपि ।“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः
”इति मलमासतत्त्वम्