नवान्न (navAnna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishनवान्न - navAnna - - first-fruits
नवान्न - navAnna - - new rice or grain
नवान्न - navAnna - - ceremony observed on first eating new rice
Wilson
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiनवान्नम्
नव-अन्नम् -
नये चावल या नया अनाज
Shabdartha Kaustubha
Kannadaनवान्न
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹೊಸದಾದ ಅನ್ನ
व्युत्पत्तिः - > नवं च तदन्नं च
नवान्न
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹೊಸ ಧಾನ್ಯ
नवान्न
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹೊಸದಾದ ಫಲ
नवान्न
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹೊಸ ಧಾನ್ಯವು ಬರುವ ಕಾಲ
निष्पत्तिः - > "अच्" (५-२-१२७)
व्युत्पत्तिः - > नवान्नं प्राप्यतयात्रास्ति
शब्दकल्पद्रुमः
Sanskritनवान्नं, (नवं नूतनं अन्नम् ।) नूतनान्नम् ।तन्निमित्तश्राद्धम् । यथा, --वराह उवाच ।“अकृत्वा यो नवान्नानि मम कर्म्मपरायणः ।भुञ्जन्ति ये नवान्नानि परैः शक्तानि केन ह ॥
नाहं लोभेन चेच्छामि पुनर्भोगेन सुन्दरि ! ।अवश्यमेव कर्त्तव्यं मम कर्म्मपरायणैः ॥
ततो भागवतो भूत्वा नवान्नं यो न कारयेत् ।पितरस्तस्य नाश्नन्ति वर्षाणि दश पञ्च च ॥
अदत्त्वा यस्तु भुञ्जीत नवान्नानि कथञ्चन ।न तस्य धर्म्मो विद्येत एवमेतन्न संशयः ॥
अन्यच्च ते प्रवक्ष्यामि येन तत्र प्रमुच्यते ।प्रायश्चित्तं महाभागे ! मम भक्तसुखावहम् ॥
उपवासं त्रिरात्रन्तु तत एकेन वा पुनः ।आकाशशयनं कृत्वा चतुर्थेऽहनि शुध्यति ॥
एवं तत्र विधिं कृत्वा उदिते च दिवाकरे ।पञ्चगव्यं ततः पीत्वा शीध्रं सुच्येत किल्विषात् ॥
य एतेन विधानेन प्रायश्चित्तं समाचरेत् ।सर्व्वसङ्गान् षरित्यज्य मम लोकाय गच्छति ॥
”इति नवान्नभोक्षणापराधप्रायश्चित्तम् ॥
इतिवराहपुराणम् ॥
* ॥
तस्य निषिद्धदिनं यथा, --“सूर्य्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मा-न्वितेनन्दामन्दमहीजकाव्यदिवसे पौषे मधौकार्त्तिके ।भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमेश्राद्धं भोजनकं नवान्नविहितं पुत्त्रार्थनाश-प्रदम् ॥
”सूर्य्ये चैव विशाखगे मार्गशीर्षस्य विंशति-दण्डाधिकप्रथमदिनत्रयावस्थिते सूर्य्ये । स्मर-तिथौ त्रयोदश्याम् । पापे पञ्चमतारात्रये ।उग्रः पूर्व्वात्रयमघाभरण्यः । अहिरश्लेषा ।शिव आर्द्रा ।“ज्येष्ठाशेषार्द्धगे सूर्य्ये मृगनेत्रनिशात्मके ।नवान्नैर्भोजनं श्राद्धं जन्मचन्द्रे तिथौ न च ॥
अश्लेषाकृत्तिकाज्येष्ठामूलाजपदकेषु च ।भृगुभौमदिने रिक्ततिथौ नाद्यान्नवौदनम् ॥
”तस्य विधिर्यथा, --“प्राश्नीयाद्दधिसंयुक्तं नवं विप्राभिमन्त्रितम् ॥
”दीपिकायाम् ।“भेषूग्राहिशिवान्येषु विभौमशनिवासरे ।अन्नप्राशनवत् कुर्य्यान्नवान्नफलभक्षणम् ॥
”अधिकन्तु ।“हस्ता स्वातिपुनर्व्वसू मृगशिरःपुष्यानुराधातथामूलायां श्रवणे च रेवतिधने चित्रामले वारुणे ।ब्राह्मे शक्रविशाखयोश्च तुरगे सौम्येन्दुजीवाहकेचन्द्रे शोभनतारके च शुभदं श्राद्धं नवान्नैःकृतम् ॥
”भोजराजः ।“ब्रह्मा विष्णुबृहस्पती शशधरो मार्त्तण्डपौष्णा-दितीमैत्रे चैव विशाखवायुधनभे मूलाश्विवह्नौतथा ।शक्रे वारुण ऋक्षके शुभदिने श्राद्धं नवं शस्यतेनन्दाभार्गवभूमिजेषु न भवेच्छ्राद्धं नवान्नो-द्भवम् ॥
”इति ज्योतिस्तत्त्वम् ॥
आश्विंनाधिकारे ।“शुक्लपक्षे नवं धान्यं ज्ञात्वा पक्वं सुशोभनम् ।गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरः ॥
”इत्यादिना ब्रह्मपुराणेन श्राद्धविधानात् ॥
अपि च ।“शरद्वसन्तयोः केचिन्नवयज्ञं प्रचक्षते ।धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः ॥
”इति मलमासतत्त्वम् ॥
वाचस्पत्यम्
Sanskritनवान्न कर्म० । १ नूतनान्ने तत् प्राप्यतयाऽत्रास्ति अच् ।बवान्नागमकाले तन्निमित्तकश्राद्धादिकं श्राद्धविवेकेउक्तं यथा विष्णुधर्मोत्तरे “व्रीहिपाके च कर्त्तव्यंयवपाके च पार्थिव! । नतावाद्यौ महाराज! विना-श्राद्धं कथञ्चन । पोर्णमासी तथा माघी श्रावणी चनरोत्तम! । प्रौष्ठपद्यामतीतायां तथा कृष्णा त्रयो-दशी । एतांस्तु श्राद्धकालान् वै नित्यानाह प्रजापतिः” ।व्रीहिः शरत्पक्वधान्यं तत्रैव व्रीहिशब्दस्य मुख्यत्वात् ।अन्यथा व्रीह्यपचारे शालिप्रतिनिधिविधानदर्शनं पृथगु-पादानञ्च नोपपद्येत यथा छन्दोगपरिशिष्टे का-त्यायनः “यथोक्तवस्त्वसम्पत्तौ ग्राह्यं तदनुकारि यत् ।यवानामिव गोधूमा व्रीहीणामिव शालयः” । “व्रीहयःशालयोमुद्गा गोधूमाः सर्षपास्तिलाः” । यवाश्चौषधयःसप्त्व विपदोघ्नन्ति धारिताः” । वामनपुराणे “हविषासंस्कृता ये तु यवगोधूमशाद्ययः । तिलमुद्गादयोमाषाव्रीहयश्च प्रिया हरेः” अतएव कामधेनुकृता आश्विन-मासीयतिथिकृत्ये नवान्नश्राद्धविषयं ब्रह्मपुराणवचनंलिखितं यथा “शुक्लपक्षे नवं धान्यं पक्वं ज्ञात्वासुशोभनम् । गच्छेत् क्षेत्री विधानेन गीतवाद्यपुरःसरम्”इत्यमिधाय “तेन देवान् पितॄंश्चैव तर्पयेदर्चयेत्तथा”इत्यस्मादेव वचनात् शुक्लपक्ष एवैतत् श्राद्धम् । वृश्चिकेब्रीहिपाकनिमित्तं श्राद्धं न स्यादिति चेन्न स्यादेवनवान्नागमनिमित्तन्तु तत् स्यादेवेति ब्रूमः”श्रा० त० रघुं उक्तं यथाअथ नवान्नश्राद्धम् । शातातपः “नवीदके नवान्ने चगृहप्रच्छादने तथा । पितरः स्पृहयन्त्यन्नमष्टकासु मघासुच” । नवोदके वर्षोपक्रमे । आर्द्रास्थरवाविति या-वत् “आर्द्रादितो विशाखान्तं रविचारेण वर्षति”इति ज्योतिर्वचनात् रविचारेण रविगत्या । “प्रावृ-ष्टकाले समायाते रौद्र ऋक्षगते रवौ । नाडीवेधसमा-योगे जलयोगं वदाम्यहम्” इति रुद्रयामलाच्च । रौद्र-मार्द्रा । नवान्ने नवान्नागमे अत्र “नक्षत्रग्रहपीडासुदुष्टस्वप्नावलोकने । इच्छाश्राद्धानि कुर्वीत नवशस्यागमेतथा” इति विष्णुपुराणाद्वक्ष्यमाणबहुतरबचनेषु नवान्न-श्रुतेर्नवान्नागमत्वेनैव निमित्तत्वं लाघवात् । अमावा-स्यास्तिस्रोऽष्टका माघी प्रौष्ठपद्यूर्द्ध्वं कृष्णत्रयोदशी व्रीहि-यवपाकौ च “एतांस्त श्राद्धकालान् वै नित्यानाहव्रजापतिः । श्राद्धमेतेष्वकुर्वाणो नरकं प्रतिपद्यते” इतिविष्णुवचनं नवान्नागमश्राद्धस्यैव व्रीहियवोभयप्राप्तिविष-यकत्वेन विघायकं ग्रैष्मादिधान्यव्युदासाय । शालि-धान्यस्य तु प्राप्तिः । “शरद्वसन्वयोः केचिन्नवयज्ञं प्रच-क्षते । धान्यपाकवशादन्ये श्यामाको वनिनः स्मृतः”इति छन्दोगपरिशिष्टे व्रीह्यप्राप्त्या नवशस्येष्टौ शा-लिविधानाद्यज्ञतुल्यन्यायात् श्राद्धेऽपि तथा कल्पनात् ।“वृश्चिके शुक्लपक्षे तु नवान्नं शस्यते बुधैः । अपरे क्रिय-माणं हि धनुष्येव कृतं भवेत् । धनुषि यत् कृतंश्राद्धं मृगनेत्रासु रात्रिषु । पितरस्तन्न गृह्णन्ति नवा-न्नामिषकाङ्क्षिणः” इति वराहवचनाच्च । श्यामाकोव्रीहिविशेषः । वनी वानप्रस्थः । अपरे कृष्णपक्षे ध-नुषि धनुःस्थार्के । “पौषे चैत्रे कृष्णपक्षे नवान्नंनाचरेद्बुधः । भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते”इति भोजराजवचनैकवाक्यत्वात् । एवञ्च सौरपौष-वत् चैत्रोऽपि सौर एव साहचर्य्यात् । अत्र धनुर्मीन-पर्य्युदासात् यबश्राद्धमुख्यकालपर्य्यन्तं माघफाल्गुन-वैशाखेष्वपि नवान्नश्राद्धं कार्यम् “एवमागामियागीय-मुख्यकालादधस्तनः । स्वकालादुत्तरो गौणः कालःपूर्वस्य कर्मणः । यद्वागामिक्रियामुख्यकालस्याप्यन्तरा-लवत् । गौणकालत्वमिच्छन्ति केचित् प्राक्तनकर्मणि”हरिहरपद्धतौ तथादर्शनात् । अधस्तनः वृक्षवच्छास्त्रेव्यवहारः । अन्तरालवत् मध्यकालस्येब । वस्तुतस्तुउत्तरक्रियामुख्यकालं विना उत्तरक्रियाकरणपूर्वकाल एवपूर्बक्रिया कर्त्तव्या । “संस्कारा अतिपत्येरन् स्वकाला-चेत् कथञ्चन । हुत्वैतदेव कुर्व्वीत ये तूपनयनादधः”इति छन्दोगपरिशिष्टात् संस्कारातिपाते तथा व्यवहा-रात् । अतएव श्राद्धविवेकेऽपि धनुषः पर्युदासान्माघादि-रिति सामान्यत उक्तम् । एवं यवश्राद्धमपि हरिशयनात्पूर्वं कर्त्तव्यम् “नवान्नं नै नन्दायां न च सुप्तेजनार्दने । न कृष्णपक्षे धनुषि तुलायां नैब कारयेत्”इति ज्योतिर्वचनात् “न च सुप्ते जनार्दने” इति आश्वि-नशुक्लपक्षेतपरम् आश्विनाधिकारे “शुक्लपक्षे नबं धान्यंपक्वं ज्ञात्वा सुशोमनम् । गच्छेत् क्षेत्री विधानेनगीतवाद्यपुरःसरम्” इत्यभिधाय “तेन देबान् पितॄंश्चैवतर्पयेदर्च्चयेत्तथा” इति ब्रह्मपुराणात् । मृगोनेता प्राप-कोयासां रात्रीणामिति व्युत्पत्त्या नक्षत्रान्नेतुरित्यने-नाजबिधानात तत्पदं सिद्धम् । ततश्च मृगशिरः-पूर्व्वार्द्धेन वृश्चिकशेषे रात्र्यारम्भात् चत्वारिंशद्दण्डाधि-कावशिष्टषड्रारात्रयो मृगनेत्रा इति । यथोक्तं ज्योतिषे“ज्येष्ठाशेषार्द्धगे सूर्ये मृगनेत्रानिशात्मके । नवान्नै-र्भोजनं श्राद्धं जन्मचन्द्रे तिथौ न च” अत्र जन्मति-थिनिषेधात् तथा “जन्मर्क्षतारं सितवासरञ्च” इतिजन्मर्क्षनिषेधाच्च “नन्दायां भार्गवदिने त्रयोदश्यांत्रिजन्मनि” इत्यत्र त्रिजन्मपदं जन्मचन्द्रतिथिनक्ष-त्रत्रिकपरं परवचने त्रिजन्मान्वित इत्यत्रापि तथा“सूर्ये चैव विशाखगे स्मरतिथौ पापे त्रिजन्मान्विते ।नन्दामन्दमहीजकाव्यदिवसे पौषे मधौ कार्त्तिके ।भेषूग्राहिशिवेषु विष्णुशयने कृष्णे शशिन्यष्टमे श्राद्धंभोजनकं “नवान्नविहितं पुत्रार्थनाशप्रदम्” । सूर्ये चैवविशाखगे मार्गशीर्षस्य विंशतिदण्डाधिकप्रथमदिनत्रया-वस्थिते सूर्ये । स्मरतिथौ त्रयोदश्यां पापे पञ्चमतारात्रयेनन्दा प्रतिपत् षष्ठी एकादशी मन्दः शनिः महीजीमङ्गलः काव्यः शुक्रः । उग्रगणः पूर्वात्रयमघाभरण्यः अ-हिरश्लेषा शिव आर्द्रा । भोजराजः “ब्राह्मे विष्णुवृह-स्पतौ शशधरे मार्त्तण्डपौष्णादितौ मैत्रे चित्रविशा-खवायुधनभे मूलाश्विवह्नौ तथा । शक्रे वारुण ऋक्षकेशुभदिने श्राद्धं नवं शस्यते नन्दाभार्गवभूमिजेषु नभवेत् श्राद्धं नवान्नोद्भवम्” । ब्राह्मादयः रोहिणीश्रवणपुष्य मृगशिरो हस्त रेवती पुनर्वसु अनुराधा चित्राविशाखा स्वाती धनिष्ठा मूलाश्विनी कृत्तिका ज्येष्ठाशतभिषाः । नवान्नश्राद्धे मूलाकृत्तिकाज्येष्ठाविधानात्त-च्छेषभक्षणप्राप्ते “अश्लेषा कृत्तिका ज्येष्ठा मूलाजपद-केषु च । भृगुभौमदिने रिक्ततिथौ नाद्यान्नवौदनम्”इति श्राद्धशेषाभोजिमात्रपरम् अजपदः पूर्वभाद्रपदः ।चन्द्रताराद्यशुद्धौ प्रतीकारमाह देवलः “कर्म कुर्य्यात्फलावाप्त्यै चन्द्रादिशोभने बुधः । सुस्थकाले त्विदं सर्वंनार्त्तः कालमपेक्षते । चन्द्रे च शङ्गं लवणञ्च तारेतिथावभद्रे सिततण्डुलांश्च । धान्यञ्च दद्यात् करण-र्क्षवारे योगे तिलान् हेममणिञ्च लग्ने” । ऋक्षमविहित-मक्षत्रं राजमार्त्तण्डे ताराभेदात् लवणपरिमाणमाह“एकत्रिपञ्चसप्त द्विजाय दद्यात् पलानि लवणस्य क्रमशोजन्मनि विपदिप्रत्यरिमरणाख्यतारकासु” । पलन्तु लौकिर्कर्मानैः साष्टरत्तिद्विमासकम् । तोलकत्रितयं ज्ञेयंज्योतिर्ज्ञैः स्मृतिसम्मतम्” वामनपुराणाच्च “विष्टयोव्यतिपाताश्च येऽन्येदुर्नीतसम्भवाः । ते नामस्मरणा-द्विष्णोर्नाशं यान्ति महात्मनः” विष्णुधर्मोत्तरे “सर्वा-शुभानां परिमोक्षकारि संपूजनं देववरस्य विष्णोः” इतिब्रह्मपुराणे “प्राश्नीयात् दधिसंयुक्तं नवं विप्राभिम-न्त्रितम्” अभिमन्त्रितम् “मन्त्रानादेशे गायत्री” इतिवचनाद्गायत्र्या । स्मृतिः “गृहीत्वा ब्राह्मणानुज्ञां सदधि-प्राशयेन्नवम्” अत्र व्रीह्यभावे शालिना, नूतनाभावे पुरा-तनेनापि श्राद्धादिकमाह भट्टभाष्ये स्मृतिः “गृहमेधीव्रीहियवाभ्यां शरद्वशन्तयोर्यजेत । श्यामाकैर्वनी वर्षासुआपत्कल्पे अन्येन पुरातनैर्वेति” । गृहंमेधीति मेधृ-मेधाहिंसयोः मेधृ सङ्गमे चेत्यत्र चकारेण पूर्वगणस्थमेधाहिंसयोरनुवृत्तेः तेन मेधृ हिंसार्थः तेन गृहनिमि-त्तेन जातायाः “पञ्चसूनागृहस्थस्य चुल्लीपेषण्युप-स्करः । कण्डनी चोदकुम्भश्च बध्यते याश्च वाहयन्”इति मनूक्तायाः पञ्चसूनारूपहिंसायाः कारी गृहमेधीगृहस्थ इत्यर्थः । सूदयन्ति प्राणैर्वियोजमन्तीति सूनाप्राणिबधस्थानानि चुल्लीपाकस्थानं पेषणी दृशदुपलादिःउपस्करः मृहसम्मार्जन्यादि कण्डनी मूषलोदूखलादियाश्च एताः सूना वाहयन् स्वस्वकार्ये योजयन् वध्यतेपापेन सम्बध्यते इत्यर्थः । श्राद्धचिन्तामणावप्येवम् ।प्रेतमातापितृकस्य पुरातनधान्यालाभे नवेनैव वैश्वदेवंकृत्वा नवञ्च ब्राह्मणेभ्यो दत्त्वा ब्राह्मणानुज्ञां गृहीत्वाभोजनादिकं कर्त्तव्यमाह रेणुकाचार्य्यनव्यवर्द्धमानधृतास्मृतिः “दत्त्वैवं ब्राह्मणेभ्यश्च हुत्वा वा वैश्वदेविकम् ।अन्योनवान्नमश्नीयादिति वौधायनोऽब्रवीत्” । अन्यःश्राद्धकरणासमर्थः श्राद्धानधिकारी च । अतएव विधवयानवमेकोद्दिष्टें दीयते भुज्यते चेति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
