| YouTube Channel

नववध्वागमनं (navavadhvAgamanaM)

 
शब्दकल्पद्रुमः
Sanskrit
नववध्वागमनं,
क्ली,
(नववध्वा आगमनम् ।)नवोढायाः प्रथमपतिगृहगमनम् तद्दिनं यथा, “स्त्रीशुद्ध्याजघटालिसंयुतरघौ काले विशुद्धे भृगुंसन्त्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशोचिते ।त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौ पतिःकुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः
एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे ।पतिना नीयमानायाः पुरः शुक्रो दुष्यति
”इति दीपिका
अन्यत् नववधूशब्दे द्रष्टव्यम्