| YouTube Channel

नववधूः (navavadhUH)

 
Apte Hindi
Hindi
नववधूः
पुं*
नव-वधूः -
नवविवाहिता लड़की
शब्दकल्पद्रुमः
Sanskrit
नववधूः,
स्त्री,
(नवा नूतना वधूः ।) नवोढा ।नवीना भार्य्या यथा, --“असम्भवद्घनरसा शतालिगणसेविता ।करं सहते राजन् ! भूमिर्न्नववधूरिव
”इति द्व्यर्थकाव्यम्
*
नववध्वागमनदिनं यथा तत्र अष्टमदशम-द्बादशषष्ठचतुर्थवर्षाणि निषिद्धानि (यदुक्तंज्योतिषे ।“श्वश्रुं हन्त्यष्टमे वर्षे श्वशुरञ्च दशाब्दिके ।संप्राप्तें द्वादशे वर्षे पतिं हन्ति द्विरागमे
विवाहमासि प्रथमं वध्वा नागमनं यदि ।तदा सर्व्वमिदं चिन्त्यं युग्माब्दादि विचक्षणैः
”)मासा मार्गफाल्गुनवैशाखा विहिताः पक्षःशुक्लः विहितनक्षत्राणि पुष्यस्वातीहस्ताधनि-ष्ठोत्तराषाढोत्तरफल्गुन्युत्तरभाद्रपदारेवतीमृग-शिरोरोहिणीपुनर्व्वसुपूर्व्वाषाढाः वाराः बृह-स्पतिबुधशुक्रसोमानाम् तिथयो यात्राप्रकर-णोक्ताः त्र्यहस्पर्शवारवेलादिक्शूलादीन् परि-त्यज्य ताराचन्द्रशुद्धौ कालशुचौ कार्य्यम्
इति ज्योतिषम्
अपि ।“स्वातीमूलपुनर्व्वसूत्तरकराश्चित्रानुराथाश्विनीरोहिण्यः श्रवणा द्बिरागमविधौ पुष्या धनिष्ठातथा ।भर्त्तुर्गोचरशोभने दिनपतौ काले पुनः शोभनेकुम्भाजालिरवौ शुभे शुभतिथौ वारादियात्रो-दिते
वैशाखे मार्गशीर्षे हि फाल्गुने हि शुभे रवौ ।नववध्वागमं कुर्य्यादन्यमासे विवर्ज्जयेत्
”इति मथुरेशचक्रवर्त्तिकृतसारसंग्रहः
(अन्यद्द्विरागमनशब्दे द्रष्टव्यम्
)