| YouTube Channel

नवलक्षण (navalakSaNa)

 
Schmidt Nachtrage zum Sanskrit Worterbuch
German
नवलक्षण Adj. (f. आ) auf neunfache Weise sich äußernd, Bhāg. P. 7, 5, 24.
वाचस्पत्यम्
Sanskrit
नवलक्षण
न०
नवमितं लक्षणम् विश्वसर्गस्थितिप्रलयाणामन्यतमस्य तत्तदुपादानगोचरापरोक्षज्ञानचिकीर्षा-कृतिमत्त्वानामन्यतमरूपेषु नवसु पारमेश्वरेषु लक्षणेषुतदेतत् वेदा० प० समर्थितं यथा“प्रकृते जगज्जन्मादिकारणत्वम् (तटस्य लक्षणम्) अत्रजगत्पदेन कार्यजातं विवक्षितम् कारणत्वञ्च कर्तृत्वम्अतोऽविद्यादौ नातिव्याप्तिः कर्त्तृत्वञ्च तत्तदु-पादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् ईश्वरस्यतावदुपादानगोचरापरोक्षज्ञानसद्भावे “यः सर्वज्ञःसर्ववित् यस्य ज्ञानमयं तपः तस्मादेतद् ब्रह्म नाम रूप-मन्नञ्च जायते” इत्यादि श्रुतिर्मानम् तादृशचिकीर्षासद्भावे “सोऽकामयत बहु स्यां प्रजायेति” श्रुतिर्मानम् ।तादृशकृतौ “तन्मनोऽकुरुतेत्यादि” वाक्यम् ज्ञाने-च्छाकृतीनामन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथाव्यर्थविशेषणापत्तेः अतएव जन्मस्थितिध्वंसानामन्य-तमस्यैव लक्षणे प्रवेशः एवञ्च लक्षणानि नव सम्पद्यन्तेब्रह्मणो जगज्जन्मादिकारणत्वे “यतोवा इमानि भू-तानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसं-विशन्तीत्यादि” श्रुतिर्म्मानम् “जन्माद्यस्य यतोऽन्वयादि-तरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा आदिकवयेमुह्यन्ति यत् सूरयः” भाग० श्लोकस्य प्रतिपा-द्यार्थसंग्राहकः श्रीधरस्वामिकृतः श्लोको यथा “विश्व-सर्गविसर्गादिनवलक्षणलक्षितम् श्रीकृष्णाख्यं परंधाम जगद्धाम नमामि तत्”