नवरत्नं (navaratnaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनवरत्नं, (नवानां रत्नानां समाहारः ।)नवप्रकारमणयः । तद्यथा, --“मुक्तामाणिक्यवैदूर्य्यगोमेदान् वज्रविद्रुमौ ।पद्मरागं मरकतं नीलञ्चेति यथाक्रमात् ॥
”इति तन्त्रसारः ॥
(यथा च, --“वज्रञ्च मौक्तिकञ्चैव माणिक्यं नीलमेव च ।तथा मरकतं ज्ञेयं महारत्नानि पञ्चधा ॥
गोमेदः पद्मरागञ्च वैदूर्य्यञ्च प्रवालकम् ।चत्वारि उपरत्नानि नवरत्नमिदं स्मृतम् ॥
”“रत्नं गारुत्मतं पुष्पं रागो माणिक्यमेव च ।इन्द्रनीलश्च गोमेदस्तथा वैदूर्य्यमित्यपि ॥
मौक्तिकं विद्रुमश्चेति रत्नान्युक्तानि वै नव ॥
रत्नं हीरा । गारुत्मतं पान्ना । माणिक्यं पद्म-रागः । इन्द्रनीलः नीला ।” इति भावप्रकाशस्यपूर्व्वखण्डे प्रथमे भागे ॥
) नवग्रहदोषशान्त्यैधार्य्याणि नव रत्नानि यथा, --“वैदूर्य्यं धारयेत् सूर्य्ये नीलञ्च मृगलाञ्छने ।आवनेयेऽपि माणिक्यं पद्मरागं शशाङ्कजे ॥
गुरौ मुक्तां भृगौ वज्रं शनौ नीलं विदुर्बुधाः ।राहौ गोमेदकं धार्य्यं केतौ मरकतन्तथा ॥
”इति दीपिका ॥
विक्रमादित्यराजसभास्थनवसंख्यकपण्डिताः ।यथा, --“धन्वन्तरिक्षपणकामरसिंहशङ्कु-वेतालभट्टधटकर्परकालिदासाः ।ख्यातो वराहमिहिरो नृपतेः सभायांरत्नानि वै वररुचिर्नव विक्रमस्य ॥
”इति नवरत्नम् ॥
नव श्लोकाः । यथा, --“मित्रमर्थी तथा नीतिर्धर्म्मकार्पण्यमूर्खकाः ।स्त्रीणां विद्वान् तथोत्खातान् नवरत्नमिदंक्रमात् ॥
मित्रं स्वच्छतया रिपुं नयबलैर्लुब्धं धनैरीश्वरंकार्य्येण द्विजमादरेण युवतीं प्रेम्णा समै-र्बान्धवान् ।अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभिर्बुधंविद्याभी रसिकं रसेन सकलं शीलेन कुर्य्याद्-वशम् ॥
१ ॥
अर्थी लाघवमुच्छ्रितो निपतनं कामातुरोलाञ्छनंलुब्धोऽकीर्त्तिमसङ्गरः परिभवं दुष्टोऽन्य दोषेरतिम् ।निःस्वो वञ्चनमुन्मना विकलतां शोकाकुलःसंशयंदुर्वागप्रियतां दुरोदरवशः प्राप्नोति कष्टंमुहुः ॥
२ ॥
नीतिर्भूमिभुजां नतिर्गुणवतां ह्नीरङ्गनानां धृति-र्दम्पत्योः शिशवो गृहस्य कविता बुद्धेः प्रसादोगिराम् ।लावण्यं वपुषः स्मृतिः सुमनसां शान्तिर्द्विजस्यक्षमाशक्तस्य द्रविणं गृहाश्रमवतां स्वास्थ्यं सतांमण्डनम् ॥
३ ॥
धर्म्मः प्रागेव चिन्त्यः सचिवमतिगतिर्भावनीयासदैवज्ञेयं लोकानुवृत्तं वरचरनयनैर्मण्डलं वीक्ष-णीयम् ।प्रच्छाद्यौ रागरोषौ मृदुपरुषगुणौ योजनीयौच कालेआत्मा यत्नेन रक्ष्यो रणशिरसि पुनः सोऽपिनापेक्षणीयः ॥
४ ॥
कार्पण्येन यशः क्रुधा गुणचयो दम्भेन सत्यं क्षुधामर्य्यादा व्यसनैर्धनानि विपदा स्थैर्य्यं प्रमादै-र्द्विजः ।पैशुन्येन कुलं मदेन विनयो दुश्चेष्टया पौरुषंदारिद्र्येण जनादरो ममतया चात्मप्रकाशोहतः ॥
५ ॥
मूर्खो शान्तस्तपस्वी क्षितिपतिरलसो मत्सरोधर्म्मशीलोदुःस्थो मानी गृहस्थः प्रभुरतिकृपणः शास्त्र-विद्धर्म्महीनः ।आज्ञाहीनो नरेन्द्रः शुचिरपि सततं यः परा-न्नोपभोगीवृद्धो रोगी दरिद्रः स च युवतिपतिर्धिग्विडम्ब-प्रकारम् ॥
६ ॥
स्त्रीणां यौवनमर्थिनामनुगमो राज्ञां प्रतापःसतांसत्यं स्वल्पधनस्य सञ्चितिरसद्वृत्तस्य वाग्-डम्बरः ।साचारस्य मनोदमः परिणतेर्विद्या कुलस्यैकतासेवाया धनमुन्नतेर्गुणचयः शान्तेर्विवेकोबलम् ॥
७ ॥
विद्बान् संसदि पाक्षिकः परवशो मानी दरिद्रोगृहीवित्ताढ्यः कृपणः सुखी परवशो वृद्धो नतीर्थाश्रितः ।राजा दुःसचिवः प्रियः कुलभवो मूर्खः पुमां-स्त्रीजितःवेदान्ती हतसत्क्रियः किमपरं हास्यास्पदंभूतले ॥
८ ॥
उत्खातान् प्रतिरोपयन् कुसुमितांश्चिन्वन्शिशून् वर्द्धयन्प्रोत्तुङ्गान् नमयन् नतान् समुदयन् विश्लेषयन्संहतान् ।तीव्रान् कण्टकिनो बहिर्नियमयन् ग्लानान्मुद्दुः सेचयन्मालाकार इव प्रयोगनिपुणो राजा चिरंनन्दतु ॥
९ ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
