| YouTube Channel

नवमी (navamI)

 
Spoken Sanskrit
English
नवमी navamI
f.
ninth
नवमी navamI
f.
9th day of a lunar half-month
Monier Williams Cologne
English
नवमी॑ (ई),
f.
(sc. तिथि) the 9th day of a lunar half-month.
Apte Hindi
Hindi
नवमी
स्त्री*
- -
चान्द्रमास के पक्ष का नवाँ दिन
Shabdartha Kaustubha
Kannada
नवमी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಒಂಬತ್ತನೆಯ
निष्पत्तिः - > "डट्" (५-२-४८) - डटो मडागमः (५-२-४९) - "ङीप्" (४-१-१५)
व्युत्पत्तिः - > नवानां पूरणः
L R Vaidya
English
navama {% a. (f. मी) %} The ninth.
navamI {% f. %} The ninth day of a lunar fortnight.
Wordnet
Sanskrit
Synonyms:
नवमी
noun
चान्द्रमासस्य कस्यापि पक्षस्य नवतमा तिथिः।
"अद्य कृष्णपक्षस्य नवमी अस्ति।"
Sanskrit Tibetan
Tibetan
dgu po
१) नवम २) नवमी ३) शूर्पक
शब्दकल्पद्रुमः
Sanskrit
नवमी,
स्त्री,
(नवम + टित्त्वात् ङीप् ।) तिथि-विशेषः सा चन्द्रस्य नवमकलाक्रियारूपा ।शुक्लपक्षे कृष्णपक्षे २४ पञ्जिकाकारसङ्केतेनएतदङ्कबोधिता
अथ नवमीव्यवस्था “साचाष्टमीयुता ग्राह्या युग्मात् भविष्ये ।‘मासैश्चतुर्भिर्यत् पुण्यं विधिना पूज्य चण्डिकाम् ।तत् फलं लभते वीर नवम्यां कार्त्तिकस्य
’तथा भविष्ये ।‘माघे मासि तु या शुक्ला नवमी लोकपूजिता ।महानन्देति सा प्रोक्ता सदानन्दकरी नृणाम्
स्नानं दानं जपो होमो देवार्च्चनमुपोषणम् ।सर्व्वं तदक्षयं प्रोक्तं यदस्यां क्रियते नरैः
’तथा कालिकापुराणम् ।‘नवम्यां नववर्षाणि राजन् ! पिष्टाशनो भवेत् ।तस्य तुष्टा भवेद्गौरी सर्व्वकामप्रदा शुभा
’अद्येत्यादि नवम्यान्तिथावारभ्य नव वर्षाणियावत् प्रतिशुक्लनम्यां पिष्टेतरभोजननिवृत्ति-व्रतमिति सङ्कल्पे विशेषः सर्व्वकामप्रदगौरी-तोषः फलम् ।” इति तिथितत्त्वम्
श्रीराम-नवमीव्यवस्था तच्छब्दे द्रष्टव्या
*
इयं दुर्गा-तिथिः तत्र तस्याः पूजा कर्त्तव्या यथा, --ब्रह्मोवाच ।“इयं देवी वरारोहा यातु शैलं हिमाचलम् ।तत्र यूयं सुराः सर्व्वे गत्वा नन्दत माचिरम्
नवम्याञ्च सदा पूज्या इयं देवी समाधिना ।वरदा सर्व्वलोकानां भविष्यति संशयः
नवम्यां यश्च पिष्टाशी भविष्यति हि मानवः ।नारी वा तस्य सम्पन्नं भविष्यति मनोगतम्
”इति वराहपुराणम्
कार्त्तिकशुक्लनवम्यां जगद्धात्रीपूजाप्रमाणानियथा, --“प्रपूजयेज्जगद्धात्रीं कार्त्तिके शुक्लपक्षके ।दिनोदये मध्याह्ने सायाह्ने नवमेऽहनि
”इति मायातन्त्रे १७ पटलः
“कुम्भराशिगते चन्द्रे नवम्यां कार्त्तिकस्य ।उषस्यर्द्धोदितो भानुर्द्दुर्गामाराध्य यत्नवान्
पुत्त्रारोग्यधनं लेभे लोकसाक्षित्वमेव ।तां तिथिं प्राप्य मनुजः शनिभौमदिने यदि ।प्रपूजयेन्महादुर्गां धर्म्मकामार्थमोक्षदाम्
”इति कात्यायनीतन्त्रे ७८ पटलः
“कार्त्तिके शुक्लपक्षे तु त्रेतायाः प्रथमेऽहनि ।त्रिसन्ध्यं पूजयेद्देवीं दुर्गां सम्पत्प्रवृद्धये
”इत्युत्तरकामाख्यातन्त्रे ११ पटलः
अथ नवमीजातफलम् यथा, कोष्ठीप्रदीपे ।“विरोधकर्त्ता सुजनैरगम्यःपरापकारार्थमतिः कुशीलः ।आचारहीनः कृपणः कठोरःप्रसूतिकाले नवमी यदि स्यात्