नवबधू (navabadhU)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritनवव(ब)धू स्त्री कर्म० । नूतनपरिणीतायां स्त्रियां तस्याःपितृगृहात् भर्त्तृगृहगमनं नघवध्वागमनं तत्र विहितनक्षत्रादि ज्यो० त० उक्तं यथादीपिकायां “स्त्रीशुद्ध्यालिघटाजसंयुगरवौ कालेविशुद्धे भृगुं संत्यज्य प्रतिलोमगं शुभदिने यात्राप्रवेशो-चिते । त्यक्त्वाहस्तु निरंशकं नववधूयात्राप्रवेशौपतिः कुर्य्यादेकपुरादिषु प्रतिभृगोर्नेच्छन्ति दोषं बुधाः ।पैत्रागारे कुचकुसुमयोः सम्भवो वा यदि स्यात् कालःशुद्धो न भवति यदा सम्मुखो बापि शुक्रः । मेषे कुम्भेऽलिनि च न भवेत् भास्करश्चेत्तथापि स्वामी भद्रेऽहनिनववधूं वेशयेन्मन्दिरं स्वम् । भर्त्तुर्गोचरशोभने दिनपतौनास्तंगते भार्गवे सूर्ये कीटघटाजगे शुभदिने पक्षे चकृष्णेतरे । हित्वा च प्रतिलोमगौ बुधसितौ जीवस्य शुद्धौतथा चानीता गुणशालिनी नववधूर्नित्योत्सवा मोदते ।एकग्रामे चतुःशाले दुर्भिक्षे राष्ट्रविप्लवे । पतिना नीयमा-नायाः पुरः शुक्रो न दुष्यति” । तथा “काश्यपेषु वशि-ष्ठेषु भृग्वादित्याङ्गिरःसुच । भरद्वाजेषु वात्स्येषु प्रति-शुक्रो न दोष माक्” । द्विरागमनशब्देऽधिकं दृश्यम् ।अत्र विशेषः मुहू० पी० धा० उक्तो यथा“समाद्रिपञ्चाङ्कदिने विवाहाद्वधूप्रवेशोऽष्टिदिनान्तराले ।शुमः परस्ताद्विषमाब्दमासदिनेऽक्ष ५ वर्षात्परतो यथेष्टम्” ।“ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले । वधूपवेशः सन्नेष्टोरिक्तारार्के बुधे परैः” मु० चि० ।“तत्र बधूप्रवेशोनाम नूतनपरिणीतायाः कन्यायाः प्रथ-मतः करिप्यमाणो भर्तृगृहप्रवेशो वधूप्रवेशशब्दवाच्यः ।समाद्रीति विवाहाद्विवाहदिवसादारभ्याष्टिदिनानिषोडशदिनानि तेषामन्तराले समाद्रिपञ्चाङ्कदिने समदि-नानि द्वितीयचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशसंख्य-कानि विषममध्ये सप्तमपञ्चमनवमदिनानि तेषु वधूप्रवेशःबध्वा नूतनपरिणीतायाः कन्याया भर्तृगृहप्रवेशः शुभःशुभफलप्रदः । यदाह नारदः “आरभ्योद्वाहदिवगात् षष्ठेवाप्यष्टमे दिने । वधूप्रवेशः सम्पत्त्यै दशमेऽथ समे दिने” ।षष्ठादीनां समत्वादेव ग्रहणे पुनस्तदुक्तिरतिप्राशस्त्यसूच-नार्थम् । ज्योतिर्निबन्धे तु विशेषः “वधूप्रवेशनं कार्म्यंपञ्चमे सप्तमे दिने । नवमे च शुभे वारे सुलग्ने शशि-नोवले” इति । परस्तात् प्रतिबन्धकवशात् षोडशदिना-भ्यन्तरे यदि वधूप्रवेशी न जातस्तदा तदनन्तरं विषमाव्द-मासदिने विषमवर्षे प्रथमतृतीयपञ्चमवर्षे विषम-मासे विवाहमासात् प्रथमतृतीयपञ्चमसप्तमनवमैकादश-मासेषु विषमदिनानि सप्तदशादीनि तेषु वधूप्रवेशः शुभः ।तत्रापि यदि प्रतिबन्धकवशात्कालातिक्रमः पञ्चवर्षात्मकोजातस्तदा पञ्चवर्षादनन्तरं यथेष्टं वर्षादिनियमो नास्तिकिन्तु दोषरहिते काले वधूप्रवेशो विधेयः । तदुक्तंसंग्रहे “विवाहमारभ्य वधूप्रवेशो युग्मे दिने षोडश-वासरान्तः । ऊर्द्ध्वं ततोऽवदेऽयुजि पञ्चमान्तं पुनःपरस्तान्नियमो न चास्ति” । अत्राव्देऽयुजीति पदच्छेदोद्रष्टव्यः । तदुक्तं विवाहपटले “वधूप्रवेशः प्रथमेऽत्र वर्षेतथा तृतीयेऽप्यथ पञ्चमे वा । सूर्य्येन्दुदेवेज्यबलेनकुर्य्यात् पुंसो मुनिर्गौतम आह सत्यमिति” । समवर्षेदोषस्मरणाच्च यदाह धर्मशास्त्रे नारदः “समे वर्षे समेमासे यदि नारीगृहं व्रजेत् । आयुष्यं हरते भर्तुःसा नारी मरणं व्रजेदिति” । युग्मवत्सरनिषेधः पञ्च-वर्षात् प्राग्ज्ञेयो न पश्चात्तद्वाक्यस्य प्रागभिधानात् ।अथ वधूप्रवेशे नक्षत्रादि ध्रुवेति । ध्रुवाणि रोहिण्युत्तरा-त्रयं च क्षिप्राणि अश्विनीपुष्यहस्ताः मृदूनि चित्रा-नुराधारेवती मृगः । श्रोत्रं श्रवणः वसुर्धनिष्ठा मूलंप्रसिद्धम् । अनिलः स्वाती एषु भेषु वधूप्रवेशः सन्शुभफलदः । रिक्तादिषु नेष्टः न शुभः अर्थात् रिक्ता-न्यासु तिथिषु अर्काराभ्यामन्यवारेषु च वधूप्रवेशःप्रशस्त इत्यर्थः । उक्तञ्च त्यवहारतत्त्वे “पौष्णात्कभाच्च श्रवणाच्च युग्मे हस्तत्रये मूलमघोत्तरासु ।पुष्ये च मैत्रे च वधूप्रवेशो रिक्तेतरे व्यर्ककुजे च शस्तः”इति । कभं रोहिणी । बुधे परैरिति अन्यैः शिष्टै-र्बुधवारे वधूप्रवेशो नेष्यते । कस्मिंश्चिद्देशे शिष्टाचारोयद्बुधवारे वधूप्रवेशो न विथीयते इति । केचिदत्र हेतु-मपि वर्णयन्ति यद्बुधो नपुंसक इति तच्चिन्त्यं शनेरषिनपुंसकत्वात्तस्यापि निषेधो वाच्यः स्यात्” पी० धा० ।विवाहानन्तरं केषु चिन्मासेषु प्रथमं भर्त्त्रादिगृहे निवासेफलम् तत्रैवोक्तं यथा“ज्यैष्ठे पतिज्येष्ठमथाधिके पतिं हन्त्यादिमे भर्तृगृहेबधूः शुचौ । श्वश्रूं सहस्ये श्वशुरं क्षये तनुं तातं मधौ-तातगृहे विवाहतः” मु० चि० ।“विवाहतो विवाहादनन्तरं भर्तृगृहे स्थिता आदिमेप्रथमे ज्यैष्ठे मासि तिष्ठन्ती बधूः पतिज्येष्ठं भर्तृ-ज्येष्ठभ्रातरं हन्ति । एवमादिमेऽधिके मासि स्थितावधूः पतिं भर्त्तारं हन्ति । आदिमे शुचावाषाढे श्वश्रूभर्तुः जननीं हन्ति । आदिमे पौषे श्वशुरं भर्तृःपितरं हन्ति आदिमे क्षये क्षयमासे भर्तृगृहे तिष्ठन्तीतनुं निजशरीरं हन्ति म्रियग इत्यर्थः । तथादिमे मधौचैत्रे तातगृहे पितृगृहे तिष्ठन्ती तातं पितरं हन्तीत्यर्थः । यदि कन्यायाः पित्राद्यभावस्तदा तत्तन्मासेतत्तद्गेहावस्थितौ सत्यामपि न कोपि दोष इत्यर्थः ।उक्तञ्च मुहूर्त्तमार्त्तण्डे “उद्वाहात् प्रथमे शुचौ यदिवसेत् भर्तुर्गृहे कन्थका हन्यात्तज्जननीं क्षये निजतनुंज्यैष्ठे पतिज्येष्ठकम् । पौषे च श्वशुरं पतिं च मलिभेचैत्रे स्वपित्रालये तिष्ठन्ती पितरं निहन्ति न भयं तेषा-नभावे भवेदिति” । भलिनेऽधिकमासे तस्मान्नवबध्या विवा-हानन्तरं ज्यैष्ठाषाढपौषाधिकमासक्षयमासेषु भर्त्तृगृहेन स्थातव्यम् । चैत्रे मासि पितुगृहे न स्थातव्यं किन्तुभर्तृगृहे एव स्थातव्यमिति फलितोऽर्थः । तदुक्तंज्योतिर्निबन्धे “विवाहात् प्रथमे पौषे आषाढे नाधि-मासके । न सा भर्तृगृहे तिष्ठेच्चैत्रे पितृगृहे तथा” ।आषाढो ज्यैष्ठोपलक्षकः । अधिमासः क्षयमासोपलक्षकःअत्र प्रमाणं प्रागुक्तमिति” पी० धा० ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
