| YouTube Channel

नवनीतधेनुः (navanItadhenuH)

 
शब्दकल्पद्रुमः
Sanskrit
नवनीतधेनुः,
स्त्री,
(नवनीतेन कृता धेनुः ।मध्यपदलोपिकर्म्मधारयः ।) दानार्थकृतनव-नीतमयधेनुविशेषः यथा, --“नबनीतमयीं धेनुं शृणु राजन् ! प्रयत्नतः ।यां श्रुत्वा सर्व्वपापेभ्यो मुच्यते नात्र संशयः
गोमयेनानुलिप्तायां भूमौ गोचर्म्ममात्रतः ।कृष्णचर्म्ममृगस्यैव तस्योपरि धारयेत्
कुम्भन्तु नवनीतस्य प्रस्थमात्रस्य धारयेत् ।वत्सं चतुर्थभागस्य तस्या उत्तरतो न्यसेत्
कृत्वा विधानेन राजसिंह-सुवर्णशृङ्गी सुमुखी कार्य्या ।नेत्रे तस्या मणिमौक्तिकैस्तुकृत्वा तथान्यच्च गुडेन जिह्वाम्
ओष्ठौ पुष्पैश्च फलैश्च दन्ताःप्रकल्प्य सास्नाञ्च सितैश्च सूत्रैः
नवनीतस्तनीं राजन्निक्षुपादां प्रकल्पयेत् ।ताम्रपृष्ठीं कांस्यदोहां दर्भरोमकृतच्छवीम्
स्वर्णशृङ्गीं रौप्यखुराम् पञ्चरत्नसमन्विताम् ।चतुर्भिस्तिलपात्रैस्तु संयुतां सर्व्वतो दिशः
आच्छाद्य वस्त्रयुग्मेन गन्धपुष्पैरलङ्कृतम् ।दिक्षु दीपांश्च प्रज्वाल्य ब्राह्मणाय निवेदयेत्
वेदवेदाङ्गविदुषे आहिताग्निर्ज्जितात्मवान् ।मन्त्रास्त एव जप्तव्याः सर्व्वधेनुषु ये स्मृताः
पुरा देवासुरैः सर्व्वैः सागरस्य तु मन्थने ।उत्पन्नं दिव्यममृतं नवनीतमिदं शुभम्
आप्यायनञ्च भूतानां नवनीत ! नमोऽस्तु ते ।एवमुच्चार्य्य तां दद्यात् ब्राह्मणाय कुटुम्बिने
घेनुञ्च दत्त्वा सुमुदां सोपधानांनयेद्गृहं विप्रवर्य्यस्य भूयः ।हविष्यमेव सरसञ्चोपभुक्त्वातिष्ठेद्दिनं धेनुदस्त्रीणि विप्रः
यः प्रपश्यति तां धेनुं दीयमानां नरोत्तम ।सर्व्वपापविनिर्मुक्तः शिवसायुज्यतां व्रजेत्
पितृभिः पूर्व्वजैः सार्द्धं भविष्यद्भिश्च मानवः ।विष्णुलोकं व्रजत्याशु यावदाहूतसंप्लवम्
इदं शृणुयाद्भक्त्या श्रावयेद्बापि मानवः ।सर्व्वपापविशुद्धात्मा विष्णुलोके महीयते
”इति वराहपुराणम्