नवनीतं (navanItaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनवनीतं, (नवं नीयतेऽनेनेति । नी + क्तः ।)गव्यविशेषः । माखन् इति ननी इति च भाषा ।तत्पर्य्यायः । नवोद्धृतम् २ । इत्यमरः । २ । ९ ।५२ ॥
सरजम् ३ मन्थजम् ४ हैयङ्गवीनम् ५ ।इति रत्नमाला ॥
दधिजम् ६ सारम् ७ हैयङ्ग-वीनकम् ८ । अस्य सामान्यगुणाः । शीतत्वम् ।वर्णबलावहत्वम् । सुमधुरत्वम् । वृष्यत्वम् ।संग्राहकत्वम् । कफरुचिकारकत्वम् । वातसर्व्वा-ङ्गशूलकाशश्रमनाशित्वम् । सुखकरत्वम् । कान्तिपुष्टिप्रदत्वम् । चक्षुष्यत्वम् । सर्व्वदोषापहर-त्वञ्च ॥
* ॥
नवोद्भवगव्यमाहिषनवनीतगुणाः ।बालवृद्धानां प्रशस्तत्वम् । बलकारित्वम् । वात-बर्द्धनत्वञ्च ॥
* ॥
माहिषनवनीतगुणाः । कषा-यत्वम् । मधुरत्वम् । शीतत्वम् । वृष्यत्वम् ।बल्यत्वम् । ग्राहित्वम् । पित्तघ्नत्वम् । तुन्दद-त्वञ्च ॥
* ॥
छागनवनीतगुणाः । क्षयकाश-नेत्रामयकफनाशित्वम् । बल्यत्वम् । दीपन-त्वञ्च ॥
* ॥
आविकनवनीतगुणाः । हिमत्वम् ।लघुत्वम् । योनिशूले कफे वाते गुदशूले हित-त्वञ्च ॥
* ॥
ऐडकनवनीतगुणाः । क्लिष्टगन्ध-त्वम् । शीतलत्वम् । मेधानाशित्वम् । गुरुत्वम् ।पुष्टिस्थौल्यकारित्वम् । मन्दाग्निदीपनत्वञ्च ॥
* ॥
हस्तिनीनवनीतगुणाः । कषायत्वम् । शीतलत्वम् ।लघुत्वम् । तिक्तत्वम् । विष्टम्भित्वम् । जन्तुपित्त-कफकृमिनाशित्वञ्च ॥
* ॥
अश्वीनवनीतगुणाः ।कषायत्वम् । कफवातनाशित्वम् । चक्षुष्यत्वम् ।कटुत्वम् । उष्णत्वम् । ईषद्वातापहारकत्वञ्च ॥
गर्द्दभीनवनीतगुणाः । कषायत्वम् । कफवात-नाशित्वम् । बल्यत्वम् । दीपनत्वम् । पाके लघु-त्वम् । मूत्रदोषनाशित्वञ्च ॥
* ॥
औष्ट्रनवनीत-गुणाः । पाके शीतलत्वम् । व्रणक्रिमिकफास्र-वातनाशित्वफ्व ॥
* ॥
नारीनवनीतगुणाः ।रुच्यत्वम् । पाके लघुत्वम् । चक्षुष्यत्वम् । दीप-नत्वम् । सर्व्वरोगविषनाशित्वश्च ॥
* ॥
अथ साधारणनवनीतगुणाः ।“शीतं रुच्यनवोद्धृतं सुमधुरं वृष्यञ्च वातापहंकासघ्नं क्रिमिनाशनं कफहरं संग्राहि शूला-पहम् ।बल्यं पुष्टिकरं तृषार्त्तिशमनं सन्तापविच्छेदनंचक्षुव्यं श्रमहारि तर्पणकरं दध्युद्भवं पित्तजित् ॥
एकाहाध्युषितं प्रोक्तमुत्तरोत्तरगन्धदम् ।अरुच्यं सर्व्वरोगाढ्यं दधिजं तद्धितं स्मृतम् ॥
”इति राजनिर्घण्टः ॥
अपि च । गव्यनतनीतगुणाः ।“नवनीनं हितं गव्यं वृष्यं वर्णमलाग्निकृत् ।संग्राहि वातपित्तासृक् क्षयार्शोऽर्द्दितकासहृत् ॥
तद्धितं बालके वृद्धे विशेषादमृतं शिशोः ॥
” * ॥
माहिषनवनीतगुणाः ।“नवनीतं महिष्यास्तु वातश्लेष्मकरं गुरु ।दाहपित्तश्रमहरं मेदःशुक्रविवर्द्धनम् ॥
”अथ पयसो नवनीतस्य गुणाः ।“दुग्धोत्थं नवनीतन्तु चक्षुष्यं रक्तपित्तनुत् ।वृष्यं बल्यमतिस्निग्धं मधुरं ग्राहि शीतलम् ॥
”अथ सद्यःसमुद्धृतनवनीतगुणाः ।“नवनीतञ्च सद्यस्कं स्वादु ग्राहि हिमं लघु ।मेध्यं किञ्चित् कषायाम्लमीषत्तक्रांशसंक्रमात् ॥
”अथ चिरन्तननवनीतगुणाः ।“सक्षारकटुकाम्लत्वाच्छर्द्यर्शःकुष्टकारकम् ।श्लेष्मलं गुरुमेदस्यं नवनीतं चिरन्तनम् ॥
”इति भावप्रकाशः ॥
“नवनीतं नवं वृष्यं ग्राहि वर्णबलाग्निकृत् ।चक्षुष्यं बृंहणं स्निग्धं ग्रहण्यर्शोविकारनुत् ॥
क्षीरोत्थितं हिमं ग्राहि रक्तपित्ताक्षिरोगनुत् ॥
”इति राजवल्लभः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
