| YouTube Channel

नवनवक (navanavaka)

 
वाचस्पत्यम्
Sanskrit
नवनवक
न०
नवगुणितं नवकम् दक्षसंहितोक्ते ज्ञातव्येएकाशीतिपदार्थे“सुधा नव गृहस्थस्येषद्देयानि नवैव तु तथैव नव-कर्माणि विकर्माणि तथा नव प्रच्छन्नानि नवान्यानिप्रकाश्यानि तथा नव सफलानि नवान्यानि निष्फलानिनवैव तु अदेयानि नवान्यानि वस्तुजातानि सर्वदा ।नवका नव निर्दिष्टा गृहस्थोन्नतिकारकाः सुधा वस्तूनिवक्ष्यामि विशिष्टे गृहमागते मनश्चक्षुर्मुखं वाचंसौम्यं दद्याच्चतुष्टयम् अभ्युत्थानमिहागच्छ पृच्छा-लापप्रियान्वितः उपासनमनुव्रज्या कार्य्याण्येतानियत्नतः ईषद्दानानि चान्यानि भूमिरापस्तृणानि ।पादशौचं तथाभ्यङ्ग आश्रयः शयनन्वथा किञ्चिच्चान्नंयथाशक्ति नास्यानश्नन् गृहे वसेत् मृज्जलं चार्थिनेदेयमेतान्यपि सदा गृहे सन्ध्या स्नानं जपो होमःस्वाध्यायो देवतार्चनम् वैश्वदेवं तथातिथ्यमुद्धृतञ्चापिशक्तितः पितृदेवमनुष्याणां दीनानाथतपस्विनाम् ।मातापितृगुरूणाञ्च संविभागो यथार्हतः एतानिनव कर्माणि विकर्माणि तथा पुनः अनृतं पारदार्य्यञ्चतथाऽभक्ष्यस्य भक्षणम् अगम्यागमनापेयपानं स्तेयञ्चहिंसनम् अश्रौतकर्माचरणं स्मार्त्तधर्मबहिष्कृतम् ।नवैतानि विकर्माणि तानि सर्वाणि वर्जयेत् आयुर्वित्तंगृहच्छिद्रं मन्त्रमैथुनभेषजम् तपोदानावमानौ चनव गोप्यानि यत्नतः प्रायोग्यमृणशुद्धिश्च दानाध्ययन-विक्रयाः कन्यादानं वृषोत्सर्गोरहःपापमकुत्सनम् ।प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तधा माता-पित्रोर्गुरौ मित्रे विनीते चोपकारिणि दीनानार्थ-विशिष्टेभ्यो दत्तन्तु सफलं भवेत् धूर्त्ते वन्दिनि मन्देच कुवैद्ये कितवे शठे चाटुचारणचौरेभ्यो दत्तंभवति निष्फलम् सामान्यं याचितं न्यास आधि-र्दाराश्च तद्धनम् क्रमायातञ्च निक्षेपः सर्वस्वञ्चान्वयेसति आपत्स्वपि देयानि नव वस्तूनि सर्वदा योददाति मूढात्मा प्रायश्चित्तीयते नरः नवनवक-येत्तारमनुष्ठानपरं नरम् इह लोके परे श्रीःस्वर्गस्थञ्च मुञ्चति”