| YouTube Channel

नवग्रहाः (navagrahAH)

 
Apte Hindi
Hindi
नवग्रहाः
पुं*
नवन्-ग्रहाः -
नौ ग्रह
Wordnet
Sanskrit
Synonyms:
नवग्रहाः
noun
सूर्यः चन्द्रः मङ्गलः बुधः गुरुः शुक्रः शनिः राहुः तथा केतुः इति फलितज्योतिषानुसारेण नवग्रहाः।
"यज्ञसमाप्तेः अनन्तरं नवग्रहाणां शान्त्यर्थे पूजनं कृतम्।"
शब्दकल्पद्रुमः
Sanskrit
नवग्रहाः,
पुं,
(नव ग्रहाः ।) सूर्य्यादयो नव ।यथा, तिथितत्त्वे ।“नवग्रहमखं कृत्वा ततः कर्म्म समारभेत् ।अन्यथा फलदं पुंसां काम्यं जायते क्वचित्
”(यथा च, --“सूर्य्यश्चन्द्रो मङ्गलश्च बुधश्चापि बृहस्पतिः ।शुक्रः शनैश्चरो राहुः केतुश्चेति नवग्रहाः
”)तेषां संस्थानम् यथा, --“भूमेर्योजनलक्षे तु सौरं मैत्रेय ! मण्डलम् ।लक्षे दिवाकरस्यापि मण्डलं शशिनः स्थितम्
पूर्णे शतसहस्रे तु योजनानां निशाकरात् ।नक्षत्रमण्डलं कृत्स्नमुपरिष्टात् प्रकाशते
द्विलक्षे चोत्तरे ब्रह्मन् ! बुधो नक्षत्रमण्डलात् ।तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः
अङ्गारकोऽपि शुक्रस्य तत्प्रमाणे व्यवस्थितः ।लक्षद्बये तु भौमस्य स्थितो देवपुरोहितः
सौरिबृहस्पतेश्चोर्द्ध्वं द्बिलक्षे समवस्थितः
”इति विष्णुपुराणे अध्यायः
तेषां रथादि यथा, --“योजनानां सहस्राणि भास्करस्य रथो नव ।ईषादण्डस्तथैवास्य द्बिगुणो मुनिसत्तम !
सार्द्धकोटिस्तथा सप्तनियुतान्यधिकानि वै ।योजनानान्तु तस्याक्षश्चक्रं यत्र प्रतिष्ठितम्
चत्वारिंशत्सहस्राणि द्वितीयोऽक्षो व्यवस्थितः ।पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य महामते
अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ।हस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वै ।द्बितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले
हयाश्च सप्त छन्दांसि तेषां नामानि मे शृणु ।गायत्त्री बृहत्युष्णिग्जगती त्रिष्टुबेव
अनुष्टुप् पंक्तिरित्युक्ताश्छन्दांसि हरयो रवेः ।स रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा ।गन्धर्व्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः
स्तुवन्ति मुनयः सूर्य्यं गन्धर्व्वैर्गीयते पुरः ।नृत्यन्त्यप्सरसो यान्ति सूर्य्यस्यानु निशाचराः
वहन्ति पन्नगा यक्षैः क्रियते भीषु संग्रहः ।वालखिल्यास्तथैवैनं परिवार्य्य समासते
सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम ! ।हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।वामदक्षिणतो युक्ता दश तेन चरत्यसौ
*
वाय्वग्निद्रव्यसम्भूतो रथश्चन्द्रसुतस्य ।पिशङ्गैस्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः
*
सवरूथः सानुकर्षो युक्तो भूसम्भवैर्हयैः ।सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान्
*
अष्टास्रः काञ्चनः श्रीमान् भौमस्यापि रथोमहान् ।पद्मरागारुणैरश्वैः संयुक्तो वह्रिसम्भवैः
*
अष्टाभिः पाण्डरैर्युक्ते वाजिभिः काञ्चनेरथे ।तस्मिंस्तिष्ठति वर्षं वै राशौ राशौ बृहस्पतिः
आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् ।समारुह्य शनैर्याति मन्दगामी शनैश्चरः
*
स्वर्भानोस्तुरगा ह्यष्टौ भृङ्गाभा धूसरं रथम् ।सकृद्युक्तास्तु मैत्रेय ! वहन्त्यविरतं सदा
*
तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः ।पलालधूमवर्णाभा लाक्षारसनिभारुणाः
*
एते मया ग्रहाणां वै तवाख्याता रथा नव ।सर्व्वे ध्रुवे महाभाग ! प्रबद्धा वायुरश्मिभिः
”इति विष्णुपुराणे अंशे १० १२ अध्यायाः
ग्रहाणामशुभप्रतीकारः राजमार्त्तण्डे ।“दोषो स्याद्ग्रहाणामशिशिरकिरणे ताम्र-मिन्दौ शङ्खंपृथ्वीपुत्त्रे प्रवालं शशधरतनये शातकुम्भंभुजेन ।देवाचार्य्ये मुक्तां मणिमसुरगुरौ सीसकंसूर्य्यसूनौराहौ लौहं त्वनिष्टे कमलजतनये राजपट्टंविभर्त्तुः
”शातकम्भं सुवर्णम् राजपट्टं कर्पूराणीतिख्यातम् अपि बुद्धिप्रकाशे ।“त्रिशूलीं क्षीरिकामूलं गोजिह्वां वृद्धदारकम् ।ब्रह्मयष्टिं सिंहपुच्छीं वाट्यालं चन्दनं सितम् ।अश्वगन्धां क्रमात् सूर्य्याद्दद्याद्दोषोपशान्तये
”इति ज्योतिषतत्त्वम्
स्वजन्मराश्यवधिनवग्रहशुद्धिर्यथा, --“केतूपप्लवभौममन्दगतयः षष्टास्त्रिसंस्थाः शुभा-श्चन्द्रार्कावपि ते तौ दशमौ चन्द्रः पुनःसप्तमः ।जीवः सप्तनवद्विपञ्चमगतो युग्मेषु सोमात्मजःशुक्रः षड्दशसप्तवर्जमितरे सर्व्वेऽप्युपान्तेशुभाः
”इति दीपिका
रविः १० ११ राशयः सोमः १० ।११ शुक्लपक्षे जन्मर्क्षवर्ज्जितजन्मचन्द्रःशुभः मङ्गलः १० ११ बुधः ।१० ११ १२ बृहस्पतिः ११ शुक्रः१ ११ १२ शनिः १० ११ ।राहुः १० ११ केतुः १० ११ राशयः
ग्रहाणां राशिभोगनिर्णयः यथा, --“रविर्म्मासं निशानाथः सपाददिवसद्वयम् ।पक्षत्रयं भूमिपुत्त्रो बुधोऽष्टादशवासरान्
वर्षमेकं सुराचार्य्यश्चाष्टाविंशदिनं भृगुः ।शनिः सार्द्धद्वयं वर्षं स्वर्भानुः सार्द्धवत्सरम्
”रविः मासः सोमः दिनम् कुजः ४५दिनम् बुधः १८ दिनम् बृहस्पतिः वत्-सरः शुक्रः २८ दिनम् शनिः
वत्सरः ।राहुः
वत्सरः केतुः
वत्सरः इतिज्योतिषम्
*
अथ चन्द्रादिषड्ग्रहाणा-मस्तोदयज्ञनम् यथा, --“अथोदयास्तमययोः परिज्ञानं प्रकीर्त्त्यते ।दिवाकरकराक्रान्तमूर्त्तीनामल्पतेजसाम्
सूर्य्यादप्यधिकाः पश्चादस्तं जीवकुजार्कजाः ।ऊनाः प्रागुदयं यान्ति शुक्रज्ञौ वक्रिणौ तथा
अल्पा विवस्वतः प्राच्यामस्तं चन्द्रज्ञभार्गवाः ।व्रजन्त्यभ्यधिकाः पश्चादुदयं शीघ्रयायिनः
*
एषां कालांशा यथा, --“एकादशामरेज्यस्य तिथिसंख्यार्कजस्य ।अस्तांशा भूमिपुत्त्रस्य दशसप्ताधिकास्ततः
पश्चादस्तमयोऽष्टाभिरुदयः प्राङ्महत्तया ।प्रागस्त उदयः पश्चादस्तत्वाद्दशभिर्भृगोः
एवं बुधो द्बादशभिश्चतुर्द्दशभिरंशकैः ।वक्रशीघ्रगती चार्कात् करोत्यस्तमयोदयौ
एष्याधिकैः कालभागैर्दृश्या न्यूनैरदर्शनाः ।भवन्ति लोके खचरा भानुभाग्रस्तमूर्त्तयः
”इति सूर्य्यसिद्धान्तः
तेषामस्तोदयदिनसंख्याज्ञानम् यथा, --“भुजाक्षिचन्द्रा-१२२ स्त्रिदशाश्च ३३ दन्ता ३२वेदाचला ४७ रामकृते ४३ क्रमेण ।भौमादिकस्यास्तदिनानि वक्रेबुधस्य भूपा १६ दश भार्गवस्य
”एषां एकस्मादस्तमयादुदयाद्बा अभ्युदयास्त-ज्ञानम् यथा, --“तथास्तवक्रात् कुजतोऽस्तवक्रेजात्य-२२ ब्धि-४ विश्वै-१३ र्द्दिगि-१० नैश्च १२मासैः ।महास्तवक्रास्तविधी सितस्यक्रमेण वक्रस्तु नवेन्दुमासैः १९
”गुरोरुदयस्य प्राक् पश्चात् शुक्रस्य तु उदयवक्र-महास्तोनां प्राक् पश्चात् बाल्यवृद्धदिनज्ञानम् ।यथा, --“वृद्धः पुरस्तादुदयस्य पश्चात्बालश्च पक्षं १५ वचसां पतिः स्यात् ।एवं सितः पञ्चदिनानि वृद्ध्वोबालो भवेत्त्रीणि दिनानि वक्रे
वृद्धस्तु पक्षं १५ भृगुजो महास्तेबालः पुनस्तत्र दशाहमेव
”इति सिद्धान्तमञ्जरी
अथ नवग्रहस्तोत्रम् ।“जवाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।ध्वान्तारिं सर्व्वपापघ्नं प्रणतोऽस्मि दिवाकरम्दिव्यशङ्खतुषाराभं क्षीरोदार्णवसम्भवम् ।नमामि शशिनं भक्त्या शम्भोर्म्मुकुटभूषणम्
धरणीगर्भसम्भूतं विद्युत्पुञ्जसमप्रभम् ।कुमारं शक्तिहस्तञ्च लोहिताङ्गं नमाम्यहम्प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।सौम्यं सर्व्वगुणोपेतं नमामि शशिनः सुतम्
देवतानामृषीणाञ्च गुरुं कनकसन्निभम् ।वन्द्यभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।सर्व्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्
नीलाञ्जनचयप्रख्यं रविसूनुं महाग्रहम् ।छायाया गर्भसम्भूतं वन्दे भक्त्या शनैश्चरम्
अर्द्धकायं महाघोरं चन्द्रादित्यविमर्द्दकम् ।सिंहिकायाः सुतं रौद्रं तं राहुं प्रणमाम्यहम्
पलालधूमसङ्काशं ताराग्रहविमर्द्दकम् ।रौद्रं रुद्रात्मजं क्रूरं तं केतुं प्रणमाम्यहम्
व्यासेनोक्तमिदं स्तोत्रं यः पठेत् प्रयतः शुचिः ।दिवा वा यदि वा रात्रौ शान्तिस्तस्य संशयः
ऐश्वर्य्यमतुलञ्चापि आरोग्यं पुष्टिवर्द्धनम् ।नरनारीप्रियत्वञ्च नित्यं तस्योपजायते
तक्षकोऽग्निर्यमो वायुर्ये चान्ये ग्रहपीडकाः ।ते सर्व्वे प्रशमं यान्ति व्यासो ब्रूयान्न संशयः
”इति श्रीव्यासभाषितं नवग्रहस्तोत्रं समाप्तम्
(ग्रहाणामन्यद्विववरणन्तु ग्रहशब्दे द्रष्टव्यम्
*
नवं नूतनं ग्रहो ग्रहणं यस्येति विग्रहे नव-बद्धे, त्रि यथा, रामायणे ५८ ।“वृद्धं परमसन्तप्तं नवग्रहमिव द्विपम्
”)