| YouTube Channel

नवग्रह (navagraha)

 
Yates
English
नव-ग्रह (हाः) 1.
m.
plu. Sun, moon,
five planets and the nodes.
Spoken Sanskrit
English
नवग्रह - navagraha -
m.
- 9 planets
अतिचार - aticAra -
m.
- of planets
अजगव - ajagava -
m.
- moon and planets
ज्योतिस् - jyotis -
n.
- planets and stars
ग्रहनाश - grahanAza -
m.
- destroying planets
ग्रहापहा - grahApahA -
f.
- removing of planets
ग्रहकल्लोल - grahakallola -
m.
- wave of the planets
सुप्रचार - supracAra -
adj.
- going in right course [ used for planets ]
ग्रहमय - grahamaya -
adj.
- consisting of planets
अजवीथी - ajavIthI -
f.
- moon and planets move
ग्रहदशा - grahadazA -
f.
- aspect of the planets
निरीक्षण - nirIkSaNa -
n.
- aspect of the planets
वीक्षण - vIkSaNa -
n.
- aspect of the planets
ग्रहपूजा - grahapUjA -
f.
- worship of the planets
ग्रहयुति - grahayuti -
f.
- conjunction of planets
संयुतयुति - saMyutayuti -
f.
- conjunction of planets
ग्राहमेलक - grAhamelaka -
m.
- conjunction of planets
ग्रहपुष - grahapuSa -
m.
- cherishing the planets
युद्ध - yuddha -
m.
- conflict of the planets
सुगति - sugati -
adj.
- having auspicious position [ of planets, in astrology ]
नवग्रह navagraha
adj.
recently caught
नवग्रह navagraha
m.
9 planets
Wilson
English
नवग्रह
m.
plu. (-हाः) The nine planets, or sun, moon, five
planets, and the ascending and descending nodes.
E.
नव for नवन्, and ग्रह a planet.
Monier Williams Cologne
English
1. नव—ग्रह
mfn.
(for 2. See 4. नव) recently caught. Kad.
2. नव—ग्रह
m.
pl.
the 9 planets (i.e. sun, moon, 5 planets with Rāhu and Ketu),
W.
Macdonell
English
नवग्रह nava-graha,
a.
recently caught.
Shabdartha Kaustubha
Kannada
नवग्रह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸೂರ್ಯ ಚಂದ್ರ ಮೊದಲಾದ ಒಂಬತ್ತು ಗ್ರಹಗಳು
विस्तारः - > सूर्यचन्द्रौ मङ्गलश्च बुधश्चापि बृहस्पतिः। शुक्रः शनैश्चरो राहुः केतवश्च नवग्रहाः
L R Vaidya
English
navan-graha {% m. pl. %} the nine planets. See under ग्रह.
वाचस्पत्यम्
Sanskrit
नवग्रह
पु०
कर्म० संज्ञात्वात् द्विगुः “सूर्यचन्द्रौ मङ्गलश्चबुधश्चापि वृहस्पतिः शुक्रः शनैश्चरो राहुः केतवश्चनव ग्रहा” इत्युक्तेषु नवसु ग्रहेषु खगोलशब्दे तत्कक्षा-दिमानमुक्तं तद्रथादिमानमत्रोच्यते ।रवेः “योजनानां सहस्राणि भास्करस्य रयो नव ईषा-दण्डस्तथैवास्य द्विगुणो मुनिसत्तम! सार्द्धकोटिस्तथासप्त नियुतान्यधिकानि वै योजनानान्तु तस्याक्षश्चक्रंयत्र प्रतिष्ठितम् चत्वारिंशत् सहस्राणि द्वितीयोऽक्षोव्यवस्थितः पञ्चान्यानि तु सार्द्धानि स्यन्दनस्य महा-मते! अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्द्धयोः ।ह्रस्वोऽक्षस्तद्युगार्द्धेन ध्रुवाधारो रथस्य वै द्वितीयेऽक्षेतु तच्चक्रं संस्थितं मानसाचले हयाश्च सप्त छन्दांसितेषां नामानि मे शृणु गायत्री वृहत्युष्णिग्जगतीत्रिष्टुबेव अनुष्टुप् पङ्क्तिरित्युक्ताश्छन्दांसि हरयोरवेः रथोऽधिष्ठितो देवैरादित्यैरृषिभिस्तथा ।गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः स्तुवन्तिमुनयः सूर्य्यं गन्धर्वैर्गीयते पुरः नृत्यन्त्योऽप्सरसोयान्ति सूर्य्यस्यानु निशाचराः वहन्ति पन्नगाः यक्षैःक्रियतेऽभीषुसंग्रहः वालखिल्यास्तथैवैनं परिवार्य्यसमासते सोऽयं सप्तगणः सूर्य्यमण्डले मुनिसत्तम ।हिमोष्णवारिवृष्टीनां हेतुत्वं समुपागतः” ।इन्दीः “रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः ।वामदक्षिणतो युक्ताः दश तेन चरत्यसौ” ।बुधस्य “वाय्वग्निद्रव्यसम्भूती रथश्चन्द्रसुतस्य पिशङ्गै-स्तुरगैर्युक्तः सोऽष्टाभिर्वायुवेगिभिः सत्ररूथः सानु-कर्षो युक्तोऽभूसम्भवैर्हयैः” ।शुक्रस्य “सोपासङ्गपताकस्तु शुक्रस्यापि रथो महान् ।अष्टाश्वः काञ्चनः श्रीमान्” ।कुजस्य “भौमस्यापि रथो महान् पद्मरागारुणैरश्वैः संयुक्तो वह्निसम्भवैः” ।गुरोः “अष्टाभिः काञ्चननिभैर्वाजिभिः काञ्चने रथे तिष्ठं-श्चरति वै वर्षं राशौ राशौ वृहस्पतिः” ।शनेः “आकाशसम्भवैरश्वैः शवलैः स्यन्दनं युतम् समारुह्यशनैर्याति मन्दगामी शनैश्चरः” ।राहोः “स्वर्मानोस्तुरगाह्यष्टौ भृङ्गाभा धूसरं रथम् सकृद्-युक्तास्तु मैत्रेय! वहन्त्यविरतं सदा आदित्यान्निःसृतोराहुः सोमं गच्छति पर्वसु आदित्यमेति सोमाच्चपुनः सौरेषु पर्वसु” ।केतोः “तथा केतुरथस्याश्वा अष्टौ ते वातरंहसः पलाल-धूमवर्णाभा लाक्षारसनिभारुणाः एते मया ग्रहाणांवै तवाख्याता रथा नव” विष्णुपु० ।सुश्रुतोक्ते नवविधे स्कन्धाद्यभिधे नवग्रहभेदे ग्रह-शब्दे २७४५ पृ० दृश्यम् तेषामुत्पत्यादिकं उत्तर-तन्त्रे तत्रोक्तं यथा“अथातो ग्रहोत्पत्तिमध्यायं व्याख्यास्यामः नवस्कन्दादयः प्रोक्ता बालानां इमे ग्रहाः श्रीमन्तोदिव्यवपुषो नारीपुरुषविग्रहाः एते गुहस्य रक्षार्थांकृत्तिकोमाग्निशूलिभिः सृष्टाः शरवणस्थस्य रक्षित-स्यात्मतेजसा स्त्रीविग्रहा ग्रहा ये तु नानारूपामयेरिताः गङ्गोमाकृत्तिकानाञ्च ते भागा राजसामताः नैगमेयस्तु पार्वत्या सृष्टो मेषाननो ग्रहः ।कुमारधारी देवस्य गुहस्यात्मसमः सखा स्कन्दाप-स्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः स्कन्द-सखो नाम विशाख इति चोच्यते स्कन्दः सृष्टो भग-वता देवेन त्रिपुरारिणा बिभर्त्ति चापरां संज्ञांकुमार इति ग्रहः बाललीलाधरो योऽयं देवोरुद्राग्निसम्भवः मिथ्याचारेषु भगवान् स्वयं मैत्रप्रवर्त्तते कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः ।गृह्णन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ततोभगवति स्कन्दे सुरसेनापतौ कृते उपतस्थुर्ग्रहाः सर्वेदीप्तशक्तिधरं गुहम् ऊचुः प्राञ्जलयश्चैनं वृत्तिं नःसंविधत्स्व वै तेषामर्थे ततः स्कन्दः शिवं देवमचो-दयत् ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।तिर्य्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत् परस्प-रोपकारेण वर्त्तते धार्य्यतेऽपि देवा मनुष्यान्प्रीणन्ति तैर्य्यग्योनींस्तथैव वर्त्तमानैर्यथाकालंशीतवर्षोष्णमारुतैः इज्याञ्जलिनमस्कारजपहोमव्रता-दिभिः नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् ।भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते तद्युष्मार्कंशुभा वृत्तिर्बालेष्वेव भविष्यति कुलेषु येषु नेज्यन्तोदेवाः पितर एव ब्राह्मणाः साधवश्चैव गुरवोऽति-थयस्तथा निवृत्ताचारशौचेषु परपाकोपभोजिषु ।उच्छन्नबलिभिक्षेषु भिन्नकांस्योपभोजिषु गृहेषु तेषु येबालास्तान् गृह्णीध्वमशङ्किताः तत्र वो विपुला वृत्तिःपूजा चैव भविष्यति एवं ग्रहाः समुत्पन्ना बालान्गृह्णन्ति चाप्यतः ग्रहोपसृष्टा बालास्तु दुश्चिकित्स्य-तमा मताः वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहेमतम् स्कन्दग्रहोऽत्युग्रतमः सर्वेष्वेव यतः स्मृतः ।अन्यो वा सर्वरूपस्तु साध्यो ग्रह उच्यते” ।अथ सूर्य्यादिग्रहाणां स्वरूपादि वृहज्जातकोक्तं प्रदर्श्यते“कालात्मा दिनकृन्मनस्तुहिनगुः सत्वं कुजौ ज्ञो वचोजीवो ज्ञानसुखे सितश्च मदनो दुःखं दिनेशात्मजः ।राजानौ रविशीतगू क्षितिसुतो नेता कुमारो बुधः सूरि-र्दानवपूजितश्च सचियी प्रेष्यः सहस्रांशुजः” वृहज्जा० ।“कालस्यात्मा कालात्मा दिनकृत् सूर्यः अस्यैव तुहिनगु-श्चन्द्रोमनः तुहिनेन हिमेन सदृशाः शीतलागावोरश्मयोयस्य तुहिनगुः सत्वं कुजो भौमः सत्वस्य लक्षणं“अधिकारकरं सत्वं व्यसनाभ्युदयागमे” सत्वशब्दोऽत्रशौर्यपर्य्यायः तच्च सिंहादीनामस्ति तथा एकाकिनिबनवासिन्यराजलक्ष्मण्यतीतशास्त्रज्ञे सत्वस्थिते मृग-पतौ राजेति गिरः परिणमन्ति उत्कृष्टतरस्वभावइत्यर्थः ज्ञो बुधो वचो गीः जीवो वृहस्पतिः ज्ञान-सुखे ज्ञानञ्च सुखञ्च ज्ञानसुखे सितः शुक्रो मदनःकामः दिनस्येशो दिनेशः सूर्यः तस्यात्मजः पुत्रः शनै-श्चरो दुःखम् अत्र कालग्रहणं कालस्य सर्वगतस्य प्रदर्श-नार्थम् अत्र केवलं कालपुरुषस्य मेषाद्याराशयः शिरःप्रमृत्यङ्गविभागेन स्थिताः यावदादित्यादयश्चास्य विभा-गेन सर्वस्य त्नगतः स्थिताः प्रयोजनम् पीडितैर्ग्रहै-र्देहवतोऽपि तदङ्गभवात्मगुणपीडनं कर्तव्यम् पुष्टैः पुष्टि-रिति केवलं यावत् जन्मनि बलवद्भिर्ग्रहैरेत एव भावाआत्मादयः शुमा भवन्ति दुर्बलैर्दुर्बलाः किन्तु सौरस्यविपरीतम् तथा सारावल्पाम “आत्मादयो गगनगैर्ब-लिभिर्बलवत्तराः दुर्बलैर्दुर्बला ज्ञेया विपरीतं शनेःस्मृतमिति” राजानातित्यादि रविरादित्यः शीतगुश्चन्द्रःएतौ राजानौ नृपौ क्षितिर्भूमिरस्याः सुतः पुत्रोऽङ्गा-रकः नेता सेनापतिः बुधः कुमारो युबराजः रा-जपुत्र इति केचित् स्ररिर्वृहस्पतिः दानवपूजितःशुक्रः एती सचिवौ मन्त्रिणौ सहस्रांशुः सूर्यस्त-स्माज्जातः शनैश्चरः प्रेष्यो दासः ननु जगत्पालन-करणे शनैश्चरः प्रेष्यः किमत्रोच्यते प्रेष्योऽपि स्वकर्मणांपालक एव प्रयोजनम् जन्मनि प्रश्नकाले बलवानु-पचयस्थो ग्रहो भवति तदुक्तो राजादिकस्तस्य कार्यसाध-नको भवति अन्यथा हानिकरः” “रक्तश्यामो भास्करोगौर इन्दुर्नात्युच्चाङ्गोरक्तगौरश्च वक्रः दूर्वाश्यामोज्ञोगुरुर्गौरगात्रः श्यामः शुक्रो भास्करिः कृष्णदेहः ।वर्णास्ताम्रसिताऽतिरक्तहरीतव्यापीतचित्रासितावह्न्यम्बु-ग्निजकेशवेन्द्रशचिकाः सूर्यादिनाथाः क्रमात् प्रागा-द्यारविशुक्रलोहिततमः सौरेन्दुवित्सूरयः क्षीणेन्द्वर्क-महीसुतार्कतनयाःपापा बुधस्तैर्युतः बुधसूर्यसुतौनपुंसकाख्यौ शशिशुक्रौ युवती नराश्च शेषाः” शिखि-मूखपयोमरुद्गणानां वशिनो मूमिसुतादयः क्रमेणः”