| YouTube Channel

नलकूवरः (nalakUvaraH)

 
शब्दकल्पद्रुमः
Sanskrit
नलकूवरः,
पुं,
कुवेरपुत्त्रः इत्यमरः ।७३
(यथा, राजेन्द्रकर्णपूरे ६९ ।“विलोकनकथापि मे नलकूवरे स्मरेकिमन्यदमृतद्युतेरपि दर्शनं प्रार्थये ।अयं नयनगोचरं व्रजति चेद्दृशामुत्सवःसमग्ररमणीमनो मधुपमाधवः क्ष्माधवः
”)स भ्रात्रा मणिग्रीवेण सह वारुणीं पीत्वाकैलासोपवने गङ्गायां स्त्रीजनैः क्रीडितवान् ।असंवृतवस्त्रौ तौ दृष्ट्वा नारदः शशाप तच्छा-पेन तौ यमलार्ज्जुनौ भूत्वा श्रीवृन्दावने आसतुः ।ततो दामोदरेण शापनिर्म्मुक्तौ तं नुत्वा स्वगृहंजग्मतुः इति श्रीभागवतीयदशमस्कन्धः