नलकूवर (nalakUvara)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritनलकूवरः, कुवेरपुत्त्रः । इत्यमरः । १ । १ ।७३ ॥
(यथा, राजेन्द्रकर्णपूरे । ६९ ।“विलोकनकथापि मे न नलकूवरे न स्मरेकिमन्यदमृतद्युतेरपि न दर्शनं प्रार्थये ।अयं नयनगोचरं व्रजति चेद्दृशामुत्सवःसमग्ररमणीमनो मधुपमाधवः क्ष्माधवः ॥
”)स भ्रात्रा मणिग्रीवेण सह वारुणीं पीत्वाकैलासोपवने गङ्गायां स्त्रीजनैः क्रीडितवान् ।असंवृतवस्त्रौ तौ दृष्ट्वा नारदः शशाप । तच्छा-पेन तौ यमलार्ज्जुनौ भूत्वा श्रीवृन्दावने आसतुः ।ततो दामोदरेण शापनिर्म्मुक्तौ तं नुत्वा स्वगृहंजग्मतुः । इति श्रीभागवतीयदशमस्कन्धः ॥
वाचस्पत्यम्
Sanskritनलकूवर कुवेरपुत्रे “यक्षराज्ञा कुवेरेण वरा लब्धाश्चपुष्कलाः । धनाधिपत्यं सख्यञ्च रुद्रेणामिततेजसा ।सुरत्वं लोकपालत्वं पुत्रञ्च नलकूवरम्” भा० श० ४८ अ० ।स च नारदशापेन व्रजे स्थावरतां प्राप्तः कृष्णेन पुन-र्देवत्वमासादितः । तत्कथा भाग० १० स्कन्धे यथा“कृष्णस्तु गृहकृत्येषु व्यग्रायां मातरि प्रभुः । अद्रा-क्षीदर्जुनौ पूर्वं गुह्यकौ धनदात्मजौ” । “पुरानारदशापेनवृक्षतां प्रापितौ मदात् । नलकूवरमणिग्रीवावितिख्यातौ श्रियान्वितौ” ९ अ० “रुद्रस्यानुचरौ भूत्वा सु-दृप्तौ धनदात्मजौ । कैलासोपवने रम्ये मन्दाकिन्यांमदोत्कटौ । वारुणीं मदिरां पीत्वा मदाघूर्णितलो-चनौ । स्त्रीजनैरनुगायद्भिश्चेरतुः पुष्पिते वने । अन्तःप्रविश्य गङ्गायामम्भोजवनराजिषु । चिक्रीडतुर्युवति-भिर्गजाविव करेणुभिः । यदृच्छया च देवर्षिर्भगवांस्तत्रकौरव! । अपश्यन्नारदो देवौ क्षीवाणौ समबुद्ध्यत ।तं दृष्ट्वा व्रीडिता देव्यो विवस्त्रा शापशङ्किताः । वासांसिपर्य्यधुः शीघ्रं विवस्त्रौ नैव गुह्यकौ” “यदिमौ लोकपा-लस्य सुतौ भूत्वा तमःप्लुतौ । न विवाससमात्मानंविजानीतः सुदुर्मदौ । अत इतः स्थावरतां स्यातां नैवंयथा पुनः । स्मृतिः स्यात् मत्प्रसादेन तत्रापि मदनु-ग्रहात् । वासुदेवस्य सान्निध्यं लब्ध्वा दिव्यशरच्छते ।वृत्ते स्वर्ल्लोकतां भूयो लब्धभक्ती भविष्यतः” १० अ०
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
