नर्म्मदा (narmmadA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritनर्म्मदा, (नर्म्म ददातीति । दा + कः । स्त्रियांटाप् ।) पृक्का । इति हेमचन्द्रः । ४ । १४९ ॥
नदीविशेषः । सा विन्ध्यपर्व्वतान्निःसृता पश्चिमेतमसानद्यां प्रविष्टा । तस्याः पर्य्यायः । रेवा २मेकलकन्या ३ सोमसुता ४ । अस्या जलगुणाः ।लघुत्वम् । शीतलत्वम् । सुपथ्यत्वम् । दाह-पित्तशमनत्वम् । वातदातृत्वञ्च । इति राज-निर्घण्टः ॥
* ॥
तस्या जलं दशभिर्म्मासैर्जीर्य्यति ।यथा, --“त्रिभिः सारस्वतं तोयं सप्तभिस्त्वथ यामुनम् ।नार्म्मदं दशभिर्म्मासैर्गाङ्गं वर्षेण जीर्य्यति ॥
”इति प्रायश्चित्ततत्त्वम् ॥
तस्या उत्पत्तिमाहात्म्ये यथा, --“नर्म्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता ।तारयेत् सर्व्वभूतानि स्थावराणि चराणि च ॥
सर्व्वपापहरा नित्यं सर्व्वदेवनमस्कृता ।संस्तुता देवगन्धर्व्वैरप्सरोभिस्तथैव च ॥
” * ॥
तस्याः स्तवो यथा, --“नमः पुण्यजले ! आद्ये ! नमः सागरगामिनि ! ।नमस्ते पापशमनि ! नमो देवि ! वरानने ! ॥
नमोऽस्तु ते ऋषिगणसंघसेविते !नमोऽस्तु ते शङ्करदेहनिःसृते ! ।नमोऽस्तु ते धर्म्मभृतां वरप्रदे !नमोऽस्तु ते सर्व्वपवित्रपावने ! ॥
यस्त्विदं पठते स्तोत्रं नित्यं शुद्धमना नरः ।ब्राह्मणो वेदमाप्नोति क्षत्त्रियो विजयी भवेत् ॥
वैश्यस्तु लभते लाभं शूद्रश्चैव शुभां गतिम् ।अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः ॥
नर्म्मदां सेवते नित्यं स्वयन्देवो महेश्वरः ।तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥
नर्म्मदाया जलं पीत्वा अर्च्चयित्वा वृषध्वजम् ।दुर्गतिञ्च न पश्यन्ति तस्य तीर्थप्रभावतः ॥
एतत्तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।सर्व्वपापविशुद्धात्मा व्रजते रुद्रमन्दिरम् ॥
जलप्रवेशं यः कुर्य्यात् तस्मिंस्तीर्थे नराधिप ! ।हंसयुक्तेन यानेन रुद्रलोकं स गच्छति ॥
यावच्चन्द्रश्च सूर्य्यश्च हिमवांश्च महोदधिः ।गङ्गाद्याः सरितो यावत्तावत् स्वर्गे महीयते ॥
अनशनन्तु यः कुर्य्यात्तस्मिंस्तीर्थे नराधिप ! ।गर्भवासे तु राजेन्द्र ! न पुनर्जायते नरः ॥
”इति मात्स्ये १६५ । १६९ अध्यायौ ॥
सा च पुरुकुत्सभार्य्या । तस्याः स्मरणेविषनाशो भवति । यथा, “सकलपन्नगपतयश्चनर्म्मदायै वरं ददुः । यस्तेऽनुस्मरणसमवेतं नाम-ग्रहणं करिष्यति न तस्य सर्पविषं भविष्यतीति ।अत्र च ।“नर्म्मदायै नमः प्रातनर्म्मदायै नमो निशि ।नमोऽस्तु नर्म्मदे तुभ्यं त्राहि मां विषसर्पतः ॥
”इति विष्णुपुराणे । ४ । ३ । ९ -- १० ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
