नर्मदासम्भव (narmadAsambhava)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritनर्मदासम्भव नर्मदायां सम्भवति सम्--भू--अच् । द्यार्मदेवाणलिङ्गभेदे तल्लणादिकन्तु याज्ञवल्क्यसंहितायां देवींप्रति शिववाक्ये “प्रशस्तं नार्मदं लिङ्गं पकजम्बु फलाकृति ।मधुवर्णं तथा शुक्लं नीलं मरकतप्रभम् । हंसडिम्बाकृतिपुनः स्थापनायां प्रशस्यते । स्वयं संस्रवते लिङ्गं गिरितोनर्मदाजले । पुरा वाणासुरेणाहं प्रार्थितो नर्मदातटे ।अध्यवात्सं गिरौ तत्र लिङ्गरूपी महेश्वरः । वाणलिङ्ग-मपि ख्यातमतोऽर्थाज्जगतीतले । अन्येषां कोटिलि-ङ्गानां पूजने यत् फलं लभेत् । तत् फलं लभते मर्त्त्योवाद्यलिङ्गैकपूजनात्” । तथा “ताम्री वा स्फाटिकीस्वार्णी पाषाणी राजती तथा । वेदिका च प्रकर्त्तव्या तत्रसस्थाप्य पूजयेत् । प्रत्यहं योऽर्चयेल्लिङ्गं नार्मदं भक्तिभावतः । ऐहिकं किं फलं तस्य मुक्तिस्तस्य करे स्थिता”नर्भदेशशब्दे तत्तीरस्थपाषाणमात्रस्य शिवलिङ्गरूपित्वंवक्ष्यते । प्रसङ्गात्तस्य लक्षणपरीक्षाद्रिकमुच्यते वीरमित्रो-द्रवधृतकालोत्तरे “वाणलिङ्गं तथा ज्ञेयं भुक्तिमुक्तिप्रदा-यकम् । उत्पत्तिं वाणलिङ्गस्य लक्षण नदतः शृणु ।नर्मदादेविकयोश्च गङ्गायमुनयोस्तथा । सन्ति पुण्यन-दीनाञ्च वाणलिङ्गानि षण्मुख! । इन्द्रादिपूजितान्यत्रतच्चिह्नैर्विहितानि च । सदा सन्निहितस्तत्र शिवः सर्वार्थदा-यकः । इन्द्रलिङ्गानि तान्याहुः साम्राज्यार्थप्रदानि च”आग्नेयं तच्छक्तिनिभमथवा शक्तिलाञ्छितम् । इदंलिङ्गवरं स्थाप्य तेजसाधिपतिर्भवेत्” “दण्डाकारं भवेद्याम्यमथवा रसनाकृति । यद्युक्तं सह तेनैव निर्णिक्तंज्ञायते तदा । निषिक्तं निधनन्तेन क्रियते स्थापितेनतु” “राक्षसं खड्गसदृशं ज्ञानयोगफलप्रदम् । कर्क-रादिप्रलिप्तन्तु कुण्टकुक्षियुतं तथा । राक्षसं निरृते-र्लिङ्गं गार्हस्थ्ये न सुखप्रदम्” “वारुणं वर्त्तुलाकारंप्राशाङ्कं चालिवर्चसम् । वृद्धिःसुखादेः स्वत्वस्य संभोगा-प्तन्तु मध्यगे” “कृष्णं धूम्रं च वायव्यं ध्वजगं ध्वजभू-षणम् । मस्तकेस्थापितं तस्य न्यूनन्यूनमितस्ततः”“चतुर्वर्णमयं वापि वैष्णवं ज्ञायतेऽग्रतः ।वैष्णवं शङ्खचक्राङ्कगदाब्जादिविभूषितम् । श्रीवत्संकास्तुभाङ्कञ्च सर्वसिंहासनाङ्कितम् । वैनतेयसमाङ्कं वातथा विष्णुपदाङ्कितम् । वैष्णवं नाम तत्प्रोक्तं सर्वैश्व-र्य्यफलप्रदम्” “शालग्रामादिसंस्थन्तु शशाङ्कं श्रीवि-वर्द्धनम् । पद्माङ्कं स्वस्तिकाङ्कं वा श्रीवत्साङ्कं विभूतये”हेमाद्रिधृतलक्षणकाण्डे नारद उवाच “अथ वक्ष्यामिते विप्र चिह्नमेकादशं (पूर्वोक्तदशापेक्षया एकादशम्)परम् । श्रवणाद्यस्य पापानि नाशमायान्ति तत्क्षणात् । मधुपिङ्गलवर्णाभं कृष्णकुण्डलिकायुतम् ।स्वयम्भु १ लिङ्गमाख्यातं सर्वसिद्धैर्निषेवितम् । नाना-वर्णसमाकीर्णं जटाशूलसमन्वितम् । मृत्युञ्जयाह्वयं २लिङ्गं सुरासुरनमस्कृतम् । दीर्घाकारं” शूभ्रवर्णंकृष्णविन्दुसमन्वितम् । नीलकण्ठं ३ समाख्यातं लिङ्गंपूज्यं सुरामरैः । शुक्लाभं शुक्लकेशञ्च नेत्रत्रयसमन्वितम् ।त्रिलोचनं ४ महादेवं सर्वपापप्रमोदनम् । ज्वलल्लिङ्गंजटाजूटं कृष्णाभं स्थूलविग्रहम् । कालाग्निरुद्र ५ माख्यातंसर्वसत्वैर्निषेवितम् । मधुपिङ्गलवर्णाभं श्वेतयज्ञोपवी-तिनम् । श्वेतपद्मसमासीनं चन्द्ररेखाविभूषिगम् । प्रल-यास्त्रसमायुक्तं त्रिपुरारि ६ समाह्वयम् । शूभ्राभं पिङ्ग-लङ्गटं मुण्डमालाधरं परम् । त्रिशूलधरमीशानं ७ लिङ्गंसर्वार्थसाधनम् । त्रिशूलडमरुधरं शूभ्ररक्तार्द्धभागतः ।अर्द्धनारीश्वराङ्खानं ८ सर्वदेवैरभीष्टदम् । ईषद्रक्तमयं कान्तंस्थूलदीर्षं समुज्ज्वलम् । सहाकालं ९ समाख्यातंधर्मकामार्थमोक्षदम् । एतत्तु कथितं तुभ्यं लिङ्गचिह्नणहेशितुः । एकेनैव कृतार्थः स्यात् बहुभिः किमु सु-व्रत!” वीरसित्रोदयधृतकालोत्तरे “उक्ताङ्कं श्रेयसेयोज्यं शीर्षमन्त्रं विवर्जयेत् । यमवर्णन्तु यल्लिङ्गं यमाङ्कंवा कमण्डलुम् । दण्डाङ्कं सूत्रचिह्नं वा ब्रह्मज्ञानान्वितंमतम् । शशिवर्णं महाकालं नन्दीशं पद्मरागवत् ।पद्मरागनिभं सर्वं महाभं सिद्धिपूजितम् । मौक्तिकाभंनीलनिभं रुद्रादित्यैः प्रपूजितम् । वसुदैः सेन्द्रयक्षेशंगुह्यकैर्यातुधानकैः । नानावर्णमयं नीलं शशाङ्कमण्ड-लप्रभम्” “इत्येतल्लक्षणं प्रोक्तं परीक्षा तत्त्वकोविदैः ।त्रिःसप्तपञ्चवारं वा तुलासाम्यं न जायते । तदावाणं समाख्यातं शेषं पाषाणसम्भवम्” । तुलाकरणन्तुतण्डुलेन अपरतुलादिषु तण्डुला यद्यधिकाः स्युस्तदातल्लिङ्गं गृहिणां पूज्यम् लिङ्गञ्चेदधिकं तदोदा-सीनैः पूज्यमिति किंवदन्ती । हेमाद्रिधृतलक्षणकाण्डेसूतसंहितायान्तु “सप्तकृत्वस्तुलारूढं वृद्धिमेति न ही-यते । बाणलिङ्गमिति ख्यातं शेषं नार्मदमुच्यते । त्रिपञ्चवारं यस्यैव तुलासाम्यं न जायते । तदा वाणं समा-ख्यातं शेषं पाषाणसम्भवम्” । वीरमित्रोदये “नद्यां वाप्रक्षिपेद्भूयो यदा तदुपलभ्यते । वाणलिङ्गं तदा विद्धिन्यूनं सुखविवर्द्धनम्” । वाणशब्दव्युत्पत्तिरपि तत्रैव“अथ वाणं समाख्यातं यथा वक्ष्ये तथादितः । बाणःसदा शिवो देवो वाणोवाणासुरोऽपि च । तेन यस्मात्कृतं तस्माद्वाणलिङ्गमुदाहृतम् । सदा सन्निहितस्तत्रशिवः सर्वार्थदायकः । कृतप्रतिष्ठं तल्लिङ्गं वाणाख्येनशिवेन च । पङ्कजस्य फलाकारं कुण्डलस्य समाकृति”पङ्कजफलं पद्मवीजम् “पक्वजम्बुफलाकारं कुक्कुटाण्ड-समाकृति” इति हेमाद्रिधृतलक्षणकाण्डे पाटः । “भुक्ति-मुक्तिप्रदञ्चैव वाणलिङ्गमुदाहृतम्” ।सूतसंहितायान् “संस्थाप्य श्रीबाणलिङ्गं रत्नकोटिगुणं भवेत् । रसलिङ्गे ततो वाणात् फलं कोटिगुणंस्मृतम् । गुणांस्तु रसलिङ्गस्य वक्तुं शक्नोति शङ्करी ।सिद्धयो रसलिङ्गे स्युरणिमाद्याः सुसंस्थिताः” । केदा-रखण्डे “रत्नधातुमयान्येव लिङ्गानि कथितान्यपि ।पवित्राण्येव पूज्यानि सर्वकामप्रदानि च । एतेषामपिसर्वेषां काश्मीरं हि विशिष्यते । काश्मीरादपि लिङ्गाच्चबाणलिङ्गं विशिष्यते । बाणलिङ्गात् परं नान्यत् पबि-त्रमिह दृश्यते । ऐहिकामुष्मिकं सर्वं पूजाकर्त्तुः प्रय-च्छति” । निन्द्यलिङ्गमाह तत्रैव “कर्कशे वाणलिङ्गेतु पुत्रदारक्षयो भवेत् । चिपिटे पूजिते तस्मिन् गृह-भङ्गो भवेद्ध्रुवम् । एकपार्श्वस्थिते धेनुपुत्रदारध-नक्षयः । शिरसि स्फुटिते वाणे व्याधिर्मरणमेव च ।छिद्रलिङ्गेऽर्चिते वाणे विदेशगमनं भवेत् । लिङ्गे चकर्णिकां दृष्ट्वा व्याधिमान् जायते पुमान् । अत्युन्नतवि-लाग्रे तु गोधनानां क्षयो भवेत्” । हेमाद्रिधृतम् “ती-क्ष्णाग्रं वक्रशीर्षञ्च त्र्यस्रलिङ्गं विवर्जयेत् । अतिस्थूलंचातिकृशं स्वल्पं वा भूषणान्वितम् । गृही विवर्जये-त्तादृक् तद्धि मोक्षार्थमीहितम्” वीरमित्रोदये “अर्थदंकपिलं लिङ्गं घनाभं मोक्षकाङ्क्षिणाम् । मधुवत् कपिलंस्थूलं गृही नैवार्चयेत् क्वचित् । पूजितव्यं गृहस्थेनवर्णेन भ्रमरोपमम् । तत्सपीठमपीठं वा मन्त्रसंस्कार-वर्जितम् । सिद्धिमुक्तिप्रदं लिङ्गं सर्वप्रसादपीठगम्”सूतसंहितायां भैरववाक्यम् “वाणासुरः पुरा भद्रे!शिवस्यातीव वल्लभः । जितक्रोधोऽनुरक्तश्च शिवपूजा-विधौ रतः । विधिज्ञो निपुणश्चैव शिल्पज्ञो लक्षणा-न्वितः । दिने दिने स्वयं कृत्वा लिङ्गं स्थाप्याप्य-पूजयत् । एवं वर्षशतं देवि! दिव्यमानेनापूजयत् ।तदा तद्भक्तिसुलभः प्रत्यक्षः शङ्करोऽभवत्” शङ्कर उवाचतुष्टोऽहं तव हे वाण! वरं व्रूहि किमिच्छसि । शङ्करस्यवचः श्रुत्वा वाणोवचनमब्रवीत् । यदि तुष्टोऽसि हे नाथ!मह्यं त्वं मन्दभागिने । क्लिष्टोऽहं तव देवेश! लिङ्गंकृत्वा दिने दिने । तत्तल्लक्षणसंसिद्धलक्षणं शास्त्रनि-र्मितम् । शास्त्रार्थो दुर्लभो देव! सिद्धश्चार्थश्च दुर्लभः ।तस्मात्त्वं यदि मे तुष्टो लिङ्गं देहि सुलक्षणम् । सर्व-कामकृतार्थञ्च सर्वसत्वानुकम्पनम् । सर्वेषाञ्च हितार्थायप्रसादं कुरु शङ्कर! । इत्येवं वचनं तस्य शिवः परम-कारणम् । श्रुत्वा कैलासमूर्द्धभ्यः शङ्करेण विनिर्निताः ।लिङ्गानां कोटिसंख्याश्च तथा चैव चतुर्दश । सिद्धलिङ्गंतदा तत्तत्सर्वं सदोदयं स्वयम् । आयोज्यैवं सुसम्पूर्णंवाणस्य च सपर्पितम् । अक्षयफलदं बाणः स्थाप्यमानञ्चनित्यशः । संपूज्य बाणः सद्भावं कृत्वा प्रणयनन्तदा ।तद्भावं सपुरं नीत्वा नूनं चिन्तयते शुतिः । अक्षयांयदि संसिद्धिं स्थाप्यमानं दिने दिने । सत्वानां सिद्विहे-त्वर्थं वाणस्थाने सुसंस्तवे । लिङ्गानां कालिकागर्त्ते स-ञ्चितास्तु त्रिकोटयः । श्रीशैले कोटयस्तिस्रः कीट्येकाकन्थकाश्रमे । माहेश्वरे च कोटिस्तु कन्दातीर्थे तु को-टिका । माहेन्द्रे चैव नेपाले एकैका कीटिरेव च । वा-णाच्चार्थं कृतं लिङ्गं वाणलिङ्गमतः स्मृतम् । वाणो वाशिव इत्युक्तस्तत्कृतं वाणमुच्यते । तस्मात्तेषु प्रदेशेषुपुण्यस्थानेषु तेषु वा । स्थितं तच्छिवसद्भावं शिवस्याकृतिविग्रहे” । हेमाद्रौ तदाकृतिलक्षणसमुच्चयेऽपि “स्ययम्भु-लिङ्गवत् बाणलिङ्गं भुक्त्यैस्वमुक्तये “सहस्रफलमन्यस्माद्यथास्थापनपूजने । श्रीशैले कालिकागर्त्ते लिङ्गाद्रौकन्यकाश्रमे । कन्यातीर्थे वने शैले माहेन्द्रे वा सुरेश्वरे ।स्थितानि वाणलिङ्गानि शिवेनैव कृतानि तु” सिद्धान्त-शेखरे वाणलिङ्गान्यधिकृत्य “तदानेकप्रकारं स्यादभ्यवर्ण-मपीठकम् । लक्ष्ममूर्त्तिविहीनञ्च वाणं तत् पृथुलाग्र-कम्” वाणलिङ्गेष्वावाहनादि न कर्त्तव्यं तदुक्तंभविष्ये “वाणलिङ्गानि राजेन्द्र! स्थितानि भुवनत्रये ।न प्रतिष्ठा न संस्कारस्तेषाभावाहनं न चेति” । रौद्र-लिङ्गलक्षणं वीरमित्रोदयधृते “नदीसमुद्भवं रौद्रमन्यो-न्यस्य विघर्षणात् । नदीवेगात् समं स्निग्धं सञ्जातं रौद्र-मुच्यते” लक्षणसमुच्चयेऽपि “सरित्प्रवाहसंस्थानं वाणलिङ्गसमाकृति । तदन्यदपि बोद्धव्यं रौद्रलिङ्गं सुखावहम् ।नदीसारनर्मदाया वाणलिङ्गसमाकृति । तदन्यदपि बो-द्धव्यं लिङ्गं रौद्रं भविष्यति” । रौद्रलिङ्गं तथा ख्यातंवाणलिङ्गसमाकृति । श्वेतं रक्तं तथा पीतं कृष्णं विप्रा-दिपूजितम् । स्वभावात् कृष्णवर्णं वा सर्वजातिषु सिद्धि-दम् । नर्मदासम्भवं रौद्रं वाणलिङ्गवदीरितमिति” ।अधिकं नर्मदेशशब्दे दृश्यम् ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
