| YouTube Channel

नर्त्तकः (narttakaH)

 
Tamil
Tamil
நர்த்தக: : நர்த்தன: = நாட்டியக்காரன்.
शब्दकल्पद्रुमः
Sanskrit
नर्त्तकः,
पुं,
(नृत्यतीति नृत् + “शिल्पिनि ष्वुन् ।”३ १४५ इति ष्वुन् ।) नटः पोट-गलः चारणः केलकः नटपर्य्यायः सर्व्व-वेशी लयालम्बः तालरेचनकः इतिशब्दरत्नावली
द्विपः इति हेमचन्द्रः
नृत्यकर्त्तुर्लक्षणं यथा, --“यादृशं नृत्यपात्रं स्याद्गीतं योज्यञ्च तादृशम् ।नृत्यस्य धारणात् पात्रं नर्त्तकः परिकीर्त्तितः
”अपि ।“असम्बद्धप्रलापी सदा भ्रूकुटितत्परः ।हासप्रहासचतुरो वाचालो नृत्यकोविदः
”इति सङ्गीतदामोदरः
(नर्त्तयतीति नृत् + णिच् + ण्वुल् नृत्यकारके, त्रि यथा, साहित्यदर्पणे परिच्छेदे ।“तर्को विचारः सन्देहात् भ्रूशिरोऽङ्गुलि-नर्त्तकः
”)