| YouTube Channel

नर्तकः-र्तिका (nartakaH-rtikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“नृती गात्रविक्षेपे”@} 2 नर्तकः-र्तिका, नर्तकः-र्तिका, निनृत्सकः-निनर्तिषकः-षिका, 3 नरीनृतकः-तिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककृन्ततिवत् 4 ज्ञेयानि।
5 नृत्यन्-न्ती, 6 नर्त्स्यन्-न्ती-ती, 7 नर्तकः- 8 नर्तकी, 9 नर्तयमानः, 10 11 नर्तनः, 12 इति कूप्रत्यये रूपम्।
नृतूः = दीर्घाकृतिः, नर्तकः, क्रिमिविशेषो वा।]] नृतूः।
प्रासङ्गिक्यः
01
=>
(९५४)
02
=>
(४-दिवादिः-१११६। अक। सेट्। पर।)
03
=>
[[१। क्षुभ्नादिषु (८-४-३९) ‘नृत्यतेर्यङि’ (ग। सू।) इति पाठात् णत्वनिषेधः।]]
04
=>
(२४८)
05
=>
[[२। शतरि, ‘दिवादिभ्यः’ (३-१-६९) इति श्यन्प्रत्यये रूपम्।]]
06
=>
[[B। ‘वनं चचार कर्तिष्यन् नर्त्स्यन् इव निरङ्कुशः।।’ भ। का। ९। ४२।]]
07
=>
[[३। ‘शिल्पिनि ष्वुन्’ (३-१-१४५) इत्यत्र ‘नृतिखनिरञ्जिभ्य एव’ (वा। ३-१-१४५) इति परिगणनादस्मात् ष्वुन्प्रत्यये रूपम्। षित्त्वात् स्त्रियां ङीप्।]]
08
=>
[[C। ‘नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत्।।’ रघु। १९। १४।]]
09
=>
[[४। अस्य धातोः चलनार्थत्वात्, अणावकर्मकत्वाच्च, ण्यन्तात् क्रमेण ‘निगरणचल- नार्थेभ्यः--’ (१-३-८७) इति, ‘अणावकर्मकाच्चित्तवत्कर्तृकात्’ (१-३-८८) इति यत् परस्मैपदं कर्त्रभिप्राये क्रियाफले प्राप्तम्, तत् ‘न पादम्याङ्यमाङ्यस- परिमुहरुचिनृतिवदवसः’ (१-३-८९) इति निषिध्यते। तेन शता भवति। परगामिनि क्रियाफले तु ‘णिचश्च’ (१-३-७४) इति, ‘शेषात् कर्तरि--’ (१-३-७८) इति उभयपदं भवत्येव। तेन नर्तयन् इत्यपि साधुः।]]
10
=>
[[ड्। ‘अवाद् वायुः शनैर्यस्यां लतां नर्तयमानवत्।’ भ। का। ८। ६१।]]
11
=>
[[५। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति तच्छीलादिषु कर्तृषु युच् भवति।]]
12
=>
[[६। ‘नृतिशृध्योः कूः’ [द। उ। १-१७४]