| YouTube Channel

नरसिंहमूर्त्तिदान (narasiMhamUrttidAna)

 
वाचस्पत्यम्
Sanskrit
नरसिंहमूर्त्तिदान
न०
त० कालिकापुराणोक्ते स्वर्णा-दिरचिततन्मूर्त्तिदाने तद्विधानं हेमा० दा० कालिपु० यथा“नृसिंहं चाथ रौक्मन्तु कृत्वा चतुर्भुजं विभुम् ताम्रपात्रे प्रतिष्ठाप्य रौप्यदंष्ट्रे प्रकल्पयेत् चक्षुषी पद्मरा-गेण नखानां विद्रुमास्तथा पुष्परागं भ्रुवोर्देशे कर्ण-योर्हीरकाबुभौ” नृसिंहरूपन्तु विष्णुधर्मोत्तरे“कार्य्यस्तु भगवान् विष्णुर्नरसिंहवपुर्द्धरः पीनस्कन्धकटिग्रीवकृशमध्यः कृशोदरः सिंहासनो (सिंहास्यः)नृदेहश्च नीलवासाः प्रभान्वितः आलीढस्थानसंस्थानःसर्वाभरणभूषणः ज्वालमालाकुलमुखोज्वलत्केशरम-ण्डलः हिरण्यकशिपोर्वक्षःपाटयन्नखरैः खरैः देव-जानुगतः कार्य्यो हिरण्यकशिपुस्तथा देवश्च शङ्खच-क्राभ्यां भूषितोर्द्ध्वकरद्वयः” इति “राजवर्त्म वैदूर्यंइन्द्रनीलं सुमस्तके कृत्वा रूपमिदं रम्यं तत्पात्रं मधुनाबुधः पूरयेत् खण्डमिश्रेण तत्र देवं पुनर्नमेत् वस्त्र-युग्मेन संछन्नं आसने विनिवेशयेत् नैवेद्यं कल्पयेदग्र्यंभक्ष्यैर्नानाविधैर्बुधः वितानोपरिसंयुक्तं पुष्पदामभिर-र्चयेत् गन्धपुष्पैस्तथा धूपैर्जागरं चार्च्च्य कारयेत् ।कृत्वा समस्तमेतत्तु हरये पूर्ववद्ददेत् यत्किञ्चित् प्राग्-विनिर्दष्टं कुर्य्यात् सर्वमिहापि तत्” प्राग्विनिर्दिष्ट-मिति वैष्णवमन्त्रेण पूजनं मूलमन्त्रेण अष्टोत्तरशतं ति-लाज्यहोमः द्वादशभ्यो ब्राह्मणेभ्यः सदक्षिणमन्नदान-मिति “कार्त्तिक्यां वाथ वैशाख्यामाश्रित्य द्वादशीमथ ।कृत्वा विधिमिमं सम्यक् नूनं तत्पदमश्नुते अरण्ये वाथसंग्रामे तस्करैदंष्ट्रिभिर्वृते भयं जायते तस्य सकृद्-यस्त्वेतदाचरेत् विदार्य्य चापदोघोराः धनमायुःप्रयच्छति सन्ततिं चैव रूपञ्च सौभाग्यञ्च मनोरथान् ।एवं भवति यत्पुण्यं नृसिंहाकृतिदानतः तेन विष्णोःपदं प्राप्य तत्र क्रोडन्ति देहिनः एतत् श्रुत्वा महत्पुण्यं सर्वपापैः प्रमुच्यते धनमायुर्विवर्द्धेत श्रावकस्यविशेषतः श्रावके दक्षिणां दद्याद्भक्त्या चात्मविभूतये”