| YouTube Channel

नरसारः (narasAraH)

 
शब्दकल्पद्रुमः
Sanskrit
नरसारः,
पुं,
(नरवत् शुद्धः सारो यत्र ।) बणिग्-द्रव्यविशेषः नौसादर इति निशादल इति चभाषा तस्य पर्य्यायः यथा, रत्नमालायाम् ।“द्विदलो गोपकः पिण्डो वोलो गन्धरसो रसः
”तस्य शुद्धिर्यथा, --“नरसारो भवेच्छुद्धश्चूर्णतोये विपाचितः ।दोलायन्त्रेण यत्नेन भिषग्भिर्योगसिद्धये
”इति सारचन्द्रिकास तु द्रव्यान्तरयोगेन महाद्रावको भवति यथा, “नरसारयवक्षारस्फटिकारित एव काचवकयन्त्रैः ।बहुशः पात्यं सत्त्वं तद्धि महाद्रावकं नाम
”इति रत्नावली
यथाच वैद्यकभैषज्यधन्वन्तरिग्रन्थे यकृत्प्लीहा-धिकारे ।“वृषश्चित्रमपामार्गं चिञ्चा कुष्माण्डनाडिका ।स्नुही तालस्य पुष्पाणि वर्षाभूर्वेतसन्तथा
एतेषां क्षारमाहृत्य लिम्पाकस्वरसेन ।क्षालयित्वा क्षारतोयं वस्त्रपूतञ्च कारयेत्
चण्डातपेन संशोष्य ग्राह्यन्तद्द्रवणोचितम् ।एतस्य द्विपलं ग्राह्यं यवक्षारपलद्बयम्
स्फटिकारिपलञ्चैव नरसारपलन्तथा ।पलार्द्धं सैन्धवं ग्राह्यं टङ्गनं तोलकद्वयम्
कासीसं तोलकञ्चैव मुद्राशङ्खञ्च तोलकम् ।दारुमोचं कर्षकञ्च तोलं समुद्रफेनकम्
सर्व्वमेकत्र सञ्चूर्ण्य वकयन्त्रेण साधयेत् ।महाद्रावकमेतद्धि योज्यञ्च रसजारणे
हन्ति गुल्मादिकान् रोगान् यकृत्प्लीहोदराणिच
”)