| YouTube Channel

नरमेधः (naramedhaH)

 
Apte Hindi
Hindi
नरमेधः
पुं*
नरः-मेधः -
नरयज्ञ
Wordnet
Sanskrit
Synonyms:
नरमेधः, नृमेधः
noun
प्राचीनकाले वर्तमानः यागः यस्मिन् नराहुतिं यच्छति।
"पौराणिके काले असुरादयः अपि नरमेधं कुर्वन्ति स्म।"
शब्दकल्पद्रुमः
Sanskrit
नरमेधः,
पुं,
(मिध हिंसायाम् + भावे घञ् ।नराणां पुरुषाणां मेधो हिंसनं यत्र ।) नर-वधात्मकयज्ञविशेषः
(यज्ञोऽयं वाजसनेय-संहितायाम् ३० -- ३१ अध्याययोर्दर्शितः तत्रअधिकार्य्यादिकं ३० अध्याये वेददीपे उक्तम् ।यथा, --“ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेध-संज्ञ्को यज्ञो भवति सर्व्वभूतान्यतिक्रम्यस्थानमतिष्ठा चैत्रशुक्लदशम्यामारम्भः अत्रत्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसदः पञ्चसुत्या इति चत्वारिंशद्दिनैः सिध्यति अत्रयूपैकादशिनी भवति एकादशाग्निषोमीयाःपशवो भवन्ति तेषाञ्च प्रतियूपं मध्यमे वा यूपेयथेच्छं नियोजनम् आज्येन सकृद्गृहीतेनदेव सवितरिति प्रत्यृचं तिस्र आहुतीराहव-नीये जुहोति
”) तु कलौ वर्ज्जनीयः ।यथा, --“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।द्बिजानामसवर्णासु कन्यासूपयमस्तथा
देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः ।मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा
दत्तायाश्चैव कन्यायाः पुनर्दानं वरस्य ।दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ
महाप्रस्थानगमनं गोमेधश्च तथा मखः ।इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः
”इत्युद्बाहतत्त्वे बृहन्नारदीयम्