| YouTube Channel

नरमेध (naramedha)

 
शब्दसागरः
English
नरमेध
m.
(-धः) A human sacrifice.
E.
नर, and मेध a sacrifice. मिध आधारे
घञ्
Capeller Eng
English
नरमेध
m.
= नरबलि.
Yates
English
नर-मेध (धः) 1.
m.
A human sacrifice.
Wilson
English
नरमेध
m.
(-धः) A human sacrifice.
E.
नर, and मेध a sacrifice.
Monier Williams Cologne
English
नर—मेध
m.
=
-बलि,
MBh.
R.
Apte Hindi
Hindi
नरमेधः
पुं*
नरः-मेधः -
नरयज्ञ
Shabdartha Kaustubha
Kannada
नरमेध
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮನುಷ್ಯನನ್ನು ಬಲಿಯಾಗಿ ಕೊಡುವ ಒಂದು ಯಾಗ
निष्पत्तिः - > मेधृ (मेधाहिंसनयोः) - "घञ्" (३-३-१२१)
व्युत्पत्तिः - > नरो मेध्यते हिंस्यतेऽत्र
प्रयोगाः - > राजसूयाश्वमेधौ सर्वमेधं भारत। नरमेधं नृपते त्वमाहर युधिष्ठिर
उल्लेखाः - > भा० आश्व. ३-८
विस्तारः - > ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेधसञ्ज्ञको यज्ञो भवति। सर्वभूतान्यतिक्रम्य स्थानमतिष्ठा। चैत्रशुक्लदशम्यामारम्भः। ನರಮೇಧವು ಕಲಿಯುಗದಲ್ಲಿ ನಿಷಿದ್ಧ.
L R Vaidya
English
nara-meDa {% m. %} a human sacrifice.
Mahabharata
English
*naramedha (“human sacrifice”): III, 8133
IX, 2889
XIII, 4942 (pl.)
XIV, 48.
शब्दकल्पद्रुमः
Sanskrit
नरमेधः,
पुं,
(मिध हिंसायाम् + भावे घञ् ।नराणां पुरुषाणां मेधो हिंसनं यत्र ।) नर-वधात्मकयज्ञविशेषः
(यज्ञोऽयं वाजसनेय-संहितायाम् ३० -- ३१ अध्याययोर्दर्शितः तत्रअधिकार्य्यादिकं ३० अध्याये वेददीपे उक्तम् ।यथा, --“ब्राह्मणराजन्ययोरतिष्ठाकामयोः पुरुषमेध-संज्ञ्को यज्ञो भवति सर्व्वभूतान्यतिक्रम्यस्थानमतिष्ठा चैत्रशुक्लदशम्यामारम्भः अत्रत्रयोविंशतिर्दीक्षा भवन्ति द्वादशोपसदः पञ्चसुत्या इति चत्वारिंशद्दिनैः सिध्यति अत्रयूपैकादशिनी भवति एकादशाग्निषोमीयाःपशवो भवन्ति तेषाञ्च प्रतियूपं मध्यमे वा यूपेयथेच्छं नियोजनम् आज्येन सकृद्गृहीतेनदेव सवितरिति प्रत्यृचं तिस्र आहुतीराहव-नीये जुहोति
”) तु कलौ वर्ज्जनीयः ।यथा, --“समुद्रयात्रास्वीकारः कमण्डलुविधारणम् ।द्बिजानामसवर्णासु कन्यासूपयमस्तथा
देवरेण सुतोत्पत्तिर्म्मधुपर्के पशोर्व्वधः ।मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा
दत्तायाश्चैव कन्यायाः पुनर्दानं वरस्य ।दीर्घकालं ब्रह्मचर्य्यं नरमेधाश्वमेधकौ
महाप्रस्थानगमनं गोमेधश्च तथा मखः ।इमान् धर्म्मान् कलियुगे वर्ज्ज्यानाहुर्म्मनीषिणः
”इत्युद्बाहतत्त्वे बृहन्नारदीयम्
वाचस्पत्यम्
Sanskrit
नरमेध
पु०
नरा मिध्यन्ते हिंस्यन्ते यत्र मिघ--आधारेघञ् त० पुरुषमेधाख्ये यज्ञभेदे यज्ञः यजु०३० ३१ अध्याययोर्दर्शितः तत्राधिकार्यादिकम् ३० अध्यायेवेददीपे उक्तं यथा “ब्राह्मणराजन्ययोरतिष्ठाकामयोःपुरुषमेधसंज्ञको यज्ञो भवति सर्वभूतान्यतिक्रम्य-स्थानमतिष्ठा चैत्रशुक्लदशम्यामारम्भः अत्र त्रयो-विंशतिर्दीक्षा भवन्ति द्वादशोपसुदः पञ्चसुत्या इति चत्वा-रिंशद्दिनैः सिध्यति अत्र यूपैकादशिनी भवति एका-दशाग्नीषोमीयाः पशवो भवन्ति तेषां प्रतियूप”मध्यमे वा यूपे यथेच्छं नियोजनम् आज्येन सकृद्-गृहीतेन देव सवितिरिति प्रत्यृचं तिस्र आहुतीराहव-नीये जुहोति” देवताभेदेन तत्रालभ्यपशुभेदास्तत्र“ब्रह्मणे ब्राह्मणमित्यादिना” अध्यायसमाप्तिपर्यन्ते-नोक्ताः अष्टाचत्वारिंशत्सङ्ख्यकाश्च ब्राह्मणादयो ब्रह्मा-द्यष्टाचत्वारिंशद्देवदेवत्याः पशवः “स एतं पुरुषमेघंपञ्चरात्रं यज्ञक्रतुमदृश्यत्तमाहरत्तेनायजत तेनेष्ट्वात्य-तिष्ठत् सर्वाणि भूतानीदं सर्वमभवदतितिष्ठति सर्वाणिभूतानीदं सर्वं भवति एवं विद्वान् पुरुषमेधेनयजते यो वैतदेवं वेद तस्य त्रयोविंशतिर्दीक्षाः द्वाद-शोपसदः पञ्चसुत्याः एष चत्वारिंशद्रात्रः सदीक्षोप-सत्कः” शत० ब्रा० १३ अत्र पञ्चरात्रत्वोक्तिःपञ्चसुत्याभिप्रायेणेति विरोधः “त्रिंशदग्नीनहं ब्रह्म-न्नयजं यच्च नित्यदा अष्टाभिः सर्वमेधैश्च नरमेधैश्चस-प्तिभिः” भा० अनु० १०३ अ० “राजसूयाश्वमेधौ सर्वमेधञ्चभारत! नरमेधञ्च नृपते! त्वमाहर युधिष्ठिर ।”भा० आश्र० अ० १८०३ पृ० कलिशब्दे दर्शितेन वृह-न्नारदीयवचनेन नरमेधस्य कलौ “दीर्घकालं ब्रह्मचर्य्यनरमेघाश्वमेधकावित्यनेन” निषेधेऽपि कलियुगोत्पन्नयुधिष्ठिरं प्रति नरमेधाहरणे नियोजनं तु विरुध्यतेहरेःस्वर्गारोहानन्तरमेव कलेः प्रकर्षेण प्रवृत्त्यवगमात्ततः प्राक्काले यथाविधानं सर्वे धर्मा व्यवस्थिता इत्य-वगमाच्च तदूर्द्ध्वमेव कलेः प्रबलत्वात् वृहन्नारदीयाद्यु-क्तकलिवर्ज्यस्यावकाश इत्यवधेयम् भूमौ श्रीकृष्ण-स्थितिपर्यन्तं कलेः प्रादुर्भावाभावश्च भागवते उक्तःतच्च वाक्यं कलिशब्दे १७९५ पृ० दर्शितम् अतो युधि-ष्ठिरादीनां नरमेधाश्वमेधमहाप्रस्थानादिकं विरुध्यते
Capeller
German
नरमेध
m.
= नरबलि.