| YouTube Channel

नरनारायणौ (naranArAyaNau)

 
Mahabharata
English
Nara-Nārāyaṇau. § 561d (Yānasandhip.): Once Bṛhaspati and Uśanas went to Brahmán, and also the Maruts with Indra, the Vasus with Agni, the Ādityas, the Sādhyas, the seven ṛshis (saptarshayaḥ), the Gandharva Viśvāvasu, the guṇas of Apsarases, and having bowed down to Brahmán they sat around him. Just then the two ancient deities (pūrvadevau), the Ṛshis Nara and Nārāyaṇa, left the place. Bṛhaspati said to Brahmán: “Who are these two that leave the place without worshipping thee?” Brahmán said that they were Nara and Nārāyaṇa who had come from the world of men to the world of Brahmán (so Nīl.)
“worshipped by the gods and the Gandharvas they exist only for the destruction of the Asuras.” Indra went to the spot where those two were practising austerities, accompanied by all the gods headed by Bṛhaspati. At that time the gods had been very much alarmed in consequence of a war with the Asuras. Indra obtained the boon that Nara and Nārāyaṇa (i.e. Arjuna and Kṛshṇa) assisted him in the battle (cf. Arjuna). Both of them, by their acts, enjoy numerous eternal and celestial regions, and are repeatedly born in the times of war. Even this is what Nārada, conversant with the Vedas, had said to the Vṛshṇis.
शब्दकल्पद्रुमः
Sanskrit
नरनारायणौ,
पुं,
(नरश्च नारायणश्च तौ ।)ऋषिविशेषौ तावेव श्रीकृष्णार्ज्जुनौ सम्भूतौ ।इति महाभारतम्
(यथा, देवीभागवते ।४ १३ ।“नरनारायणौ चैव चेरतुस्तप उत्तमम् ।प्रालेयाद्रिं समागत्य तीर्थे वदरिकाश्रमे
”)तयोरुत्पत्तिर्यथा, --“अथ चिन्तयतस्तस्य स्वान्तं गत्वा जनार्द्दनः ।तत् सर्व्वं ज्ञापयामास वराहवपुषो हितम्
ततो देहपरित्यागं कर्त्तुं समभवद्यदा ।तदा दंष्ट्राग्रघातेन नरसिंहं महाबलम्
सरभो भगवान् भर्गो द्बिधा मध्ये चकार ।नरसिंहे द्बिधाभूते नरभागेन तस्य तु
नर एव समुत्पन्नो दिव्यरूपी महानृषिः ।तस्य पञ्चास्यभागेन नारायण इति श्रुतः
अभवत् महातेजा मुनिरूपो जनार्द्दनः ।नरो नारायणश्चोभौ सृष्टिहेतू महामती
ययोः प्रभावो दुर्द्धर्षः शास्त्रे वेदे तपःसु
”इति कालिकापुराणे २९ अध्यायः
कल्पभेदे तौ धर्म्मपुत्त्रौ यथा, --“धर्म्मस्य दक्षदुहितर्य्यजनिष्ट मूर्त्त्यांनारायणो नर इति स्वत्पःप्रभावः ।दृष्ट्वात्मनो भगवतो नियमावलोपंदेव्यस्त्वनङ्गपृतना घटितुं शेकुः
”इति श्रीभागवते
(अनयोर्विशेषविवरणन्तु देवीभागवते स्कन्धस्य५ अध्यायमारभ्य द्रष्टव्यम्
)
वाचस्पत्यम्
Sanskrit
नरनारायणौ द्वि० व० नरश्च नारायणश्च ऋषिभेदयोःतयोः सम्भवकथा “तदा दंष्ट्राग्रघातेन नरसिंहं महाव-लम् सरभो भगवान् भर्गो द्बिधा मध्ये चकार ।नरसिंहे द्विधा भूते नरभागेण तस्य तु नर एव समुत्-पन्नो दिव्यरूपी महानृषिः तस्य पञ्चास्यभागेन नारा-यण इति श्रुतः अभवत् महातेजा मुनिरूपीजनार्दनः नरो नारायणश्चोभौ सृष्टिहेतू महामती ।ययोः प्रभावो दुर्द्धर्षः शास्त्रे वेदतपःसु च” कालिकापु० ३९ अ० ।एतच्च वाराहकल्पे अन्यकल्पे तु तौ घर्मस्य पुत्रौयथोक्तं भाग० अ० “धर्मस्य दक्षदुहितर्य्यजनिष्ट सूत्यांनारायणो नर इति स्वतपःप्रभावौ” स्वायम्भुवेमन्वन्तरे धर्मस्य चतुर्षु पुत्रेषु तौ द्वौ यथा “नारायणोहि विश्वात्मा चतुर्मूर्त्तिः सनातनः धर्मात्मजः सम्ब-भूव पितैवं मेऽभ्यभाषत कृते युगे महाराज! पुरास्वायम्भवेऽन्तरे नरो नारायण श्चैव हरिः कृष्णः ४स्वयम्भुवः तेषां नारायणनरौ तपस्तेपतुरव्ययौ ।वदर्य्याश्रममासाद्य शकटे कनकामये” भा० शा० ३३६ अ०