| YouTube Channel

नरकमुक्तः (narakamuktaH)

 
शब्दकल्पद्रुमः
Sanskrit
नरकमुक्तः, त्रि, (नरकात् मुक्तः ।) नरकागतः ।यथा, --“नरकात् प्रतिमुक्तस्तु पापयोनिषु जायते ।पतितात् प्रतिगृह्याथ खरयोनिं व्रजेद्बुधः
नरकात् प्रतिमुक्तस्तु कृमिर्भवति पातकी ।उपाध्यायं व्यलीकन्तु कृत्वा श्वा भवति द्विजः
तज्जायां मनसा वाञ्छंस्तद्द्रव्यं वाप्यसंशयम् ।गर्द्दभो जायते जन्तुर्म्मित्रस्यैवापमानकृत्
शत्रोरितरमाक्रुश्य शारिका संप्रजायते ।पितरौ पीडयित्वा तु कच्छपत्वञ्च जायते
भर्त्तुः पिण्डमुपाश्रन्तो हित्वान्यानि सेवयेत् ।सोऽपि मोहसमापन्नो जायते वानरो मृतः
न्यासापहर्त्ता नरकात् विमुक्तो जायते कृमिः ।असूयकश्च नरकान्मुक्तो भवति राक्षसः
विश्वासहर्त्ता नरो मीनयोनौ प्रजायते ।यवधान्यानि हृत्वा तु जायते मूषिको मृतः
परदाराभिमर्षात्तु वृको घोरोऽभिजायते ।भ्रातृभार्य्याप्रसङ्गत्वे कोकिलो जायते नरः
गुर्व्वादिभार्य्यागमनाच्छूकरो जायते नरः ।यज्ञदानविवाहानां विघ्नकर्त्ता भवेत् कृमिः
देवतापितृविप्राणामदत्वा योऽन्नमश्नुते ।प्रमुक्तो नरकाद्वापि वायसः प्रजायते
ज्येष्ठभ्रात्रवमानाच्चः क्रौञ्चयोनौ प्रजायते ।शूद्रश्च ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
तस्यामपत्यमुत्पाद्य काष्ठान्तःकीटको भवेत् ।कृतघ्नः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा
अशस्त्रं पुरुषं हत्वा नरः संजायते खरः ।कृमिः स्त्रीवधकर्त्ता बालहन्तावजायते
भोजनं चोरयित्वा तु मक्षिका जायते नरः ।हृत्वान्नञ्चैव मार्ज्जारस्तिलहृच्चैव मूषिकः
घृतं हृत्वा नकुलः काको मद्गुरमामिषम् ।मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलकः
अपो हृत्वा तु पापात्मा वायसः संप्रजायते ।हृते कांस्ये हारीतः कपोतो वा प्रजायते
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ।कार्पासिके हृते क्रौञ्चो वह्निहर्त्ता वकस्तथा
मयूरो वर्णकं हृत्वा शाकं पत्रञ्च जायते ।जीवञ्जीवकतां याति रक्तवस्त्रापहृन्नरः
छुच्छुन्दुरिः शुभान् गन्धान् वंशं हृत्वा शशोभवेत् ।षण्डः कलापहरणे काष्ठहृत् काष्ठकीटकः
पुष्पापहृद्दरिद्रस्तु पङ्गुर्यवापहृन्नरः ।शाकहर्त्ता हारीतस्तोयहर्त्ता चातकः
गृहहृन्नरकान् गत्वा रौरवादीन् सुदारुणान् ।तृणगुल्मलतावल्लीत्वक्सारतरुतां व्रजेत्
एष एव क्रमो दृष्टो गोसुवर्णादिहारिणाम् ।विद्यापहारी मूकश्च गत्वा नरकान् बहून्
असमिद्धेऽग्नौ हुते मन्दाग्निः संप्रजायते ।परनिन्दाकृतघ्नत्वं परमर्म्मावघातनम् ।नैष्ठुर्य्यं निर्घृणत्वञ्च परदारोपसेवनम् ।परस्वहरणाशौचं देवतानाञ्च कुत्सनम्
निकृत्य वञ्चनं नणां कार्पण्यञ्च नृणां बुधः ।उपलक्षणादि जानीयात् मुक्तानां नरकादनु
”प्रसङ्गात् स्वर्गागतलक्षणमप्याह ।“दया भूतेषु संवादः परलोकं प्रतिक्रिया ।सत्यं भूतहिता चोक्तिर्व्वेदप्रामाण्यदर्शनम्
गुरुदेवर्षिपूजा केवलं साधुसङ्गमः ।सत्क्रियाभ्यसनं मैत्री स्वर्गिणां लक्षणं विदुः
अष्टाङ्गयोगविज्ञानात् प्राप्नोत्यात्यन्तिकं लयम्
”इति गारुडे कर्म्मविपाकः २२९ अध्यायः