नरककुण्ड (narakakuNDa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishSpoken Sanskrit
English नरककुण्ड narakakuNDa pit in hell for tormenting the wicked
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte Hindi
Hindiनरककुण्डम्
नरकः-कुण्डम् -
नरक का गढ़ा
Shabdartha Kaustubha
Kannadaनरककुण्ड
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಯಮಲೋಕದಲ್ಲಿ ಜೀವಾತ್ಮನು ತನ್ನ ಪಾಪಕೃತ್ಯಗಳಿಗೆ ಶಿಕ್ಷೆಯನ್ನು ಅನುಭವಿಸುವ ಯಾತನಾಸ್ಥಾನ
शब्दकल्पद्रुमः
Sanskritनरककुण्डं, (नरकस्य कुण्डम् ।) यातनास्थानम् । तद्यथा, यम उवाच । “नरकाणाञ्च कुण्डानि सन्ति नानाविधानि च । नानापुराणभेदेननामभेदानि तानि च ॥
विस्तृतानि गभीराणि क्लेशदानि च जीविनाम् । भयङ्कराणि घोराणि हे वत्से ! कुत्सितानि च ॥
षडशीतिश्च कुण्डानिसंयमन्याञ्च सन्ति च । निबोध तेषां नामानि प्रसिद्ध्वानि श्रुतौ सति ॥
” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । २७ । २८ अध्यायौ ॥
तत्र नरककुण्डनामानि पापभेदात् कुण्डविशेषगामिनःवह्निकुण्डम् १ कटुवाचा बान्धवदग्धकृत् १तप्तकुण्डम् २ ब्राह्मणातिथिभोजनाप्रदः २क्षारकुण्डम् ३ निषिद्धदिने वस्त्रे क्षारसंयोजकः ३विट्कुण्डम् ४ ब्रह्मवृत्त्यपहारकः ४मूत्रकुण्डम् ५ परतडागं खनित्वोत्सर्ज्जकः ५श्लेष्मकुण्डम् ६ एकाकी मिष्टभोजी ६गरकुण्डम् ७ पितृमातृगुरुभार्य्याद्यपोषकः ७दूषिकाकुण्डम् ८ अतिथिं दृष्ट्वा वक्रचक्षुःकारी ८वसाकुण्डम् ९ विप्राय दत्त्वा तद्द्रव्यमन्यस्मै दाता ९शुक्रकुण्डम् १० परस्त्रीगामी परपुंगामिनी च १०असृक्कुण्डम् ११ गुर्व्वादिताडकस्तद्रक्तपातकारकश्च ११अश्रुकुण्डम् १२ हरिसङ्गीतरुदद्गायद्गद्गदभक्तोपहास-कृत् १२गात्रमलकुण्डम् १३ शश्वद्शुद्धचित्तः खलताकारी च १३कर्णविट्कुण्डम् १४ वधिरोपहासकृत् १४मज्जकुण्डम् १५ लोभात् स्वभोजनार्थं जीवहन्ता १५नरककुण्डनामानि पापभेदात् कुण्डविशेषगामिनःमांसकुण्डम् १६ अर्थलोभात् कन्याविक्रायकः १६नखकुण्डम् १७ श्राद्धोपवासादिषु संयमत्यागी १७लोमकुण्डम् १८ श्राद्धोपवासादिषु संयमत्यागी १८केशकुण्डम् १९ सकेशपार्थिवशिवलिङ्गार्च्चकः १९अस्थिकुण्डम् २० विष्णुपदे पितृपिण्डादाता २०ताम्रकुण्डम् २१ गुर्व्विणीगामी २१लौहकुण्डम् २२ ऋतुस्नातावीरयोरन्नभुक् २२तीक्ष्णकण्टक-कुण्डम् २३ कटुवाचा स्वामिताडिका २३विषकुण्डम् २४ विषेण जीवनहन्ता २४घर्म्मकुण्डम् २५ सघर्म्महस्तेन देवद्रव्यस्पर्शकृत् २५तप्तसुराकुण्डम् २६ शूद्रानुज्ञातः शूद्रान्नभोजी २६प्रतप्ततैलकुण्डम् २७ दण्डेन वृषताडकः २७कुन्तकुण्डम् २८ कुन्तलौहवडिशैर्जीवहन्ता २८कृमिकुण्डम् २९ मत्स्याभुग्विप्रो वृथामांसभुक् हरिनैवेद्या-भुक् च २९नरककुण्डनामानि पापभेदात् कुण्डविशेषगामिनःपूयकुण्डम् ३० शूद्रयाजी तत्श्राद्धभुक् तच्छवदाही चब्राह्मणः ३०सर्पकुण्डम् ३१ श्रीकृष्णपदचिह्नमस्तकस्य सर्पस्य हन्ता ३१मशकुण्डम् ३२ विधिं दत्त्वा क्षुद्रजन्तुहन्ता ३२दंशकुण्डम् ३३ विधिं दत्त्वा जीवहन्ता ३३गरलकुण्डम् ३४ मक्षिकां हत्वा मधुग्राही ३४वज्रदंष्ट्रकुण्डम् ३५ अदण्डविप्रयोर्द्दण्डकृत् ३५वृश्चिककुण्डम् ३६ अर्थलोभात् प्रजादण्डकृत् ३६शरकुण्डम् ३७ शस्त्रधारी धावकः सन्ध्याहरि-भक्तिहीनश्च ब्राह्मणः ३७शूलकुण्डम् ३८ शस्त्रधारी धावकः सन्ध्याहरि-भक्तिहीनश्च ब्राह्मणः ३८खड्गकुण्डम् ३९ शस्त्रधारी धावकः सन्ध्याहरि-भक्तिहीनश्च ब्राह्मणः ३९गोलकुण्डम् ४० अल्पदोषेण कारायां प्रजाबन्धनकृत् ४०नक्रकुण्डम् ४१ जलादुत्थितनक्रादि हन्ता ४१काककुण्डम् ४२ कामेन परस्त्रीवक्षःश्रोण्यास्यद्रष्टा ४२सञ्चानकुण्डम् ४३ स्वर्णचौरः ४३वाजकुण्डम् ४४ ताम्रलौहचौरः ४४वज्रकुण्डम् ४५ देव-देवद्रव्ययोश्चौरः ४५तप्तपाषाणकुण्डम् ४६ देव-द्विजयो रौप्य-गो-वस्त्राणां चौरः ४६तीक्ष्णपाषाण-कुण्डम् ४७ देव-द्विजयोः पित्तल-कांस्यपात्रचौरः ४७लालाकुण्डम् ४८ वेश्यान्नभुक् तद्वृत्तिजीवी च ४८मसीकुण्डम् ४९ म्लेच्छसेवी मसीजीवी च ब्राह्मणः ४९चूर्णकुण्डम् ५० देव-द्विजयोः शस्यताम्बूलासनचौरः ५०चक्रकुण्डम् ५१ विप्रद्रव्यं हृत्वा चक्रकारी ५१वक्रकुण्डम् ५२ विप्र-बान्धवयोर्व्वक्रताकारी ५२कूर्म्मकुण्डम् ५३ हरिशयने कूर्म्ममांसभुक् ब्राह्मणः ५३ज्वालाकुण्डम् ५४ देवद्बिजयोर्घृततैलादिहृत् ५४भस्मकुण्डम् ५५ देवद्बिजयोर्घृततैलादिहृत् ५५दग्धकुण्डम् ५६ देवद्विजयोर्द्धात्रीगन्धतैलद्रव्याणामपहर्त्ता ५६तप्तशूर्म्मीकुण्डम् ५७ बलखलत्वादिना परभूमिहरः ५७असिपत्रकुण्डम् ५८ अर्थलोभात् खड्गेन जीविच्छेदीनरघाती च ५८क्षुरधारकुण्डम् ५९ ग्रामनगरादिदाहकृत् ५९नरककुण्डनामानि पापभेदात् कुण्डविशेषगामिनःसूचीमुखकुण्डम् ६० परकर्णे मुखं दत्त्वा परनिन्दकः परदोष-श्लाघी वेदब्राह्मणनिन्दकश्च ६०गोधामुखकुण्डम् ६१ गृहं भित्त्वा वस्तुगोच्छागमेषचौरः ६१नक्रमुखकुण्डम् ६२ सामान्यद्रव्यचौरः ६२गजदंशकुण्डम् ६३ गजतुरगनरचौरः ६३गोमुखकुण्डम् ६४ जलपिबद्गोवारकः ६४कुम्भीपाककुण्डम् ६५ गो-स्त्री-भिक्षु-भ्रूण-ब्रह्महा अगम्यागामीदीक्षासन्ध्याहीनस्तीर्थप्रतिग्राही ग्राम-याजी देवलः शूद्रसूपकारो वृषलीपतिश्च ६५कालसूत्रकुण्डम् ६६ वेश्यान्नभुक् तत्संसर्गी च ६६अवटोदकुण्डम् ६७ कुलटादिषड्वेश्यागामी द्विजः ६७अरुन्तुदकुण्डम् ६८ चन्द्रसूर्य्यग्रहणे निषिद्धकालभोजी ६८पांशुभोजकुण्डम् ६९ एकस्मै वाक्प्रदत्तकन्याया अन्यस्मै दाता ६९पाशवेष्टकुण्डम् ७० दत्तापहारी ७०शूलपोतकुण्डम् ७१ अभक्त्या शिवलिङ्गपूजकः ७१प्रकम्पनकुण्डम् ७२ विप्रदण्डकृत् तत्कम्पकृद्भयदायी च ७२उल्कामुखकुण्डम् ७३ सकोपवदना स्वामिनि कटुवादिनी ७३अकूपकुण्डम् ७४ शूद्रभोग्या ब्राह्मणी ७४वेधनकुण्डम् ७५ वेश्या । सा च पञ्चषट्पुंगमनाद्भवति ७५दण्डताडनकुण्डम् ७६ युङ्गी । सा च सप्ताष्टपुंगमनाद्भवति ७६जालबद्धकुण्डम् ७७ महावेश्या । साचाष्टाधिकपुंगमनाद्भवति ७७देहचूर्णकुण्डम् ७८ कुलटा । सा च पुंद्वयगमनाद्भवति ७८दलनकुण्डम् ७९ स्वैरिणी । वृषली । सा चतुःपुंगमनाद्भवति ७९शोषणकुण्डम् ८० धृष्टा । पुंश्चली । सा च त्रिपुंगमनाद्भवति ८०कषकुण्डम् ८१ सवर्णपरदारी ८१सूर्पकुण्डम् ८२ ब्राह्मणीगामी क्षत्त्रियो वैश्यश्च ८२ज्वालामुखकुण्डम् ८३ करे तुलसीगङ्गाजलदेवशिलाश्च कृत्वा प्रति-ज्ञाकृत्तदपालको मिथ्याशपथी मित्रद्रोहीविश्वासघाती मिथ्यासाक्ष्यदश्च ८३जिह्मकुण्डम् ८४ नित्यक्रियाहीनो देववागनास्तिको मन्दोप-हासी च ८४धूमान्धकुण्डम् ८५ देवविप्रयोर्द्धनहारी ८५नागवेष्टनकुण्डम् ८६ वैद्यदैवज्ञवृत्तिकारी लाक्षालोहव्यापारीरसादिविक्रयी च ब्राह्मणः ८६
वाचस्पत्यम्
Sanskritनरककुण्ड यातनास्थानभेदे “यन उवाच नरका-णाञ्च कुण्डानि सन्ति नानाविधानि च । नानापुराण-भेदेन नामभेदानि तानि च । भयङ्कराणि घोराणिहे वत्स! कुत्सितानि च । षडशीतिश्च कुण्डानि संयम-न्याञ्च सन्ति च । निबोध तेषां नामानि प्रसिद्धानि श्रुतौस्मृतौ” इति ब्रह्मवैवर्त्ते प्रकृतिख० २७ । २८ अ० ।नरकभेदकुण्डानि पापभेदात् तत्र गामिनः१ वह्निकुण्डम्--कटुबाचा बान्धबोत्पीड्कः ।२ तप्तकुण्डम्--ब्राह्मणातिथिभोजनाप्रदायी ।३ क्षारकुण्डम्--निषिद्धदिने वस्त्रे क्षारसंयोजकः ।४ विट्कुण्डम्--ब्रह्मवृत्त्यपहारकः ।५ मूत्रकण्डम्--परतडागं स्वनित्वोत्सर्जकः ।६ श्लेष्मकुण्डम्--एकाकी मिष्टभोजी ।७ गरकुण्डम्--पितृमातृगुरुभार्य्याद्यपोषकः ।८ दूषिकाकुण्डम्--अतिथिं दृष्ट्वा वक्रचक्षुःकारी ।९ वसाकुण्डम्--विप्राय प्रतिश्रुत्य तद्द्रव्यमन्यस्मै दाता ।१० शुक्रकुण्डम्--परस्त्रीगामी ना परपुंगामिनी च स्त्री ।११ असृक्कुण्डम्--गुर्वादिताडकस्तद्रक्तस्रावकश्च ।१२ अश्रुकुण्डम्--हरिसङ्गीतैरुदद्गायद्गद्गदभक्तोपहासकृत् ।१३ गात्रमलकुण्डम्--शश्वदशुद्धचित्तः खलताकारी च ।१४ कर्णविट्कुण्डम्--बधिरोपहासकृत् ।१५ मज्जकुण्डम्--लोभात् स्वभोजनार्थं जीवहन्ता ।१६ मांसकुण्डम्--अर्थलोभात् कन्याविक्रेता ।१७ नखकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी ।१८ लोमकुण्डम्--श्राद्धोपबासादिषु संयमत्यागी ।१९ केशकुण्डम्--सकेशपार्थिवशिवलिङ्गार्चकः ।२० अस्थिकुण्डम्--विष्णुपदे पितृपिण्डादायो ।२१ ताम्रकुण्डम्--गुर्विणीगामी ।२२ लौहकुण्डम्--ऋतुस्नाताऽवीरयोरन्नभोजी ।२३ तीक्ष्णकण्टककुण्डम्--कटुवाचा स्वामितर्जिका स्त्री ।२४ विषकुण्डम्--विषेण जीवहन्ता ।२५ घर्मकुण्डम्--सघर्भहस्तेन देवद्रव्यस्पर्शी ।२६ तप्तसुराकुण्डम्--शूद्रानुज्ञातः शूद्रान्नभोजी ।२७ प्रतप्ततैलकुण्डम्--दण्डेन वृषताडकः ।२८ कुन्तकुण्डम्--कुन्तलौहवडिशैर्जीवहन्ता ।२९ कृमिकुण्डम्--वृथामांसमत्स्यभुग्विप्रो हरेरनैवेद्यभुक् च ।३० पूयकुण्डम्--शूद्रयाजी तस्य श्राद्धभुक् तच्छवदाही च ।३१ सर्पकुण्डम्--श्रीकृष्णपदचिह्नमस्तक्स्य सर्पस्य हन्ता ।३२ ग्रशककुण्डम्--विधिं हित्वा क्षुद्रजन्तुहन्ता ।३३ दंशकुण्डम्--विधिं हित्वा जीवहन्ता ।३४ गरलकुण्डम्--मक्षिकां हत्वा मधुग्राही ।३५ वज्रदंष्ट्रकुण्डम्--अदण्ड्यविप्रयोर्दण्डकृत् नृपः ।३६ वृश्चिककुण्डम्--अर्थलोभात् प्रजादण्डकृत् नृपः ।३७ शरकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-हीनश्च ब्राह्मणः ।३८ शूलकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-हीनश्च ब्राह्मणः ।३९ खङ्गकुण्डम्--शस्त्रधारी धावकः सन्ध्याहरिभक्ति-हीनश्च ब्राह्मणः ।४० गोलकुण्डम्--अल्पदोषेण कारायां प्रजाबन्धनकृत् नृपा ।४१ नक्रकुण्डम्--जलादुत्थितनक्रादिहन्ता ।४२ काककुण्डम्--कामेन परस्त्रीवक्षःश्रोण्यास्यद्रष्टा ।४३ सञ्चालकुण्डम्--स्वर्णचौरः ।४४ वाजकुण्डम्--ताम्रलौहचौरः ।४५ वज्रकुण्डम्--भूदेवदेवद्रव्ययोश्चौरः ।४६ तप्तपाषाणकुण्डम्--देवद्विजयोरौप्यगोवस्त्राणां चौरः ।४७ तीक्ष्णपाषाणकुण्डम्--देवद्विजयोःपित्तलकांस्यपात्रचौरः ।४८ लालाकुण्डम्--वेश्यान्नभुक् तद्वृत्तिजीवी च ।४९ मसीकुण्डम्--म्लेच्छसेवी मसीजीवी च व्राह्मणः ।५० चूर्णकुण्डम्--देवद्विजयोः शस्यताम्बूलासनचौरः ।५१ चक्रकुण्डम्--विप्रद्रव्यं हृत्वा चक्रकारो ।५२ वक्रकुण्डम्--विप्रबान्धवयोर्वक्रताचारी ।५३ कूर्मकुण्डम्--हरिशयने कूर्ममांसभुक् ब्राह्मणः ।५४ ज्वालाकुण्डम्--देवद्विजयोर्घृततैलादिहृत् ।५५ भस्मकुण्डम्--देवद्विजयोर्घृततैलादिहृत् ।५६ दण्डकुण्डम्--देवद्विजयोर्द्धात्रीगन्धतैलद्रव्याणामपहर्त्ता५७ तप्तशूर्म्मीकुण्डम्--बलखलत्वादिना परभूमिहरः ।५८ असिपत्रकुण्डम्--अर्थलोभात् स्वड्गेन नरथाती ।५९ क्षुरधारकुण्डम्--ग्रामनगरादिदाहकारी ।६० सूचीमुखकुण्डम्--परकर्णे मुखं दत्त्वा परनिन्दकःपरदोषोद्द्वोषी वेदब्राह्मणनिन्दकश्च ।६१ गोधामुखकुण्डम्--गृहं भित्त्वा वस्तुगोच्छागमेषचौरः ।६२ नक्रमुखकुण्डम्--सामान्यद्रव्यचौरः ।६३ गजदंशकुण्डम्--गजतुरगनरचौरः ।६४ गोमुखकुण्डम्--गोर्जलपानवारकः ।कुम्भीपाककुण्डम्--गोस्त्रीभिक्षुभ्रूणब्रह्महाऽगम्यागामी दी-क्षासन्ध्याहीनस्तीर्थप्रतिग्राही ग्रामयाजी देवलः शूद्र-सूपकारी वृषलीपतिश्च ।६६ कालसूत्रकुण्डम्--नेश्यान्नभुक् तत्संसर्गी च ।६७ अवटोदकुण्डम्--कुलटादिषड्वेश्यागामी द्विजः ।६८ अरुन्तुदकुण्डम्--चन्द्रसूर्यग्रहणे निषिद्धकाले भोजी ।६९ पांशुभोजकुण्डम्--एकस्मै वाक्प्रदत्तकन्याया दोषं विनाअन्यस्मै दाता ।७० पाशवेष्टकुण्डम्--दत्तापहारी ।७१ शूलप्रोतकुण्डम्--अभक्त्या शिवलिङ्गपूजकः ।७२ प्रकम्पनकुण्डम्--विप्रदण्डकृत् तत्कम्पकृद्भयदायी च ।७३ उल्कामुखकुण्डम्--सकोपवदना स्वामिनि कतुवादिनी ।७४ अकूपकुण्डम्--शूद्रभोग्या व्राह्मणी ।७५ वेदनकुण्डम्--पञ्चषट्पुङ्गमनात् वेश्या ।७६ दण्डताडनकुण्डम्--सप्ताष्टपुंगमनात् रण्डा ।७७ जालबद्धकुण्डम्--अष्टाधिकपुंगमनात् महावेश्या ।७८ देहचूर्णकुण्डम्--पुंद्वयगमनात् कुलटा ।७९ दलमकुण्डम्--चतुःपुंगमनात् स्वैरिणी वृषली च ।८० शोषणकुण्डम्--त्रिपुंगमनात् धृष्टा पुंश्चली ।८१ कषकुण्डम्--सवर्णपरटारगामी ।८२ सूर्पकुण्डम्--व्राह्मणीगमनकारको क्षत्रियोवैश्यश्च ।८३ ज्वालामुखकुण्डम्--करे तुलसीगङ्गाजलदेवशिलाश्च धृत्वाप्रतिज्ञाकृत्तदपालको मिथ्याशषथी मित्रद्रोही विश्वा-सघाती मिथ्यासाक्ष्यदश्च ।८४ जिक्ष्मंकुण्डम्--नित्यक्रियाहीनो देवयजनेऽनास्थिकोम-न्दोपहासी च ।८५ धूमान्धकुण्डम्--देवविप्रयोर्धनहारी ।८६ नागवेष्टनकुण्डम्--वैद्यदैवज्ञवृत्तिहारी लाक्षालोहव्या-पारी रसादिविक्रयी च ब्राह्मणः” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
