| YouTube Channel

नरकः (narakaH)

 
Apte
English
नरकः [narakḥ] कम् [kam], कम् 1 Hell, infernal regions (corresponding to the realm of Pluto
there are said to be 21 different parts of these regions where different kinds of tortures are inflicted upon sinners तामिस्र, अन्धतामिस्र, महारौरव, रौरव, नरक, कालसूत्र, महानरक, संजीवन, माहवीचि, तपन, संप्रतापन, संहात, काकोल, कुड्मल, प्रतिमूर्तिक, लोहशङ्कु, ऋजीष, पन्था, शाल्मली, असितपत्रवन, लोहदारक are the 21 Narakas
cf.
Ms.*
4. 88-9).
A liquor-vessel
नरकं मद्यभाजने Nm. -कः
N.
of a demon, king of Prāgjyotiṣa. [According to one account he carried off Aditi's ear-rings and Kṛiṣna at the request of the gods killed him in a single combat and recovered the jewels. According to another account, Naraka assumed the form of an elephant and carried off the daughter of Viśvakarman and outraged her. He also seized the daughters of Gandharvas, gods, men and the nymphs themselves, and collected more than 16 damsels in his harem. These, it is related, were transferred by Kṛiṣṇa to his own harem after he had slain Naraka. The demon was born of earth, and hence called 'Bhauma']
Comp.
-अन्तकः, -अरिः, -जित्, -रिपुः
m.
epithets of Kṛiṣṇa
नरकरिपुणा सार्धं तेषां सभीमकिरीटिनाम्
Ve.*
3.24.
आमयः the soul after death.
a ghost, spirit. -आवासः an inhabitant of hell. -कुण्डम् a pit in hell where the wicked are tormented (86 such places are enumerated). -देवता 'the deity of hell', Nirṛiti (निर्ऋति). -रूपिन्
a.
hellish.-वासः the abode in hell. -स्या the Vaitariṇī river.
Apte 1890
English
नरकः,
कं Hell, infernal regions
(corresponding to the realm of Pluto
there are said to be 21 different parts of these regions where different kinds of tortures are inflicted upon sinners).
कः N. of a demon, king of Prāgjyotiṣa. [According to one account he carried off Aditi's ear-rings and Kṛṣṇa at the request of the gods killed him in a single combat and recovered the jewels. According to another account, Naraka assumed the form of an elephant and carried off the daughter of Viśvakarman and outraged her. He also seized the daughters of Gandharvas, gods, men and the nymphs themselves, and collected more than 16000 damsels in his harem. These, it is related, were transferred by Kṛshṇa to his own harem after he had slain Naraka. The demon was born of earth, and hence called ‘Bhauma.’].
Comp.
अंतकः,
अरिः,
जित् m. epithets of Kṛṣṇa.
आमयः {1} the soul after death. {2} a ghost, spirit.
आवासः an inhabitant of hell.
कुंडं a pit in hell where the wicked are tormented
(86 such places are enumerated).
देवता ‘the deity of hell’, Nirṛti (निरृति).
रूपिन् a. hellish.
स्था the Vaitariṇī river.
Apte Hindi
Hindi
नरकः
पुं*
- नृणाति क्लेशं प्रापयति- नृ + वुन्
"दोज़ख, घृण्य प्रदेश"
Wordnet
Sanskrit
Synonyms:
नरकः
noun
असुरविशेषः।
"नरकः विप्रचित्तेः पुत्रः आसीत्।"
Synonyms:
नरकः
noun
अशुभं कष्टदायकं स्थानम्।
"आतङ्कवादेन अस्माकं नगरं नरकमेव जातम्।"
Synonyms:
नरकः, नारकः, निरयः, दुर्गतिः
noun
पापिनां यातनास्थानम्।
"मृत्योः पश्चाद् पापिनः जनाः नरके गच्छन्ति।"
Synonyms:
नरकः, भौमः
noun
असुरविशेषः
"नरकः विष्णोः तथा भूमेः पुत्रः आसीत्"
Synonyms:
नरकः
noun
तीर्थस्थानविशेषः
"नरकस्य उल्लेखः महाभारते वर्तते"
वैजयन्तीकोषः
Sanskrit
Word: नरकः
Root: नरक
Gender: पुं
Number: all
अर्थः पापभोगस्थानम्
Meaning(s):
Hell
Shloka(s):
1|2|37|1 नरको नारकोऽप्येष निरयो दुर्गतिः स्त्रियाम्। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
1|2|37|1 नरकः (नरक) (पुं) Hell पापभोगस्थानम्
1|2|37|1 नारकः (नारक) (पुं) Epithet of Naraka पापभोगस्थानम्
1|2|37|1 निरयः (निरय) (पुं) Epithet of Naraka पापभोगस्थानम्
1|2|37|1 दुर्गतिः (दुर्गति) (स्त्री) Epithet of Naraka पापभोगस्थानम्
Related word(s):
जातिः अलौकिकस्थानम्
अन्यसंबन्धाः नारकः
परा_अपरासंबन्धः रौरवः
Tamil
Tamil
நரக: : நரகம்.
अमरकोशः
Sanskrit
Word: नरकः
Root: नरक
Gender: पुं
Number: all
Meaning(s):
hell
Shloka(s):
1|9|1|1 स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्। (नरकवर्गः)
Synonym(s):
1|9|1|1 नारकः (नारक) (पुं) hell, hellish, infernal, relating to hell, inhabitant of hell
1|9|1|1 नरकः (नरक) (पुं)
1|9|1|1 निरयः (निरय) (पुं)
1|9|1|1 दुर्गतिः (दुर्गति) (स्त्री) poor, hell, poverty, poorness, distress, misfortune
Related word(s):
जातिः अलौकिकस्थानम्
परा_अपरासंबन्धः नरकभेदः
अवयव_अवयवीसंबन्धः नारकीया_अश्रीकरम्
शब्दकल्पद्रुमः
Sanskrit
नरकः,
पुं,
(नृणाति क्लेशं प्रापयतीति नॄ +“कृञादिभ्यः संज्ञायां वुन् ।” उणां ३५ ।इति वुन् ।) देवरात्रिप्रभेदः इत्युणादिकोषः
(नरस्य मनुष्यस्य कं शिरो यत्र ।) दैत्यविशेषः ।स पृथिव्या गर्भे वराहदेवाज्जातः यथा, --“रजस्वलाया गोत्राया गर्भे वीर्य्येण पोत्रिणः ।यतो जातस्ततो भूतो देव्पुत्त्रोऽपि सोऽसुरः
”तस्य नामकारणं यथा, --“मानुषस्य शिरस्तत्र मृतस्य प्राप्य बालकः ।स्वशिरस्तत्र विन्यस्य रुदंस्तस्थौ क्षणं तदा
नरस्य शीर्षे स्वशिरो निधाय स्थितवान् यतः ।तस्मात्तस्य मुनिश्रेष्ठो नरकं नाम वै व्यधात्
”तस्य राज्यं यथा, --श्रीभगवानुवाच ।“करतोया सत्यगङ्गा पूर्व्वभागावधिश्रिता ।यावल्ललितकान्तास्ति तावद्देशं पुरं तदा
अत्र देवी महामाया योगनिद्रा जगत्प्रसूः ।कामाख्यारूपमादाय सदा तिष्ठति शोभना
अत्रास्ति नदराजोऽयं लौहित्यो ब्रह्मणः सुतः ।अत्रैव दशदिक्पालाः स्वे स्वे पीठे व्यवस्थिताः
अत्र स्वयं महादेवो ब्रह्मा चाहञ्च सर्व्वदा ।चन्द्रः सूर्य्यश्च सततं वसतेऽत्रैव पुत्त्रक !
सर्व्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् ।अत्र श्रीः सर्व्वतोभद्रा भोग्यमत्र सदा बहु
अत्रैव हि स्थितो ब्रह्मा प्राङ्नक्षत्रं ससर्ज्ज ।ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा
अत्र त्वं वस भद्रन्ते ह्यभिषिक्तो मया स्वयम् ।कृतदारः सहामात्यै राजा भूत्वा महाबल !
”तस्य महिषी माया यथा, --“ततो विदर्भराजस्य पुत्त्रीं मायाह्वयां हरिः ।पुत्त्रार्थे वरयामास नरकस्य समां गुणैः
तामुद्बाह्य हृषीकेशस्तस्मिन् पुरवरे स्वयम् ।तया समं स्वतनयं राजत्वेनाभ्यषेचयत्
”तस्य पुत्त्रा यथा, --“ऋतुमत्याञ्च जायायां कालेन नरकः क्रमात् ।भगदत्तं महाशीर्षं मदवन्तं सुमालिनम्
चतुरो जनयामास पुत्त्रांस्तांश्च क्षितेः सुतः ।महासत्त्वान् महावीर्य्यान् देवैरन्यैर्दुरासदान्
”इति कालीपुराणे ३९ अध्यायः
पापिनां यातनास्थानम् तत्सङ्ख्या यथा, --“पातालानाञ्च सप्तानां लोकानाञ्च यदन्तरम् ।सुचिरं तानि कथ्यन्ते भुवनानि चतुर्द्दश
अष्टाविंशति विख्यातास्ततो नरककोटयः ।नरकाणामधस्तात्तु धूमः कालाग्निसम्भवः
तस्याधस्तादनन्ताख्यो रुद्रः सर्व्वमयो महान् ।तदधो धर्म्मचक्रन्तु येनेदं धार्य्यते जगत्
”इति वह्निपुराणे गणभेदनामाध्यायः
तत्पर्य्यायः नारकः निरयः दुर्गतिः ।इत्यमरः
*
नरकसंख्या यथा, --“उष्मोर्द्ध्व नरकाः शक्र ! कोट्यः पञ्चाशमानतः ।चत्वारिंशन्मितं तेषां प्रधानं तन्निबोधत
”उष्मोर्द्धे पाताले कालाग्निरुद्रस्य पुरोर्द्ध्व ।“अवीचिः कृमिभक्ष्यश्च तथा वैतरणी महान् ।कूटशाल्मलिरुच्छ्वासयुग्मपर्व्वतरौरवम्
निरुच्छ्वासः पूतिमांसस्तप्तलाक्षास्थितं जलम् ।क्रकच्छेदस्तथा पङ्कं कण्ठायसमुतापिबम्
पूतिपूर्णस्तथा मेदस्तम्भश्च रुधिरं वसा ।तामिस्रस्त्वपतुण्डश्च तीक्ष्णासिश्च नपुंसकः ।लौहतप्तस्त्रियो भीमा अङ्गारराशिकोपरि ।कुम्भीपाकः क्षुरस्येव्यः सञ्जीवनसुतापनम्
कालसूत्रं महापङ्कं शीतोष्णं क्षुरमेव ।अम्बरीषं तथा घोरं महारौरवसंज्ञकः
सूचीमुखेक्षुयन्त्रश्च तैलं तप्तत्रपुस्तथा ।असिपत्रं तथा शास्त्रं भूमिर्वागपहारिका
”इति देवीपुराणम्
नरकागामिनो यथा, --यम उवाच ।“न गच्छन्ति नरा घोरान् बहवोऽधर्म्मनिर्म्मि-तान् ।वधांश्च सुबहूंस्तत्र प्राप्नुवन्ति तपोधन !
विस्तरेण तु तत् सर्व्वं ब्रवीमि मुनिसत्तम ! ।श्रूयतां तन्महाभाग ! श्रुत्वा चैवोपधारय
नाग्निचिन्नरकं याति सत्पुत्त्री भूमिदः ।शूरश्च शतवर्षी वेदानाञ्चैव पारगः
पतिव्रता गच्छन्ति सत्यवाक्याश्च ये नराः ।अजिताश्चाशठाश्चैव स्वामिभक्ताश्च ये नराः
तिलं गाश्च हिरण्यञ्च पृथिवीञ्चापि शाश्वतीम् ।ब्राह्मणेभ्यः प्रयच्छन्ति गच्छन्ति संशयः
स्वदारनिरता दान्ताः परदारविवर्ज्जकाः ।सर्व्वभूतात्मभूताश्च सर्व्वभूतानुकम्पकः
गच्छन्ति तु तं देशं पापिष्ठं तमसावृतम् ।यातनास्थानसंपूर्णं हाहाप्रतिभयस्वनम्
ज्ञानवन्तो द्विजा ये ये विद्यापरं गताः ।उदासीना गच्छन्ति स्वाम्यर्थे हता नराः
गच्छन्त्यत्र दातारः सर्व्वभूतहिते रताः ।शुश्रूषका मातृपित्रोर्न गच्छन्ति संशयः
अहिंसका गच्छन्ति ब्रह्मचर्य्यव्यवस्थिताः ।पतिव्रता दानवन्तो द्विजभक्ताश्च ये नराः
यथोक्तं यजमानाश्च सत्रयाजिन एव ।चातुर्म्मास्यकरा ये ये द्विजा आहिताग्नयगुरुचित्तानुपालाश्च कृतिनो मौनयन्त्रिताः ।नित्यस्वाध्यायिनो दान्ताः सदा सभ्याश्च ये नराःमानवान् पूजयन्तो वै आत्मभावेन भाविताः ।अपर्व्वमैथुना ये गच्छन्ति द्बिजोत्तमाः
ब्राह्मणा अमरत्वञ्च प्राप्नुवन्ति संशयः
निराशाः सर्व्वकामेभ्यो निराशाः सुजितेन्द्रियाः ।न गच्छन्ति हि तं घोरं यत्र ते पापकर्म्मिणः
”इति वराहपुराणम्
*
नरकगामिनो यथा, --नारद उवाच ।“दुष्कर्म्माण्यपि वक्ष्यामि नरकंयैः प्रयान्ति हि ।सर्व्वेष्वेव तु कार्य्येषु देवपूर्व्वेषु भूमिप !
हन्ति पुत्त्रान् पशून् कृत्स्नान् ब्राह्मणातिक्रमःकृतः ।गुर्व्वर्थं वा भयार्त्तं वा वर्ज्जयित्वा महीपते ! ।येऽनृतं कथयन्ति स्म ते वै निरयगामिनः
प्रपाणाञ्च सभानाञ्च संक्रमाणाञ्च मारिष ।आगाराणाञ्च भेत्तारो नरा निरयगामिनः
ये परस्वापहर्त्तारः परस्वानाञ्च नाशकाः ।सूचकाश्च परेषां हि ते नरा नरकानुगाः
सूचकाः सन्धिभेत्तारः परवृत्त्युपजीविनः ।अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः
पाषण्डा दूषकाश्चैव समयानाञ्च दूषकाः ।ये प्रत्यवस्थिताश्चैव ते वै निरयगामिनः
वृत्तिच्छेदं गृहच्छेदं दानच्छेदञ्च पार्थिव ! ।मित्रच्छदं तथाशायाः कृत्वा नरकगामिनः
विषमव्यवहाराश्च विषमाश्चैव बुद्धिषु ।लाभेषु विषमाश्चैव नरा निरयगामिनः
कृताशं कृतनिर्व्वेशं कृतभक्तं कृतश्रमम् ।भेदैर्ये व्यवकर्षन्ति ते वै निरयगामिनः
द्यूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः ।प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः
वेदविक्रयिणश्चैव वेदानाञ्चैव दूषकाः ।वेदानां लेखकाश्चैव ते वै निरयगामिनः
केशविक्रायका राजन् ! विषविक्रायकाश्च ये ।क्षीरविक्रायकाश्चैव ते वै निरयगामिनः
चातुराश्रम्यवाह्याश्च श्रुतिवाह्याश्च ये नराः ।विकर्म्मभिश्च जीवन्ति ते वै निरयगामिनः
ब्राह्मणानां गवाञ्चैव कन्यानाञ्च महामते ! ।येऽन्तरं यान्ति कार्य्येषु ते वै निरयगामिनः
शास्त्रविक्रायकाश्चैव कर्त्तारश्च महीपते ! ।शल्यानां धनुषाञ्चैव ते वै निरयगामिनः
शिलाभिः शङ्कुभिर्व्वापि श्वभ्रैर्व्वा मनुजर्षभ ! ।ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः
अगोप्तारश्च राजानो बलिषड्भागतस्कराः ।समर्थाश्चाप्यदातारस्ते वै निरयगामिनः
शान्तान् दान्तानथ प्रज्ञान् दीर्घकालसहोषि-तान् ।त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः
बालानामथ वृद्धानां दासानाञ्चैव ये नराः ।अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः
इत्येतत् कथितं राजन् ! धर्म्माधर्म्मविनिर्णयम् ।विमृष्य पुरुषः कर्म्म धर्म्ममेव समाचरेत्
”इति पाद्मे स्वर्गखण्डे ३४ अध्यायः
नरकविशेषगामिपापिनो यथा, --“कूटसाक्षी तथा सम्यक् पक्षपातेन यो वदेत् ।यश्चान्यदनृतं वक्ति नरो याति रौरवम्
भ्रूणहा पुरहर्त्ता गोघ्नश्च मुनिसत्तम ! ।यान्ति ते नरके रोधे यश्चोच्छ्वासनिरोधकः
सुरापो ब्रह्महा हर्त्ता सुवर्णस्य शूकरे ।प्रयाति नरके यश्च तैः संसर्गमुपैति वै
राजन्यवैश्यहा ताले तथैव गुरुतल्पगः ।तप्तकुम्भे स्वसृगामी हन्ति राजभटांश्च यः
साध्वीविक्रयकृद्बध्यपालः केशरिविक्रयी ।तप्तलौहे तु पच्यन्ते यश्च भक्तं परित्यजेत्
‘केशरी अश्वः ।’स्नुषां सुताञ्चापि गत्वा महाज्वाले निपात्यते ।अवमन्ता गुरूणां यो यश्चाक्रोष्टा नराधमः
वेददूषयिता यश्च वेदविक्रायकश्च यः ।अगभ्यागामी यश्च स्यात्ते यान्ति लवणं द्बिज !
चौरो विमोहे पतति मर्य्यादादूषकस्तथा ।देवद्बिजपितॄन् द्बेष्टा रत्नदूषयिता यः
याति कृमिभक्षे वै कृमीशे दुरिष्टकृत्
पितृदेवातिथीन् यस्तु पर्य्यश्नाति नराधमः ।लालाभक्षे यात्युग्रे शरकर्त्ता रोधके
”‘पर्य्यश्नाति परित्यज्य आदौ भुङ्क्ते ।’करोति कर्णिनो यस्तु यस्तु खड्गादिकृन्नरः
प्रयान्ति ते विशसने नरके भृशदारुणे ।असत्प्रतिग्रहीतारो नरके यान्त्यधोमुखे
अयाज्ययाजकस्तत्र तथा नक्षत्रसूचकः ।वेगी पूयवहञ्चैको याति मिष्टान्नभुङ्नरः
‘वेगी साहसकारी पुत्त्रादीन् वर्ज्जयित्वा एकएव मिष्टान्नभुक् ।’लाक्षामांसरसानाञ्च तिलानां लवणस्य ।विक्रेता ब्राह्मणो याति तमेव नरकं द्विज !
मार्ज्जारकुक्कुटच्छागान् श्ववराहविहङ्गमान् ।पालयन्नरकं याति तमेव द्विजसत्तम !
रङ्गोपजीवी कैवर्त्तः कुण्डाशी गरदस्तथा ।सूची माहिषकश्चैव पर्व्वकारी यो द्बिजः
‘पत्यौ जीवति जाराज्जातः कुण्डः तदन्नभोजीमाहिषो महिषोपजीवी यद्बा, --महिषीत्युच्यते भार्य्या भगेनोपार्ज्जितं धनम् ।उपजीवति यस्तस्याः वै माहिषकः स्मृतः
इति स्मृतिः
पर्व्वकारी धनादिलोभेनापर्व्वसु अमावास्या-दिक्रियाप्रवर्त्तकः ।’अगारदाही मित्रघ्नः शाकुनिर्ग्रामयाजकः ।रुधिरान्धे पतन्त्येते सोमं विक्रीणते ये
मधुहा ग्रामहन्ता याति वैतरणीं नरः ।रेतःपानादिकर्त्तारो मर्य्यादाभेदिनश्च ये
ते कृष्ण यान्त्यशौचाश्च कुहकाजाविनश्च ये ।असिपत्रवनं याति वनच्छेदी वृथैव यः
औरभ्रिको मृगव्याधो वह्निज्वाले पतन्ति वै ।यान्त्येते द्बिज ! तत्रैव यश्चापाकेषु वह्निदः
व्रतेषु लोपको यश्च स्वाश्रमाद्बिच्यतश्च यः ।सन्दंशयातनामध्ये पततस्तावुभावपि
दिवास्वप्नेषु स्कंन्दन्ति ये नरा ब्रह्मचारिणः ।पुत्त्रैरध्यापिता ये ते पतन्ति श्वभोजने
एते चान्ये नरकाः शतशोऽथ सहस्रशः ।येषु दुष्फृतकर्म्माणः पच्यन्ते यातनागताः
तथैव पापान्येतानि तथान्यानि सहस्रशः ।भुज्यन्ते यानि पुरुषैर्नरकान्तरगोचरैः
वर्णाश्रमविरुद्धञ्च कर्म्म कुर्व्वन्ति ये नराः ।कर्म्मणा मनसा वाचा निरयेषु पतन्ति वै
अधःशिरोभिर्दृश्यन्ते नारकैर्द्दिवि देवताः ।देवाश्चाधोमुखान् सर्व्वानधःपश्यन्ति नारकान्
स्थावराः कृमयोऽब्जाश्च पक्षिणः पशवो नराः ।धार्म्मिकास्त्रिदशास्तद्वन्मोक्षिणश्च यथाक्रमम्
सहस्रभागाः प्रथमा द्वितीयानुक्रमास्तथा ।सर्व्वे ह्येते महाभाग ! यावन्मुक्तिसमाश्रयाः
यावन्तो जन्तवः स्वर्गे तावन्तो नरकौकसः ।पापकृद्याति नरकं प्रायश्चित्तपराङ्मुखः
”इति विष्णुपुराणे -- ३२
अपि ।“कथयामि विचित्राणां कर्म्मणां विविधा गतीः ।ताः शृणुष्व महाराज ! याः श्रुत्वा मोक्षमाप्नु-यात्
परवित्तं परापत्यं कलत्रं पारकञ्च यः ।हरते बुद्धिमोहेन सोऽन्ते मृत्युवशं गतः
कालपाशेन संबद्धो यमदूतैर्म्महाबलैः ।तामिस्रे पात्यते तावत् यावद्बर्षसहस्रकम्
तत्र ताडनमुद्धूताः कुर्व्वन्ति यमकिङ्कराः ।पापभोगेन सम्मत्तस्ततो योनिन्तु शौकरीम्
तत्र भुक्त्वा महादुःखं मानुषत्वं गमिष्यति ।रोगादिचिह्नितं तत्र दुर्यशोज्ञापकं स्वकम्
भूतद्रोहं विधायैवं केवलं सकुटुम्बकम् ।पुष्णाति षापनिरतः सोऽन्धतामिस्रके पतेत्
ये नरा इह जन्तूनां वधं कुर्व्वन्ति वै मृषा ।ते रौरवे निपात्यन्ते खाद्यन्ते रुरुभिर्यतः
यः स्वादरार्थं भूतानां वधमाचरति स्फुटम् ।महारौरवसंज्ञे तु पात्यते यमाज्ञया
यो वै निजन्तु जनकं ब्राह्मणं द्वेष्टि पापकृत् ।कालसूत्रे महादुष्टे योजनायतविस्तृते
यावन्ति पशुरोमाणि गवां द्वेषं करोति यः ।तावद्बषसहस्राणि पच्यते यमकिङ्करैः
यो भूमौ भूपतिर्भूत्वा दण्डायोग्यन्तु दण्डयेत् ।करोति ब्राह्मणस्यापि देहदण्डं विलोलुपः ।स शूकरमुखैर्द्दुष्टैः पीड्यते यमकिङ्करैः
पश्चाद्दष्टासु योनीषु जायते पापभुक्तये ।ब्राह्मणानां गवां ये तु द्रव्यं वित्तं तथाल्पकम्
वृत्तिं वा गृह्णते मोहाल्लम्पन्ति स्वबलान्नराः ।ते परत्रान्धकूपे पात्यन्ते महार्द्दिताः
योऽर्थं स्वयमुपाहृत्य मधुरञ्चात्ति लोलुपः ।न देवाय सुहृदे ददाति रसनातुरः
पतत्येव नरके कृमिभोजनसंज्ञके ।अनापदि नरो यस्तु हिरण्यादीनपाहरेत्
ब्रह्मस्वं वा महादुष्टः दंशे नरके पचेत् ।यः स्वदेहं प्रपुष्णाति नान्यं जानातिं मूढधीः
मनसा कल्पितं द्रव्यं विदुषे यो ददाति ।स पुमान्नरकं याति यावदिन्द्राश्चतुर्द्दश
पश्चाद्दष्टासु योनीषु जायते वर्णसङ्करः ।दानानि वाडवे दत्त्वा पुनः शुद्धो भविष्यति
वाचा दत्तं मनोदत्तमिति साहं वदेद्यदि ।कम्पन्ते पितरस्तस्य नरकाय समुत्सुकाः
वाचा दत्तं मनोदत्तं दत्तं पाणिकुशोदकम् ।एतद्दत्तमदत्तं स्यात् जिह्वामुत्पाटयेद्यमः
यात्यते तैलतप्ते कुम्भीपाकेऽतिदारुणे
यो नगम्यां स्त्रियं मोहाद्योषिद्भावाच्च काम-येत् ।तं तया किङ्कराः शूर्म्या परिबद्धञ्च कुर्व्वते
ये बलाद्वेदमर्य्यादां लुम्पन्ति स्वबलोद्धताः ।ते वैतरण्यां पतिता मांसशोणितभक्षकाः
वृषलीं यः स्त्रियं कृत्वा तया गार्हस्थ्यमाचरेत् ।पूयोदे निपतत्येव महादुःखसमन्वितः
ये दम्भानाश्रयन्ते वै धूर्त्ता लोकस्य वञ्चने ।वैशसे नरके मूढाः पतन्ति यमताडिताः
ये सवर्णां स्त्रियं मूढाः पाययन्ति स्वरेतसम् ।रेतःकुल्यासु ते पात्या रेतःपानेषु तत्पराः
ये चौरा वह्निना दुष्टा गरदा ग्रामलुण्ठकाः ।सारमेयादने ते वै पात्यन्ते पातकान्विताः
कूटसाक्ष्यं वदत्यद्धा पुरुषः पापसम्भृतः ।पारकीयन्तु द्रव्यं यो रक्षति प्रसभं बली
वीचिनरके पापे ह्यवाग्वक्त्रः पतत्यधः ।तत्र दुःखं महद्भुक्त्वा पापिष्ठां योनिमाव्रजेत्
यो नरो रसनास्वादात् सुरां पिबति मूढधीः ।तम्पाययति लोहस्य रसं धर्म्मस्य किङ्कराः
यो गुरूनवमन्येत स्वविद्याचारदर्पितः ।स मृतः पात्यते क्षारसंज्ञकेऽधोमुखः पुमान्
विश्वासघातं कुर्व्वन्ति ये नरा धर्म्मनिष्कुताः ।शूलप्रोते तु नरके पात्यन्ते बहुयातनाः
यैर्न श्रुता रामकथा परोपकृतिः कृता ।तेषां सर्व्वाणि दुःखानि भवन्ति नरकान्तरे
अत्र यस्य सुखं भूयस्तस्य स्वर्ग इतीर्य्यते ।ये दुःखिनो रोगयुता नरकादागतास्तु ते
”इति पाद्मे पातालखण्डे ४८ अध्यायः
(अथ महारौरवादिनरकाख्यानम् यथा, मार्क-ण्डेये १२ ३-३९ ।पुत्त्र उवाच ।“रौरवस्ते समाख्यातः प्रथमं नरको मया ।महारौरवसज्ञन्तु शृणुष्व नरकं पितः !
योजनानां सहस्राणि सप्त पञ्च समन्ततः ।तत्र ताम्रमयी भूमिरधस्तस्य हुताशनः
तत्तापतप्ता सर्व्वाशा प्रोद्यदिन्दुसमप्रभा ।विभात्यति महारौद्रा दर्शनस्पर्शनादिषु
तस्यां बद्धः कराभ्याञ्च पद्भ्याञ्चैव यमानुगैः ।मुच्यते पापकृम्मध्ये लुठमानः गच्छति
काकैर्व्वकैर्वृकोलूकैर्वृश्चिकैर्म्मशकैस्तथा ।भक्ष्यमाणस्तथा गृध्रैर्द्रुतं मार्गे विकृष्यते
दह्यमानः पितर्मातर्भ्रातस्तातेति चाकुलः ।वदत्यसकृदुद्बिग्नो शान्तिमधिगच्छति
एवं तस्मान्नरैर्मोक्षो ह्यतिक्रान्तैरवाप्यते ।वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः
तथान्यस्तु तमो नाम सोऽतिशीतः स्वभावतः ।महारौरववद्दीर्घस्तथा तमसा वृतः
शीतार्त्तास्तत्र धावन्तो नरास्तमसि दारुणे ।परस्परं समासाद्य परिरभ्याश्रयन्ति
दन्तास्तेषाञ्च भज्यन्ते शीतार्त्तिपरिकम्पिताः ।क्षुत्तृष्णा प्रबला तत्र तथैवान्येऽप्युपद्रवाः
हिमखण्डवहो वायुर्भिनत्त्यस्थीनि दारुणः ।मज्जासृग्गलितन्तस्मादश्नुवन्ति क्षुधान्विताः
लेलिह्यमाना भ्राम्यन्ते परस्परसमागमे ।एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः
प्राप्यते ब्राह्मणश्रेष्ठ ! यावद्दुष्कृतसंक्षयः
निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ।तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः ! ।तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः
यमानुगाङ्गुलिस्थेन आपादतलमस्तकम् ।नचैषां जीवितभ्रंशो जायते द्बिजसत्तम !
छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति ।एवं वर्षसहस्राणि छिद्यन्ते पापकर्म्मिणः
तावद्यावदशेषं वै तत्पापं हि क्षयं गतम् ।अप्रतिष्ठञ्च नरकं शृणुष्व गदतो मम
यत्रस्थैर्न्नारकैर्दुःखमसह्यमनुभूयते ।तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः
दुःखस्य हेतुभूतानि पापकर्म्मकृतां नृणाम् ।चक्रेष्वारोपिताः केचिद्भ्राम्यन्ते तत्र मानवाः
यावद्वर्षसहस्राणि तेषां स्थितिरन्तरा ।घटीयन्त्रेषु चैवान्यो बद्धस्तोये यथा घटी
भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः ।अस्रैर्मुखविनिष्क्रान्तैर्नेत्रैरस्रुविलम्बिभिः
दुःखानि ते प्राप्नुवन्ति यान्यसह्यानि जन्तुभिः
असिपत्रवनं नाम नरकं शृणु चापरम् ।योजनानां सहस्रं यो ज्वलदग्न्यास्तृतावनिः
तप्ताः सूर्य्यकरैश्चण्डैर्यत्रातीव सुदारुणैः ।प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः
तन्मध्ये वनं रम्यं स्निग्धपत्रं विभाव्यते ।पत्राणि तत्र खड्गानां फलानि द्विजसत्तम !
श्वानश्च तत्र सबलाः स्वनन्त्ययुतशोभिताः ।महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः
ततस्तद्बनमालोक्य शिशिरच्छायमग्रतः ।प्रयान्ति प्राणिनस्तत्र तीव्रतृट्परिपीडिताः
हा मातर्हा तात ! इति क्रन्दन्तोऽतीवदुःखिताः ।दह्यमानाङ्घ्रियुगला धरणीस्थेन वह्निना
तेषां गतानां तत्रासिपत्रपातीसमीरणः ।प्रवाति तेन पात्यन्ते तेषां खड्गान्यथोपरि
ततः पतन्ति ते भूमौ ज्वलत्पावकसञ्चये ।लेलिह्यमाने चान्यत्र व्याप्ताशेषमहीतले
सारमेयास्ततः शीघ्रं घातयन्ति शरीरतः ।तेषामङ्गानि रुदतामनेकान्यतिभीषणाः
असिपत्रवनं तात ! मयैतत् कीर्त्तितं तव ।अतः परं भीमतरं तप्तकुम्भं निबोध मे
समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः ।ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः ।तेषु दुष्कृतकर्म्माणो याम्यैः क्षिप्ता ह्यधोमुखाः
क्वाथ्यन्ते विस्फुटद्गात्रगलन्मज्जजलाविलाः ।स्फुटत्कपालनेत्रास्थिछिद्यमाना विभीषणैः
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः ।पुनःसिमसिमायन्त्रे तैलेनैक्यं व्रजन्ति
द्रवीभूतैः शिरोगात्रस्नायुमांसत्वगस्थिभिः ।ततो याम्यैर्नरैराशु दर्व्व्या घट्टनघट्टिताः
कृतावर्त्ते महातैले मथ्यन्ते पापकर्म्मिणः ।एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः !
”)