| YouTube Channel

नयनाभिघात (nayanAbhighAta)

 
वाचस्पत्यम्
Sanskrit
नयनाभिघात
पु०
त० सुश्रुतोक्ते नयनाभिहननरूपेरोगभेदे यथोक्तम् “अथातो नयनाभिधातप्रतिषेधं व्या-ख्यास्यामः अभ्याहते तु नयने बहुधा नराणांसंरम्भरागतुमुलासु रुजासु धीमान् नस्यप्रलेपपरि-षेचनतर्पणाद्यमुक्तं पुनः क्षतजपित्तजशूलपथ्यम् ।दृष्टिप्रसादजननं विधिमाशु कुर्य्यात्स्निग्धैर्हिमैश्च मधुरैश्चतथा प्रयोगैः स्वेदाग्निधूमभयशोकरुजाभिघातैरभ्या-हतावपि तथैव भिषक् चिकित्सेत् सद्योहते नयनएष विधिस्तदूर्द्ध्वं स्यन्देरितो भवति दोषमवेक्ष्य कार्यः ।अभ्याहतं नयनमीषदथास्य वाष्पसंस्वेदितं भवति तन्न-रुजं क्षणेन साध्यं क्षतं पटलमेकमुभे तु कृच्छ्रे त्रीणिक्षतानि पटलानि विवर्जयेत्तु स्यात्पिच्चिटञ्च नयनंह्यति चावसन्नं स्रस्तं च्युतञ्च हतदृक्च भवेत्तु याप्यम् ।विस्तीर्णदृष्टितनुरागमसत्प्रदर्शि साध्यं यथास्थितमनाबि-लदर्शनञ्च प्राणोपरोधवननक्षवकण्ठरोधैरुन्नम्यमाशुनयनं यदतिप्रविष्टम् नेत्रे विलम्बिनि विधिर्विहितःपुरस्तादुच्छिंहनं शिरसि वार्य्यवसेचनञ्च षट्सप्तति-र्नयनजा इमे प्रदिष्टा रोगा भवन्त्यमहतां महताञ्चतेभ्यः स्तन्यप्रकोपकफमारुतपित्तरक्तैर्बालाक्षिवर्त्मभवएव कुकूणकोऽन्यः मृद्नाति नेत्रमतिकण्डुमथाक्षिकूट-नासाललाटमपि तेन शिशुः नित्यम् सूर्यप्रभां नसहते स्रवति प्रवृद्धं तस्याहरेद्रुधिरमाशु विनिर्लिखेच्च ।क्षौद्रायुतैश्च कटुभिः प्रतिसारयेत्तु नातुः शिशोरभिहि-तञ्च विधिं विदध्यात्”