| YouTube Channel

नमस्कारी (namaskArI)

 
Monier Williams Cologne
English
नमस्—कारी (ई),
f.
a kind of plant
Shabdartha Kaustubha
Kannada
नमस्कारी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮುಟ್ಟಿದರೆ ಮುನಿವ ಗಿಡ
निष्पत्तिः - > नमस्+डु कृञ् (करणे) - "णिनिः" (३-२-७८)
वैजयन्तीकोषः
Sanskrit
Word: नमस्कारी
Root: नमस्कारी
Gender: स्त्री
Number: all
अर्थः
Meaning(s):
Sensitive plant
Mimosa pudica
Tamil Varaḻañouṇḍi
Shloka(s):
3|3|148|1 लज्जालुस्तु नमस्कारी वदर्यञ्जलिकारिका। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|148|1 लज्जालुः (लज्जालु) (स्त्री) Sensitive plant
Mimosa pudica
Tamil Varal̤am cuṇḍi
3|3|148|1 नमस्कारी (नमस्कारी) (स्त्री) Sensitive plant
Mimosa pudica
Tamil Varaḻañouṇḍi
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
नमस्कारी,
स्त्री,
(नमस्कारस्तदञ्जलिरिव पत्र-सङ्कोचोऽस्त्यस्या इति अच् गौरादित्वात्ङीष् ।) खदिरिकाशाकः लाजालु इतिख्यात इति केचित्
किन्तु रभसेन वराह-क्रान्ता लज्जालुः समङ्गा जलकारिकेति खदिरि-कायाम् सङ्कोचपत्री लज्जालुरिति लज्जा-लुकायां पठितम् अञ्जलिरूपपत्रत्वादञ्जले-र्नमस्कारव्यञ्जकत्वात् नमस्कारशीलेव नमस्कारी ।इत्यमरटीकायां भरतः
(यथास्याः पर्य्यायोवैद्यकरत्नमालायाम् ।“गण्डकालीनमस्कारी समङ्गा खदिरी क्वचित्
”)
वाचस्पत्यम्
Sanskrit
नमस्कारी स्त्री नमस्कारः तदङ्गाञ्जलिरिव पत्रम् अस्त्यस्याःअच् गौरा० ङीष् लज्जालुवृक्षे अमरः तस्याः नम-स्काराङ्गाञ्जलिरूपपत्रकत्वात् तथात्वम्