| YouTube Channel

नमस्कारः (namaskAraH)

 
Spoken Sanskrit
English
नमस्कारः - namaskAraH - expr. - Goodevening.
नमस्कारः - namaskAraH - expr. - Goodafternoon
नमस्कारः, आगच्छ. - namaskAraH, Agaccha. - sentence - Goodmorning, pleasecome.
नमस्कारः, कुशलम् किम्? - namaskAraH, kuzalamkim? - sentence - Goodmorning.Howdoyoudo?
Apte Hindi
Hindi
नमस्कारः
पुं*
नमस्- कारः -
"प्रणति, सादर प्रणाम, सादर अभिवादन"
Wordnet
Sanskrit
Synonyms:
नमस्कारः, नमनम्, नतिः
noun
नत्वा अभिवादनस्य क्रिया।
"तेन अतिथिं नमस्कारः कृतः।"
Synonyms:
आदरः, सत्कारः, सम्मानः, मानः, अर्चनम्, अर्हा, अर्हणम्, अर्चा, अभ्यर्चा, अभ्यर्चनम्, पूजा, नमस्कारः, सेवा, सम्भावना, आराधनम्, पुरस्कारः, श्लाघा
noun
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
"मातुः पितुः आदरः करणीयः।"
Tamil
Tamil
நமஸ்கார: : நமஸ்க்ருதி: = வணங்குதல், நமஸ்கரித்தல்.
शब्दकल्पद्रुमः
Sanskrit
नमस्कारः,
पुं,
(नमः शब्दस्य कारः करणं यत्र ।)विषभेदः इति शब्दचन्द्रिका
(नमः करःणम् नमस् + कृ + घञ् ।) नतिः चत्रिविधः कायिकः वाचिकः मानसिकश्च ।यथा, --“कायिको वाग्भवश्चैव मानसस्त्रिविधः स्मृतः ।नमस्कारस्तु तत्त्वज्ञैरुत्तमाधममध्यमः
”कायिकादिरपि त्रिविधो यथा, --“प्रसार्य्य पादौ हस्तौ पतित्वा दण्डवत् क्षितौ ।जानुभ्यां धरणीं गत्वा शिरसा स्पृश्य मेदिनीम्
क्रियते यो नमस्कार उत्तमः कायिकस्तु सः
जानुभ्याञ्च क्षितिं स्पृष्ट्वा शिरसा स्पृश्य मेदिनीम् ।क्रियते यो नमस्कारो मध्यमः कायिकस्तु सः
पुटीकृत्य करौ शीर्षे दीयते यद्यथा तथा ।अस्पृष्ट्वा जानुशीर्षाभ्यां क्षितिं सोऽधम उच्यते
या स्वयं गद्यपद्याभ्यां घटिताभ्यां नमस्कृतिः ।क्रियते भक्तियुक्तैर्व्वा वाचिकस्तूत्तभः स्मृतः
पौराणिकैर्व्वेदिकैर्व्वा मन्त्रैर्या क्रियते नतिः ।मध्यमोऽसौ नमस्कारो भवेद्वाचनिकः सदा
यत्तु मानुषवाक्येन नमनं क्रियते सदा ।स वाचिकोऽधमो ज्ञेयो नमस्कारेषु पुत्त्रकौ
इष्टमध्यानिष्टगतैर्म्मनोभिस्त्रिविधं पुनः ।नमनं मानसं प्रोक्तसुत्तमाधममध्यमम्
त्रिविधे चं नमस्कारे कायिकश्चोत्तमः स्मृतः ।कायिकैस्तु नमस्कारैर्देवास्तुष्यन्ति नित्यशः
अयमेव नमस्कारो दण्डादिप्रतिपत्तिभिः ।प्रणाम इति विज्ञेयः पूर्व्वप्रतिपादितः
”इति कालिकापुराणे ७० अध्यायः
*
रात्रौ तन्निषेधो यथा, --“रात्रौ नैव नमस्कुर्य्यात्तेनाशीरभिचारिका ।अतः प्रातःपदं दत्त्वा प्रयोक्तव्ये ते उभे
”इति महाभारतमिति केचित्
नतिकरणम् तत्तु करशिरःसंयोगादि स्वाप-कर्षबोधकव्यापारविशेषः इति मुग्धबोध-टीकायां दुर्गादासः
“सर्व्वे चापि नमस्कुर्य्युः सर्व्वावस्थासु सर्व्वदा
”अभिवादयेदित्यनुवृत्तौ शङ्खः नाप्रयताया-प्रयतश्च इति शुद्धितत्त्वम्
“स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः
”इति स्मृत्यर्थसारः
*
“देवं विप्रं गुरुं दृष्ट्वा नमेद्यस्तु सम्भ्रमात् ।स कालसूत्रं व्रजति यावच्चन्द्रदिवाकरौ
ब्राह्मणञ्च गुरुं दृष्ट्वा नमेद्यो नराधमः ।यावज्जीवनपर्य्यन्तमशुचिर्य्यवनो भवेत्
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम्
“देवतायतनं दृष्ट्वा दृष्ट्वा तु दण्डिनन्तथा ।नमस्कारं कुर्य्याद्यः प्रायश्चित्ती भवेन्नरः
सभायां यज्ञशालायां देवतायतनेषु ।प्रत्येकन्तु नमस्कारो हन्ति पुण्यं पुराकृतम्
उपविश्य नमेत् शूद्रो दीर्घायुर्ब्राह्मणो वदेत् ।स शूद्रो नरकं याति ब्राह्मणो यात्यधोगतिम्
दूरस्थं जलमध्यस्थं धावन्तं मदगर्व्वितम् ।क्रोधवन्तं विजानीयात् नमस्कारञ्च वर्ज्जयेत्
पुष्पहस्तो वारिहस्तस्तैलाभ्यङ्गो जलस्थितः ।आशीःकर्त्ता नमस्कर्त्ता उभयोर्नरकं भवेत्
”इति कर्म्मलोचनम्
*
“मातुः पितुः कनीयांसं नमेद्बयसाधिकः ।नमस्कुर्य्याद्गुरोः पत्नीं भ्रातृजायां विमातरम्
”यमः ।“अभिवादयतः पूर्व्वमाशिषं प्रयच्छति ।यद्दुष्कृतं भवेत्तस्य तस्माद्भागं प्रपद्यते
स्वस्तीति ब्राह्मणे ब्रूयात् आयुष्मानिति राजनि ।वर्द्धतामिति वैश्येषु शूद्रे त्वारोग्यमेव
”इति मलमासतत्त्वम्
*
“गुरुपत्नीन्तु युवतीं नाभिवाद्येत पादयोः ।कुर्व्वीत वन्दनं भूयो भगो वोऽहमिति ब्रुवन्
विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् ।गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन्
अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्म्मतः ।असावहम्भो नामेति सम्यक् प्रणतिपूर्व्वकम्
आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्ज्जितः ।आयुष्मान् भव सौम्येति वाच्यो विप्रोऽभिवादने
अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्व्वाक्षरः प्लुतः ।यो वेत्त्यभिवादस्य द्विजः प्रत्यभिवादनम् ।नाभिवाद्यः विदुषा यथा शूद्रस्तथैव सः
सव्यस्तपाणिना कार्य्यमुपसंग्रहणं गुरोः ।सव्येन सव्यः प्रष्टव्यो दक्षिणेन तु दक्षिणः
लौकिकं वैदिकञ्चापि तथाध्यात्मिकमेव वा ।आददीत यतो ज्ञानं तं पूर्व्वमभिवादयेत्
ब्राह्मणं कुशलं पृच्छेत् क्षत्त्रबन्धुमनामयम् ।वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु
*
अभिवादनीया गुरवो यथा, --“उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।मातुलः श्वशुरस्त्राता मातामहपितामहौ ।वन्धुज्येष्ठः पितृव्यश्च पुंस्येते गुरवः स्मृताः
माता मातामही गुर्ब्बी पितुर्मातुश्च सोदराः ।श्वश्रूः पितामही ज्येष्ठा धात्री गुरवः स्त्रियाम् ।इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्बिजाः
अनुवर्त्तनमेतेषां मनोवाक्कायकर्म्मभिः ।गुरून् दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः
”इति कूर्म्मपुराणे ११ अध्यायः
*
अथ सप्तधा नतिलक्षणानि ।“त्रिकोणमथ षट्कोणमर्द्धचन्द्रं प्रदक्षिणम् ।दण्डमष्टाङ्गमुग्रञ्च सप्तधा नतिलक्षणम्
ऐशानी वाथ कौवेरी दिक् कामाख्याप्रपूजने ।प्रशस्ता स्थण्डिलादौ सर्व्वमूर्त्तेस्तु सर्व्वतः
त्रिकोणादिव्यवस्थाञ्च यदि पूर्व्वमुखो यजेत् ।पश्चिमात् शाम्भवीं गत्वा व्यवस्थां निर्द्दिशेत्तदा
यदोत्तरामुखः कुर्य्यात् साधको देवपूजनम् ।तदा याम्यात्तु वायव्यां गत्वा कुर्य्यात्तु संस्थितिम्
दक्षिणाद्वायवीं गत्वा दिशं तस्माच्च शाम्भवीम् ।ततोऽपि दक्षिणं गत्वा नमस्कारस्त्रिकोणवत् ।त्रिकोणो यो नमस्कारस्त्रिपुराप्रीतिदायकः
दक्षिणाद्वायवीं गत्वा वायव्यात् शाम्भवीं ततः ।ततोऽपि दक्षिणं गत्वा तां त्यक्त्वाग्नौ प्रविश्य
अग्नितो राक्षसीं गत्वा ततश्चाप्युत्तरां दिशम् ।उत्तराच्च तथाग्नेयीं भ्रमणं द्बित्रिकोणवत् ।षट्कोणो यो नमस्कारः प्रीतिदः शिवदुर्गयोः
दक्षिणाद्बायवीं गत्वा तस्माद्ब्यावृत्य दक्षिणम् ।गत्वा योऽसौ नमस्कारः सोऽर्द्धचन्द्रः प्रकी-र्त्तितः
सकृत् प्रदक्षिणं कृत्वा वर्त्तुलाकृतिसाधकः ।नमस्कारः कथ्यतेऽसौ प्रदक्षिण इति द्विजैः
त्यक्त्रा स्वमाननस्थानं पश्चाद्गत्या नमस्कृतिः ।प्रदक्षिणं विना या तु निपत्य भुवि दण्डवत् ।दण्ड इत्यच्यते देवैः सर्व्वदेवौघमोददः
पूर्व्ववद्दण्डवद्भूमौ निपत्य हृदयेन तु ।चिवुकेन मुखेनाथ नासया त्वलिकेन
ब्रह्मरन्ध्रेण कर्णाभ्यां यद्भूमिस्पर्शनं क्रमात् ।तदष्टाङ्ग इति प्रोक्तो नमस्कारो मनीषिभिः
प्रदक्षिणत्रयं कृत्वा साधको वर्त्तुलाकृतिः ।ब्रह्मरन्ध्रेण संस्पर्शः क्षितेर्यः स्यान्नमस्कृतौ ।स उग्र इति देवीघैरुच्यते विष्णुतुष्टिदः
नदानां सागरो यादृग्द्विपदां ब्राह्मणो यथा ।नदीनां जाह्नवी यादृग्देवानामिव चक्रधृक् ।नमस्कारेषु सर्व्वेषु तथैवोग्रः प्रशस्यते
त्रिकोणाद्यैर्नमस्कारैः कृतैरेव तु भक्तितः ।चतुर्वर्गं लभेद्भक्तो चिरादेव साधकः
नमस्कारो महायज्ञः प्रीतिदः सर्व्वतः सदा ।सर्व्वेषामपि देवानामन्येषामपि भैरव !
योऽसावुग्रो नमस्कारः प्रीतिदः सततं हरेः ।महामायाप्रीतिकरः नमस्करणोत्तमः
”इति कालीपुराणम्