| YouTube Channel

नपुंसकं (napuMsakaM)

 
Hindi
Hindi
नपुंसक लिंग
शब्दकल्पद्रुमः
Sanskrit
नपुंसकं,
क्ली,
(न स्त्री पुमान् “नभ्राण्नपा-दिति ।” ७५ इति निपातनात्स्त्रीपुंसयोः पुंसक-आदेशः ।) क्लीवम् इत्यमरः ।२ ३९
हिजिडा इति भाषा
तस्यकारणं यथा, --“उभयोर्ब्बीजसामान्ये जायते वै नपुंसकम्
”इति सुखबोधः
*
(नपुंसको भवेदिति भाष्यप्रयोगात् पुंलिङ्गोऽपिभवति तथा, पञ्चतन्त्रे ३६४ ।“परदेशभयाद्भिता बहुमाया नपुंसकाः ।स्वदेशे निधनं यान्ति काकाः कापुरुषामृगाः
”)नपुंसकगर्भस्य चिह्नं यथा, --“नपुंसकं यदा गर्भो भवेद्गर्भोऽर्वुदाकृतिः ।उन्नते भवतः पार्श्वे पुरस्तदुदरं महत्
*
नपुंसकविशेषानाह ।“आसेक्यश्च सुगन्धिश्च कुम्भीकश्चेर्षकस्तथा ।अमी सशुक्रा बोद्धव्या अशुक्रो भ्रूणसंज्ञकः
”तेषां लक्षणान्याह ।“पित्रोस्तु स्वल्पवीर्य्यत्वादासेक्यः पुरुषो भवेत् ।स शुक्रं प्राश्य लभते ध्वजोन्नतिमसंशयम्
यः पूतियोनौ जायेत हि सौगन्धिको भवेत् ।स्वे गुदेऽब्रह्मचर्य्याद्यः स्त्रीषु पुंवत् प्रवर्त्तते ।स कुम्भीक इति ज्ञेयो गुदयोनिस्तु स्मृतः
दृष्ट्वा व्यवायमन्येषां व्यवाये यः प्रवर्त्तते ।ईर्षकः तु विज्ञेयो दृष्टियोनिश्च स्मृतः
यो भार्य्यायामृतौ मोहादङ्गनेव प्रवर्त्तते ।तत्र स्त्रीचेष्टिताकारो जायते षण्ढसंज्ञकः
”इति भावप्रकाशः
(अस्य विवृतिर्यथा, --“समवीर्य्यरजस्त्वेन नरः स्त्रीप्रकृतिर्भवेत् ।नपुंसकमिति ख्यातं स्त्री पुरुषो वदेत्
”“समदोषबलेनापि प्रकृत्या विकृतेरपि ।समो भवेदसृक् शुक्रो नपुंसकसमुद्भवः
”इति हारीते शारीरस्थाने प्रथमेऽध्याये
)