| YouTube Channel

नन्दीश्वरः (nandIzvaraH)

 
Apte Hindi
Hindi
नन्दीश्वरः
पुं*
नन्दिः-ईश्वरः -
शिव का विशेषण
नन्दीश्वरः
पुं*
नन्दिः-ईश्वरः -
शिव का प्रधान अनुचर
Wordnet
Sanskrit
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
नन्दीश्वरः,
पुं,
(नन्दिनो गणविशेषस्य ईश्वरः ।)शिवः इति शब्दरत्नावली
नन्दीशतालः ।इति सङ्गीतदामोदरः
(नन्दी ईश्वरश्च ।)शिवद्वारपालः तस्य शिवपार्श्वदत्वकारणंयथा, --“ततस्त्रेतायुगे काले नन्दी नाम महामुनिः ।आरिराधयिषुः शर्व्वं तपस्तेपे सुदारुणम्
ततस्तु भगवान् प्रीतस्तस्मै विप्राय शङ्करः ।उवाच वचः साक्षात्तमृषिं वरदः प्रभुः
वरान् वृणीष्व विप्रेन्द्र ! यानिच्छसि महामुने ! ।तांस्ते सर्व्वान् प्रयच्छामि दुर्लभानपि मारिष
इत्युक्तोऽसौ भगवता शर्व्वेण सुनिपुङ्गव ।प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना
यदि प्रीतोऽसि भगवन् ! अनुक्रोशतया मम ।अनुग्राह्यो ह्यहं देव त्वयावश्यं सुराधिपं !
यथा नान्ये भवेद्भक्तिस्त्वयि नित्यं महेश्वर ! ।तथाहं भक्तिमिच्छामि सर्व्वभूताशये त्वयि
एतत्तु वचनं श्रुत्वा नन्दिनः महेश्वरः ।प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा
मद्रूपधारी मत्तेजास्त्र्यक्षः सर्व्वगुणोत्तमः ।भविष्यसि सन्देहो देवदानवपूजितः
अनेनैव शरीरेण जरामरणवर्ज्जितः ।दुष्प्राप्येयमवाप्या ते देवैर्गाणेश्वरी गतिः
पार्श्वदानां वरिष्ठश्च मामकानां द्विजोत्तम ! ।नन्दीश्वर इति ख्यातो भविष्यसि संशयः
अद्यप्रभृति देवाग्र्य ! देवकार्य्येषु सर्व्वतः ।त्वं प्रभुर्भविता लोके मत्प्रसादान्मुनीश्वर !
त्वामेवाभ्यर्च्चयिष्यन्ति सर्व्वभूतानि सर्व्वतः ।मत्तः समभिवाञ्छन्तः प्रसादं पार्श्वदाधिप !
यस्त्वां द्वेष्टि मां द्बेष्टि यस्त्वामनु मामनु ।नावयोरन्तरं किञ्चिदम्बरानिलयोरिव
द्बारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप ! ।वामेन विभुना वापि महाकालेन सर्व्वदा
”इति वराहपुराणम्