| YouTube Channel

नन्दीवृक्ष (nandIvRkSa)

 
Monier Williams Cologne
English
नन्दी—वृक्ष
m.
N.
of sev. plants (Bignonia Suaveolens, Cedrela Toona
&c.
),
L.
शब्दकल्पद्रुमः
Sanskrit
नन्दीवृक्षः,
पुं,
(नन्दि + वा ङीष् नन्द्याः वृक्षः ।नन्दीजनको वृक्षोवा ।) कोङ्कणदेशप्रसिद्धसुगन्धि-वृक्षविशेषः तत्पर्य्यायः तूणीकः तूणिकः ३तूणी पीतकः कच्छपः नन्दी कुठे-रकः कान्तः अस्य गुणाः कटुत्वम् ।तिक्तत्वम् शीतत्वम् पित्तरक्तदाहशिरोऽर्त्ति-स्वेदकुष्ठनाशित्वम् सुगन्धित्वम् पुष्टिवीर्य्यदातृ-त्वञ्च इति राजनिर्घण्टः
*
अश्वत्थाकारःक्षीरवान् स्वनामप्रसिद्धो वृक्षः इति भरतः
तुँद् इति ख्यातो वृक्ष इति केचित्
तत्पर्य्यायः ।तुन्नः कुवेरकः कुणिः कच्छः कान्त-लकः इत्यमरः १२८
तुणिः ।इति भरतः
नन्दिवृक्षः कूणिः तुन्दः १०नन्दिकः ११ नन्दिवृक्षकः १२ इति शब्द-रत्नावली
*
मेषशृङ्गीवृक्षः इति रत्नमाला
स्थालीवृक्षः इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
नन्दि(न्दी)वृक्ष
पु०
त० सन्तोषहेतौ कोङ्कणदेशप्रसिद्धेसुगन्धिवृक्षभेदे “नन्दीवृक्षो लघुः स्वादुस्तिक्तस्तुवरउष्णकः कटुपाकरसो ग्राही विषपित्तकफास्रनुत्”राजनि० अश्वत्थाकारे क्षीरयुक्ते (तुँद)ख्याते वृक्षभेदे३ गान्धीराख्यतृणे शब्दार्थ० मेषशृङ्गीवृक्षे रत्नमा०५ स्थालीवृक्षे भावप्र०