| YouTube Channel

नन्दिवर्द्धनः (nandivarddhanaH)

 
शब्दकल्पद्रुमः
Sanskrit
नन्दिवर्द्धनः,
पुं,
(नन्दिं वर्द्धयतीति वृध् + णिच् +ल्युः ।) शिवः (नन्दिं आनन्दं वर्द्धयतीति ।)पक्षान्तः पुत्त्रः इति मेदिनी ने, २३८
(यथा, गोः रामायणे ९९ १४ ।“सुषुवे यममित्रघ्नं कौशल्या नन्दिवर्द्धनम्
”)मित्रम् इति शब्दरत्नावली
(विमानविशेषः ।यथा, विश्वकर्म्मप्रकाशे अध्याये ।“विमानं छन्दकं तद्बदनेकशिखराततः ।स चाष्टभूमिकस्तद्बत् सप्ततिर्नन्दिवर्द्धनः
”निमिवंशीयविशेषः इति भागवतम् ।१३ १४
) आनन्दवर्द्धके, त्रि
(यथा, हरिवंशे ६८ २९ ।“कृष्ण कृष्ण महाबाहो गोपानां नन्दिवर्द्धन ! ।दम्यतामेष वै क्षिप्रं सर्पराजो विषायुधः
”)