| YouTube Channel

नन्दनन्दनः (nandanandanaH)

 
Apte Hindi
Hindi
नन्दनन्दनः
पुं*
नन्दः-नन्दनः -
कृष्ण का विशेषण
Wordnet
Sanskrit
Synonyms:
कृष्णः, नारायणः, दामोदरः, हृषीकेशः, केशवः, माधवः, अच्युतः, गोविन्दः, जनार्दनः, गिरिधरः, दैवकीनन्दनः, माधवः, शौरिः, अहिजितः, योगीश्वरः, वंशीधरः, वासुदेवः, कंसारातिः, वनमाली, पुराणपुरुषः, मुकुन्दः, कंसारिः, वासुः, मुरलीधरः, जगदीशः, गदाधरः, नन्दात्मजः, गोपालः, नन्दनन्दनः, यादवः, पूतनारिः, मथुरेशः, द्वारकेशः, पाण्डवायनः, देवकीसूनुः, गोपेन्द्रः, गोवर्धनधरः, यदुनाथः, चक्रपाणिः, चतुर्भुजः, त्रिविक्रमः, पुण्डरीकाक्षः, गरुडध्वजः, पीताम्बरः, विश्वम्भरः, विश्वरुजः, सनातनः, विभुः, कान्तः, पुरुषः, प्रभुः, जितामित्रः, सहस्रवदनः
noun
यदुवंशीय वसुदेवस्य पुत्रः यः विष्णोः अवतारः इति मन्यते।
"सूरदासः कृष्णस्य परमो भक्तः।"
शब्दकल्पद्रुमः
Sanskrit
नन्दनन्दनः,
पुं,
(नन्दस्य नन्दनः सुतः आनन्द-जनको वा ।) श्रीकृष्णः इति शब्दरत्नावली
तस्य लीलासंवरणान्ते तन्महिषीणां दस्यु-हस्तगतत्वकारणं यथा, --व्यास उवाच ।“कः श्रद्दध्यात् सगाङ्गेयान् हन्यास्त्वं सर्व्वकौर-वान् ।आभीरेभ्यश्च भवतः कः श्रद्दध्यात् पराभवम्
पार्थैतत् सर्व्वभूतस्य हरेर्लीलाविचेष्टितम् ।त्वया यत् कौरवा ध्वस्ता यदाभीरैर्भवान् जितः
गृहीता दस्युभिर्याश्च भवता शोचिताः स्त्रियः ।तदप्यहं यथावृत्तं कथयामि तवार्ज्जुन !
अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् ।बहूनब्दगणान् पार्थ ! गृणन् ब्रह्म सनातनम्
जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः ।बभुव तत्र गच्छन्त्यो ददृशुस्तं वरस्त्रियः
रम्भातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः ।तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव !
आकण्ठमग्नं सलिले जटाभारधरं मुनिम् ।विनयावनताश्चैनं प्रणेमुः स्तोत्रतत्पराः
यथा यथा प्रसन्नोऽसौ तुष्टुवुस्तं तथा तथा ।सर्व्वास्ताः कौरवश्रेष्ठ ! वरिष्ठन्तं द्विजन्मनाम्
श्रीअष्टावक्र उवाच ।प्रसन्नोऽहं महाभागा भवतीनां यदीस्यते ।मत्तस्तद्व्रियतां सर्व्वं प्रदास्याम्यतिदुर्लभम्
श्रीपराशर उवाच ।रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् ।प्रसन्ने त्वय्यसंप्राप्तं किमस्माकमिति द्विज !
इतरास्त्वब्रुवन् विप्र ! प्रसन्नो भगवान् यदि ।तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र ! पुरुषोत्तमम्
श्रीव्यास उवाच ।एवं भविष्यतीत्युक्त्वा प्रोत्ततार जलान्मुनिः ।तमुत्तीर्णञ्च ददृशुर्विरूपं वक्रमष्टधा
तब्दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन !
श्रीअष्टावक्र उवाच ।यस्माद्बिरूपरूपं मां मत्वा हासावमानना ।भवतीभिः कृता तस्मादेष शापं ददामि वः
मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम् ।मच्छापोपहताः सर्व्वा दस्युहस्तं गमिष्यथ
”“एवन्तस्य मुनेः शापादष्टावक्रस्य केशवम् ।भर्त्तारं प्राप्य ता याता दस्युहस्तं वराङ्गनाः
तत्त्वया नात्र कर्त्तव्यः शोकोऽल्पोऽपि हिपाण्डव ! ।तेनैवाखिलनाथेन सर्व्वन्तदुपसंहृतम्इति विष्णुपुराणे ३८ ६८ -- ८५