| YouTube Channel

नन्दनन्दन (nandanandana)

 
शब्दसागरः
English
नन्दनन्दन
m.
(-नः) A name of KRISHṆA.
E.
नन्द, and नन्दन a son
the
Son of NANDA.
Capeller Eng
English
नन्दनन्दन
m.
Nanda's son,
i.e.
Kṛṣṇa.
Yates
English
नन्द-नन्दन (नः) 1.
m.
Krishna.
Wilson
English
नन्दनन्दन
m.
(-नः) A name of KṚṢṆA.
E.
नन्द, and नन्दन a son
the son of NANDA.
Monier Williams Cologne
English
नन्द—नन्दन
m.
=
-कुमार,
L.
Apte Hindi
Hindi
नन्दनन्दनः
पुं*
नन्दः-नन्दनः -
कृष्ण का विशेषण
Shabdartha Kaustubha
Kannada
नन्दनन्दन
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶ್ರೀಕೃಷ್ಣ
व्युत्पत्तिः - > नन्दस्य नन्दनः
L R Vaidya
English
naMda-naMdana {% m. %} an epithet of Kṛishṇa.
शब्दकल्पद्रुमः
Sanskrit
नन्दनन्दनः,
पुं,
(नन्दस्य नन्दनः सुतः आनन्द-जनको वा ।) श्रीकृष्णः इति शब्दरत्नावली
तस्य लीलासंवरणान्ते तन्महिषीणां दस्यु-हस्तगतत्वकारणं यथा, --व्यास उवाच ।“कः श्रद्दध्यात् सगाङ्गेयान् हन्यास्त्वं सर्व्वकौर-वान् ।आभीरेभ्यश्च भवतः कः श्रद्दध्यात् पराभवम्
पार्थैतत् सर्व्वभूतस्य हरेर्लीलाविचेष्टितम् ।त्वया यत् कौरवा ध्वस्ता यदाभीरैर्भवान् जितः
गृहीता दस्युभिर्याश्च भवता शोचिताः स्त्रियः ।तदप्यहं यथावृत्तं कथयामि तवार्ज्जुन !
अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् ।बहूनब्दगणान् पार्थ ! गृणन् ब्रह्म सनातनम्
जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः ।बभुव तत्र गच्छन्त्यो ददृशुस्तं वरस्त्रियः
रम्भातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः ।तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव !
आकण्ठमग्नं सलिले जटाभारधरं मुनिम् ।विनयावनताश्चैनं प्रणेमुः स्तोत्रतत्पराः
यथा यथा प्रसन्नोऽसौ तुष्टुवुस्तं तथा तथा ।सर्व्वास्ताः कौरवश्रेष्ठ ! वरिष्ठन्तं द्विजन्मनाम्
श्रीअष्टावक्र उवाच ।प्रसन्नोऽहं महाभागा भवतीनां यदीस्यते ।मत्तस्तद्व्रियतां सर्व्वं प्रदास्याम्यतिदुर्लभम्
श्रीपराशर उवाच ।रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रुवन् ।प्रसन्ने त्वय्यसंप्राप्तं किमस्माकमिति द्विज !
इतरास्त्वब्रुवन् विप्र ! प्रसन्नो भगवान् यदि ।तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र ! पुरुषोत्तमम्
श्रीव्यास उवाच ।एवं भविष्यतीत्युक्त्वा प्रोत्ततार जलान्मुनिः ।तमुत्तीर्णञ्च ददृशुर्विरूपं वक्रमष्टधा
तब्दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन !
श्रीअष्टावक्र उवाच ।यस्माद्बिरूपरूपं मां मत्वा हासावमानना ।भवतीभिः कृता तस्मादेष शापं ददामि वः
मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम् ।मच्छापोपहताः सर्व्वा दस्युहस्तं गमिष्यथ
”“एवन्तस्य मुनेः शापादष्टावक्रस्य केशवम् ।भर्त्तारं प्राप्य ता याता दस्युहस्तं वराङ्गनाः
तत्त्वया नात्र कर्त्तव्यः शोकोऽल्पोऽपि हिपाण्डव ! ।तेनैवाखिलनाथेन सर्व्वन्तदुपसंहृतम्इति विष्णुपुराणे ३८ ६८ -- ८५
वाचस्पत्यम्
Sanskrit
नन्दनन्दन
पु०
नन्दस्य नन्दनः आनन्दजनकः श्रीकृष्णेवासुदेवे तस्य वासुदेवत्वेऽपि कंसभीत्या नन्दसुतां योग-मायामानीय तत्स्थले रात्रौ निगूढतया कृष्णस्य स्थाप-नेन तस्य तत्पुत्राभिमानात् तन्नन्दनत्वम् तत्कथा भाम०१० अ० यथा “ततश्च शौरिर्भगवत्प्रचोदितः सुतंसमदाय सूतिकागृहात् यदा बहिर्गन्तुमियेष तर्ह्यजाया योगमायाऽजनि नन्दजायया तया हृतप्रत्ययसवै-वर्त्तिषु द्वाःस्थेषु पौरेषु शायितेष्वथ द्वारश्च सर्वाःपिहिता दुरत्यया वृहत्कवाटायसकीलशृङ्खलैः कृष्णवाहे वसुदेव आगते स्वयं व्यशीर्य्यन्त यथा तमो रवेः ।ववर्ष पर्जन्य उपांशुगर्जितः शेषोऽन्वगाद्वारि निवारयन्फणैः मवोनि वर्षत्यसकृद् यमानुजा गम्भीरतोयौघजवोर्मिफेनिला भयानकावर्त्तशताकुला नदी मार्गंददौ सिन्धुरिव श्रियः पतेः नन्दव्रजं शौरिरुपेत्य तत्रतान् गोपान् प्रसुप्तानुपलभ्य निद्रया शिशुं यशोदा-शयने निधाय तत्--सुतां समादाय पुनर्गृहानगात् ।देवक्याः शयने न्यस्य वसुदेवोऽथ दारिकाम् प्रतिमुच्यपदोर्लोहमास्ते पूर्ववदावृतः यशोदा नन्दपत्नी जातंपुत्रमबुध्यत तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः”नन्दपुत्रनन्दसुतादयोऽप्यत्र योगमायायां स्त्री
Capeller
German
नन्दनन्दन नन्दसूनु u. नन्दात्मज
m.
Nanda's
Sohn (Bein. Kṛṣṇa's).